________________
सदसदैकात्म्योपपादनम्] द्वादशारनयचक्रम् दण्डित्वव्यपदेशभाग्भवति, स्वसत्तया स[न] दण्डिसत्तया चासंस्तदेति सदसत् , तथा सत्कार्य सत्तासम्बन्धकाले सदेव स्वसत्तया खपुष्पाद्यवस्तुवैधात् , तथा सत्तापि न वस्तुसत्तयाऽसती सती क्रियते, किं तर्हि ? आश्रयप्रतिलम्भात्मन्येवाभिव्यज्यते तदुभयम् , वस्तुसत्तया सदेव सत्तादि द्रव्यादि च सम्बन्धिसत्तया नास्तीत्यर्थः, कुतः ? कारणकार्येत्यादिहेतोर्यावद्भेदादिति, द्रव्यादि वस्तु कार्य कारणञ्च, सत्ता त्वकार्यमकारणञ्च, नित्या सत्ता, द्रव्याद्यनित्यम् , सम्बन्धि द्रव्यादि, सत्ताऽसम्बन्धिनी, जातिमद्रव्यादि, 5 अजातिः सत्तेत्येतेभ्यो भेदेभ्यो भिन्नत्वात्, तन्तुसमवायवत्-यथा तन्तवः कारणादिधर्माणः तथा द्रव्यादयः, यथा समवायोऽकारणादिधर्मा तथा सत्तेति, दृष्टान्तदान्तिकयोश्च सदसत्त्वयोजना खभावसम्बन्धसत्ताभ्यां कर्त्तव्या, तस्मात् सदसदैकाम्योपपत्तिरेव, किश्चान्यत्-इतरेतराभावादिवर्णनैश्च त्वयैव सर्वत्र सदसदैकात्म्योपवर्णनमेव कृतमिति वाक्यशेषः, 'सच्चासत्' (वै० अ० ९ आ० १ सू० ४) इतीतरेतराभाववर्णनम् , घटः सन्नेव स्वात्मना पटाद्यात्मना नास्तीति तथा क्रियागुणव्यपदेशाभावात् [प्राग]- 10 सत् , (वै० अ० ९ आ० १ सू०) इति, 'असदिति भूतप्रत्यक्षत्वा भावा]द्भूतस्मृतेविरोधिप्रत्यक्षवत् (वै० अ० ९ आ० १ सू०) तथा भावेऽभावप्रत्यक्षत्वाच्च' (दै० अ० ९ आ० १ सू० ७) इति च प्रागभावप्रध्वंसाभाववर्णनश्च सर्वत्र सदसत्त्वमेव वर्णितमेकमत्यन्ताभावं मुक्त्वा, शशविषाणवदेकान्तनिरात्मकत्वानभ्युपगमादिति ।
अथेदं जैनेन्द्रत्वमेव प्रतिपद्य बहुधा प्रज्ञाप्य च मा भूदृजुजनेषु जैनानामेव गौरवं मम 15
सद्रूपतामाह-तथेति । सत्तायाः सदसद्रूपतामाह-सत्तापीति स्वसद्भावरहिता सत्ता न केनापि सती क्रियत इति भावः । सदसत्त्वं प्रकाशयति-आश्रयेति सत्ताऽऽश्रयभूतद्रव्यादिप्रतिलम्भादेव सदसत्तया प्रकाशते, द्रव्यादि च कारणसामग्रीविशेषलक्षणाश्रयेण आत्मप्रतिलम्भादेव सदसत्तया प्रकाशते नान्येन केनचिदिति भावः । तदुभयप्रकाशनप्रकारमाह-वस्तुसत्तयेति । कुतः सम्बन्धिसत्तया नास्तीत्यत्र सत्ताद्रव्यादीनां वैलक्षण्यादत्यन्तभिन्नत्वेन परस्परसम्बन्धाभाव इत्याशयेनाह-कारणकार्येत्यादि। दृष्टान्तमाह,-तन्तुसमवायवदिति । दृष्टान्तदान्तिकयोः हेतुं प्रदर्य साध्ययोजनामाह-दृष्टान्तेति । अन्योन्याभावप्राग- 20 भावप्रध्वंसाभावान् वर्णयद्भिर्भवद्भिः सदसदैकात्म्यस्यैव वर्णनं कृतमित्याह-इतरेतरेति, सच्चासदित्यादि वैशेषिकसूत्राण्यत्रार्थे प्रमाणत्वेनोपन्यस्यति-सञ्चासदिति, सदेव घटादि असदिति व्यवहारविषयश्चेत्तदा सोऽयमभावोऽन्योऽन्याभाव उच्यते, यथाऽसन् गौरश्वात्मना, असन् घटः पटात्मनेत्यादि सूत्रार्थः न हि पटो गौर्वा घटोऽश्वो वेति नजा तादात्म्यनिषेधः क्रियते, एवञ्च सदेवान्यात्मनाऽसदित्युक्तम्भवतीति भावः । प्रागभावप्रदर्शक सूत्रमादर्शयति-क्रियेति, प्राक्-कार्योत्पत्तेः पूर्वकाले कार्यमसत् , क्रियागुणव्यपदेशाभावात् , अनेन सूत्रेण प्राकालावच्छेदेनासत्त्वमुत्पत्त्यादिकालावच्छेदेन सत्त्वं कार्यस्योक्तं भवति, ततश्च सदसदात्मकत्वं 25 कार्यद्रव्यादेः प्रकाशितमिति भावः। प्रध्वंसाभावप्रकाशकं सूत्रमाह-असदितीति, असन् घट इति प्रत्यक्षात् घटे प्रध्वंसाभावात्मकोऽभावः प्रकाशितः, इदानीं भूतस्य-उत्पन्नस्य घटादेः प्रत्यक्षाभावात् भूतस्य प्रतियोगिनो घटादेः स्मृतेः घटध्वंसः प्रत्यक्षी क्रियते यथा विरोधिनः-ध्वंसादिविरोधिनो घटादेः प्रत्यक्ष भवति तथेति सूत्रार्थः । एवमभावत्रयमवलम्ब्य वस्तुनः सदसदेकात्म्यं वर्णितम् , न त्वत्यन्ताभावमवलंब्य, तत्र कारणमाह-एकमत्यन्ताभावमिति यदि घटादि वस्तु अत्यन्तमभावस्वरूपं निखिलधर्मप्रतियोगिकाभावरूपं भवेत्तर्हि शशविषाणादिवन्निरात्मकत्वादवस्त्वेव भवेत् , तस्मात्तत्परिहारेणैव सदसदात्मकं वस्त्विति भावः । तदेवं सदस- 30 दैकत्म्योपवर्णनेन जैनेन्द्रत्वमभ्युपगम्यापि निरूप्यापि च छलं करोषीत्याशयेनाह-अथेदमिति । जिनेन्द्रसम्मतत्वं वस्तुनोऽनेका
१.सि. क.क्ष. डे °द्धो।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org