________________
७]
तिलकमञ्जरीसारः।
अत्रैव च स्थिता कञ्चित् कालं कलितवल्कला । हेतोः' सद्यः कुतोऽप्यद्य सागरान्तिकमागमत् ।।१२३॥ धावन्त्या पृष्ठतो दृष्ट्वा मया निर्भसिता रुषा । जातानुतापया पश्चाच्चाटुवाक्यैः प्रसादिता ॥१२४॥ श्रान्तेल्यसक्तं सिक्ता च भीतया शीतवारिणा । परि प्रत्युत्तरेणापि नास्मि सम्भाविताऽनया ॥१२५॥ अतः करोमि पापाऽहं विलापानेवमाकुला । पश्यन्त्या एव मे जाताऽधुना 'विधुरचेतना ॥१२६॥ ततः सबाप्पो बालायास्तस्या दृष्ट्वाऽङ्गचेष्टितम् । अवदं मा विषीदार्ये । विषावेगा हि विक्रिया ॥१२७॥ अद्याप्यसौ सचैतन्या कन्या जीवितुमर्हति । तद्विमानेन नेयाऽऽशु स्थाने दिव्यौषधीजुषि ॥१२८॥ अचिन्तयमहो'! कार्यविवर्त्तस्य विचित्रता । सौधे या चिन्तिता द्रष्टुं सा दृष्टैवंविधा वने ॥१२९॥ अथ यानेऽब्जशय्यायां तां निधाय पिधाय च । सर्वतः स्वोत्तरीयेण चित्रमायमवादिषम् ॥१३०॥ दिनमेकमिह स्थयमायाँ सान्त्वयता त्वया । अहं पुनरिहानेष्ये द्रुतमस्तविषामिमाम् ॥१३१॥ गन्धर्वदत्तामाराध्य गत्वाऽयोध्यां पुरी ततः । विद्धालेख्यं लिखिष्यामि कुमारस्य प्रतिश्रुतम् ॥१३२॥ दैवाद् यदि विलम्बो मेऽवलम्ब्यालक्षितं तदा । रूपं किञ्चित् त्वया नेयः कुमारो रथनूपुरम् ॥१३३॥ यत् तत्रास्मिन् गतेऽस्माकं कार्यसिद्धिर्महीयसी । इत्युक्त्वा प्रस्थितो गन्तुं व्योम्ना दिव्यौषधाटवीम् ॥१३४॥ दक्षिणे च क्षणाद्वैन भरतार्द्ध विलचिते । विमानेगतिभङ्गोऽभूदेकशृङ्गनगोपरि ॥१३५॥ अथोरिक्षपन्तं सक्रोधमिव न्यग्रोधवीरुधम् ।
अद्राक्षमिन्द्रनोलाश्मभासुरं पुरुषं पुरः ॥१३६।। , हो । २ ।३ ना। ४ बि । ५ वा। ६ माहा । ७ शा। ८ एये । ९ त । १० ल । "स्म।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org