________________
तिलकमञ्जरोसारः। तत् तवानन्यसाध्यार्थकारिणोऽन्यत् करोमि किम् ? । आतिथ्यमित्थमुक्त्वाऽहं तमुरिक्षप्याङ्कमानयम् ॥९६॥ अथैत्य कुन्तला नाम शय्यापाली जजल्प माम् । देवीति विज्ञापयते ममाख्यातं वयस्यया' ॥९७॥ यद् दिदृक्षुः कुमारोऽद्य नगरं गूढविग्रहः । तन्निशीथमिमं दिव्यपटं प्रावृत्त्य पश्यतु ॥९८॥ अयं हि मे हिमाहार्यसमपद्ममहाह्रदम् ।। गतायै पद्मया दत्तः प्रभावोऽप्यस्य शंसितः ॥१९॥ यत् कोऽपि प्रेक्षतेऽनेन छन्नदेहं न देहिनम् । . नास्त्रं स्पृशति न व्याधिर्बाधते नाश्नुते विषम् ॥१००॥ किश्च स्पर्शादपि प्रौढशापानपहरत्ययम् । इत्युक्त्वा प्रावृणोत् तेन तनुं मम समन्ततः ॥१०१॥ तं निशीथमथ क्षिप्त्वा मक्षु प्रादुरभूत् पुरः । पुमानेको ममोत्सङ्गादद्रिशृङ्गादिवांशुमान् ॥१०२॥ तमालोक्य क्रमोल्लासिभयविस्मयसम्मदाः । गन्धर्वकोऽयमित्येवमुदघोषत योषितः ।।१०३॥ पटाक्षेपस्फुटाङ्गं तं दृष्ट्वा तत्र कृतानतौ । देवि ! गन्धर्वकः पूर्व यो नष्ट इति घोषितः ॥१०४॥ स निष्क्रान्तः कुमाराङ्कादित्याकर्ण्य परिच्छदात् । देवी मलयसुन्दर्या समं साश्चर्यमाययौ ॥१०५।। प्रीता सा वीक्ष्य मां दिव्यवस्त्रालङ्कारधारिणम् । समन्दाक्षमुपाविक्षत् पीठे परिजनाहृते ॥१०६॥ कृतप्रणामं पस्पर्श मूर्ध्नि गन्धर्वकं मुहुः । ततो मलयसुन्दUः पादयोस्तमपातयत् ॥१०७॥ ततोऽहमवदं देवि ! पटस्ते घटयन्नयम् । मम गन्धर्वकं बन्धुकल्पं सद्यःफलोऽभवत् ॥१०८॥ सविस्मयाऽथ साऽवोचन्नीचैः काञ्चीपतेः सुताम् ।
आयें ! किमु कुमारेण दृष्टो गन्धर्वकः पुरा ॥१०९॥ १ यो । २ ति ।
__Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org