________________
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे च लाघवमिति त्वयैवं नानाऽविविक्तप्रज्ञा प्रतिसंब्रियन्ते, विगृह्यन्ते वा, नाहं जैनेन्द्रत्यमभ्युपैमि, न चाविविक्तप्रज्ञान प्रतिसंवृणोमि, न तु विगृह्मैवात्र वादः, स तु सिद्धार्थसुतमतावलम्बिनं त्वामेवोद्दिश्य, यदुच्यते सैद्धार्थीयैरुपादाननियमदर्शनात् सत् कार्यम् , तिलवत्, तक्रियाद्यसत्त्वदर्शनादसत्, वीरणेष्विव घटो मृद्यपि, दृष्टा तु क्रिया, उपादाननियमश्च 5 तथाऽनिच्छतोऽविशेषः, उपादानमेवानुपादानमेव वा, लब्धात्मपदार्थकारकव्यापाराभाववत् प्रागपि व्यापाराभावश्च, उभयैकान्ते दोषदर्शनात् ।
(अथेदमिति) अथेदं जैनेन्द्रत्वमेव सदसत्त्वादित्वं प्रतिपद्य बहुधा प्रज्ञाप्य च मा भूदृजुजनेषु-अविविक्तप्रज्ञेषु जैनानामेव गौरवं तत्त्वज्ञा इति, मम च लाघवं अतत्त्वज्ञ इति, त्वयैवं नान[7] विविक्तप्रज्ञाः प्रतिसंनियन्ते [विगृह्यन्ते, अत्राह नाहं जैनेन्द्रत्वमभ्युपैमि, न चाविविक्तप्रज्ञाम् प्रतिसंघृणोमि, 10 न तु मया विगृह्मैवात्र वादः, सदसतोवैधात् , कार्य सदसत्ता नेत्यनेन सूत्रेण, स पुनर्षादः सिद्धार्थसुतमतावलम्बिने सदसदेकात्मिकत्यवादिनं त्वामेवोद्दिश्य, बदुच्यत इत्यादि सैद्धार्थीयमतप्रदर्शनार्थ: पूर्वपक्षः, ते हि सैद्धार्थीयाः सदसदेकात्मकत्वं वस्तुनोऽभिलषन्त इत्थमुपपत्तिं ब्रूयुः, तयथा-उपादाननियमदर्शनात् सत् कार्यम् , तिलवत् , तक्रियाद्यसत्त्वदर्शनादसत्, वीरणेष्विव घटो सृद्यपीति, इतरथाs
त्यन्तासत्कार्यवादे न स्यादुपादाननियमः खपुष्पस्येय, अत्यन्तसति च तन्त्ववस्थायामेय पटे पटार्या 15 कुविन्दस्य क्रिया न स्यात्, उपादाननियमतदर्थव्यापारौ सदसत्त्वे कार्यस्व हेतू, दृष्टा वित्यादिना समर्थयत्यनिष्टञ्चापादयति, तथाऽनिच्छतः तन्तुपाश्वादिष्वविशेषः स्यादुपादानमेवानुपादानमेव वा, लब्धात्मपदार्थकारकव्यापाराभाववत् प्रागपि व्यापाराभावः स्यादिति च यथासंख्यं निगमयति, यथासम्भवं न्तात्मतेति दर्शयति-जैनेन्द्रत्वमेवेति । मा भूदिति, आर्हतानां तव च क्रमेण तत्त्वज्ञत्वातत्त्वज्ञत्वप्रख्यातिः सरलमतिषु मा
भूदिति अस्मद्दर्शनेऽपि सदसदैकात्म्य वस्तुनोऽभ्युपगतमेवेति वदता त्वया ते सरलमतयो गृह्यन्त इति भावः । पूर्वपक्षी सर्वमिदम20 नभ्युपगच्छन् सदसदेकात्मकत्ववादिनं बौद्धमुद्दिश्य मदीयो वादः, नाहं सदसदैकात्मकत्वमभ्युपगच्छामि, तयोर्विरोधातू कार्य सदसत्ता नेति वचनाचेत्याह-अत्राहेति । बौद्धमतमुपन्यस्यति-ते हीति यथा लोके तैलार्थी तिलमेव सिकतादिपरिहारेणोपादत्ते घटार्थी तन्वादिपरिहारेण मृदमेव, पटार्थी मृदादिपरिहारेण तन्त्वायेव, नायं नियमः प्रतिनियतोपादानग्रहणे तत्र कार्यसत्त्वव्यतिरेकेण सम्भवति, तस्मात् तत्र कार्य सत्, तथा यदि तत्र कार्य सदेवाविभूते घटे यथाऽर्थक्रियादि दृश्यते तथा प्रागपि दृश्येत, न चैवं दृश्यते वीरणादौ घटाद्यर्थक्रिया, तस्मात् वीरणादौ घटादेरसत्त्ववत् मृदादावपि घटाद्यसदपीति सदसत्त्वं कार्यस्येति भावः। उपादानेऽत्यन्तं कार्यस्य सत्त्वेऽसत्वे वा दोषं दर्शयति-इतरथेति कारणे कार्यस्यात्यन्तासत्त्वञ्च कार्यनिष्ठधर्माननुविधायित्वम्, तन्निछान्यतरधर्माननुविधायित्वे तन्तुवत् पाश्वाद्यप्युपादानं स्यादविशेषात् , तनिष्ठसर्वधर्मानुविधायित्वे वा तन्ववस्थायां पटार्थिनः कुविन्दस्य प्रवृत्तिर्न स्यात् पटावस्थायामिव, तस्मात् कारणे कार्य सदसत् , उपादाननियमतदर्थव्यापाराभ्यामिति भावः। उपादाननियमतदर्थव्यापास्योदृष्टत्वात् साध्याभावाभ्युपगमे चाविशेषताया उपादानताया अनुपादानताया वा तदर्थिप्रवृत्त्यनुदयस्य च दोषस्य प्रसञ्जनात् सदसत्त्व
प्रतिबद्धत्वमुपादाननियमतदर्थव्यापारलक्षणहेतोः सिद्धमित्याशयेनाह-दृष्टात्विति।लब्धात्मेति कार्यस्वरूप निष्पत्त्यनन्तरे कार्यस्य 30 सत्त्वेन यथा तदर्थप्रवृत्त्यभावस्तथा तत्प्रागपि कार्यस्य सत्त्वेनाविशेषात्तदभावः स्यादिति भावः । एवं दृष्टा विति ग्रन्थक्रमेण दोषा उपसंहार्या इत्याह-यथासंख्यमिति । मूलकृद्भिस्तु यथासम्भवं दोषा निगम्यन्त इत्याशयेनोक्त-यथासम्भवमिति । सदस
सि. क. 'शात् । २ सि. क. संध्रियते। ३ सि. क. ते । ४ सि. क. 'णोध्वियद्यटो० । ५ सि. क. 'मेव । ६ सि. क.क्ष. हे. दृष्टातावदित्या०।
www
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org