________________
धातुविभक्त्यनपेक्षं क्रियाकलापं त्वनन्यसाध्यमपि ।
यं साधयत् जिनपते! चमत्कृते कस्य नो जातः ॥ ६॥ मयि सति कीदृक् चासन्नयमत्र कविरिति नाम वहतीति । रोषादसुराचार्यं जेतुं किं जिनपते! स्वरगाः ? ॥ ७॥ भगवंस्त्वयि दिवि गच्छति हर्षात्त्वदभिमुखमक्षताः क्षिप्ताः । सुररमणीभिर्मन्ये सारीभूतास्त एवाभ्रे ॥ ८॥ इन्द्रानुरोधवशतो मध्ये स्वर्गे ययौ भवानित्थम् । जिनपतिसूरे ! सन्तो दाक्षिण्यधना भवन्ति यतः ॥ ९ ॥ वामपदघातलग्नेन्द्राण्यवतारितशरावपुटखण्डाः । स्वः श्रीविवाहकार्यं तव नूनं दिव्युडू भूताः ॥ १० ॥ जिनजननदिनस्नानाधानेच्छातः किमाकुलीभूय । त्वं पञ्चत्वं प्राप्तः सुरपतिवज्जिनपतिर्भगवान् ? ॥ ११॥ त्वदभिमुखमिव क्षिप्तानाशानारीभिरक्षतान् नूनम् । उपभोक्तुं वियदजिरे विचरति चन्द्रो मराल इव ॥ १२ ॥ नास्तिकमतकृदमरगुरुजयनायेवासि जिनपते ! स्वरगाः । परमेतज्जगदधुना विना भवन्तं कथं भावि ? ॥ १३ ॥ हा! हा! श्रीमज्जिनपतिसूरे! सूरे त्वयीत्थमस्तमिते । अहह कथं भविता नीतिचक्रवाकी वराकीयम् ॥ १४ ॥ करतलधृतदीनास्ये श्रीशासनदेवि! मा कृथाः कष्टम् । यन्मन्ये तव पुण्यैर्जिनपतिसूरिर्दिवमयासीत् ॥ १५ ॥ रे दैव ! जगन्मातुः श्रीवाग्देव्या अपि त्वयात्रेपि? । ना मन्ये यदमुष्याः सर्वस्वं जिनपतिरहारि ॥ १६ ॥
[ हा ! हे जिनपतिसूरि जी महाराज ! श्री जिन शासन रूपी बगीचे में प्रतिदिन वृद्धि पाते विलास की लालसा में बसता हुआ मैं यह क्या अयोग्य बनाव देख रहा हूँ ॥ १ ॥]
[हे जिनपतिसूरि जी महाराज ! पद्मों (कमलों) से प्रभासित ( शोभित ) मुख (मध्यभाग) वाले सरोवर में जैसे पानी प्रविष्ट होता है, वैसे पद्मप्रभाचार्य आदि विद्वानों से सुशोभित अजमेर के महाराजा पृथ्वीराज की राजसभा रूप सरोवर में आपने जयश्री के साथ प्रवेश किया था ॥ २ ॥ ]
संविग्न साधु-साध्वी परम्परा का इतिहास
Jain Education International, 2010_04
For Private & Personal Use Only
(११९)
www.jainelibrary.org