________________
श्रीपल्लीपालवंशीयधनपालविरचितः
[प्र.
प्रत्यभाषत सा नेदं जाने वृत्तमहं सखि !। कुमारमेव तत् पृच्छ ततोऽहमिदमभ्यधाम् ॥११०॥ केवलं देवि ! नैवायं वीक्षिताऽत्रभवत्यपि । इत्युक्त्वा वृत्तमालेख्यपटादिकमवादिषम् ॥११॥ गन्धर्वकमथाऽपृच्छं तदापृच्छच मदान्तिकात् । क्व गतं क्व स्थितं कुत्र विलम्बितमियत् त्वया ॥११२॥ विधुदुधोतवत् सद्यः कथमाविरभावि च । इति पृष्टो मया साश्रुलोचनोऽयमवोचत ॥११३॥ सायाह्वेऽहं तदाऽहाय कुमारोपवनाद् गतः । विचित्रवीर्यदेवस्य त्रिकूटमुकुटं पुरम् ॥११४॥ सन्देशान् खेचरेशं तं विज्ञाप्य प्राप्य च प्रगे । श्रीपत्रलेखयाऽऽदिष्टं विमानं हारिचन्दनम् ॥११५॥ पटाञ्चलाबद्धभवन्मित्रलेखस्ततोऽचलम् । काञ्ची प्रयातुं गन्धर्वदत्तादर्शनहेतवे ॥११६॥ मलयोपत्यकोत्तंसतापसाश्रमसन्निधौ । आकर्ण्य करुणाक्रन्दमुत्तीर्णोऽहं विहायसः ॥११७॥ ततः कृतकुचायासनिःश्वासध्यामलाधराम् । बाष्पाविलकपोलाङ्कमिलदाकुलकुन्तलाम् ॥११८॥ यियासुयौवनामेकां वीक्ष्य वृक्षतलेऽबलाम् । अवदं रुचते मातः ! किमर्थमिति कथ्यताम् ॥११९॥ असौ जगाद मत्पादन्यस्तमौलिः सगद्गदम् । कुरु पुत्र ! परित्राणमपत्यप्राणरक्षणात् ।।१२०॥ पुत्री काञ्चीपुरीभर्तुरियं मलयसुन्दरी । सर्वस्वभूता गन्धर्वदत्तागर्भसमुद्भव[7] ॥१२१॥ किञ्चिद् विचिन्त्य प्रहिता विगृहीतेन वैरिभिः ।
अर्द्धरात्रे पुरादत्राश्रमे पित्रा समर्प्य मे ॥१२२॥ 4 Note the peculiar use of that for second person, though it can be taken to be addressed through Malayasundari. २ ट । ३ स्वा । ४ cf त्रिकाण्ड• I. vii. 4.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org