________________
६५८
न्यायागमानुसारिणीव्याख्यासमेतम् 1 [विधिनियमोभयारे कवादित्वम् , तस्मादुत्पन्नस्याहेतु[त]एव विनाशसम्भवात् , तस्याद्रव्यत्वान्निर्बीजत्वात् खपुष्पवदत्यन्ताभावः स्यात् तथेदमपि स्यात् , अनिष्टश्चैतत्, यथा वाऽसिद्ध्ययुक्त्यनुत्पत्तिसामग्रीदर्शनादर्शनादिव्युत्पत्त्या सर्व शून्यं निर्हेतुकोत्पत्तिस्थितिविनाशाभावसाधात् खपुष्पवत् स्यात् , आदिग्रहणात् प्रतीयोत्पादसमुदायसन्तानादिसंवृतिव्युत्पत्तिवत्, न चेत् पूर्ववदिति, मा भूदेषोऽत्यन्ताभावदोष इति सहेतुककार्याभूतत्वाभ्युपगमे 5 अस्मदुक्तसदसदैकात्म्योपपत्तिरेव प्राप्नोति, एवं तावत् प्राक् सत्तासम्बन्धात[सद]सत्कार्यमिति प्रतिपादितम् ।
किश्चान्यत्
तिष्ठतु तावत् प्राक् सत्तया सम्बन्धात् कार्यस्य सदसत्त्वम् , यदापि स्वसत्तया सम्बद्धं तदापि सदसत् त्वन्मतेनैव, यत्तत्कार्य सत्तया सम्बद्धं सदित्यभिधीयते दण्डविशिष्टदेवदत्तवत् न च सत्तया, न हि दण्डसम्बन्धेन देवदत्तोऽसन् सन् क्रियते, 10 सत्ताऽपि न वस्तुसत्तयाऽसती सती क्रियते, आश्रयप्रतिलम्भात्मन्येवाभिव्यज्यते तदुभयम् , कारणकार्याकारणकार्यनित्यानित्यसम्बन्ध्यसम्बन्धिजातिजातिमद्भेदेभ्यो द्रव्यसत्तयोर्भेदात् , तन्तुसमवायवदितरेतराभावादिवर्णनैश्च ।
(तिष्ठतु तावदिति) तिष्ठतु तावत् प्राक् सत्तया सम्बन्धा[त्] कार्यस्य सदसत्त्वम् , यदापि सत्तया सम्बद्धं तदापि सदसत् त्वन्मतेनैव, तद्यथा यत्तत् कार्य सत्तया सम्बद्धं सदित्यभिधीयते सत्तया 15 विशेष[ण]भूतया विशेष्यते दण्डेनेव दण्डी विशेष्यत्वात् , न तु तत्, खसत्तयैव सल्लब्धात्मलाभमेव, दण्डविशिष्टदेवदत्तवत्, न च संत्तया, न हि दण्डसम्बन्धेन देवदत्तोऽसन् सन् क्रियते, किं तर्हि ? सन्नेव
तया द्वितीयक्षणकारणतयाऽभ्युपगते प्रथमक्षणे खत एव निरुद्ध जायमानो द्वितीयक्षणो निर्हेतुक एव सम्पन्नस्तदानीं कारणत्वेना। भिमतस्य प्रथमक्षणस्याभावात् , विनाशस्यापि स्वत एव सम्भवाच्च, तथा कारणैः कार्ये उत्पन्ने कारणे चरितार्थत्वेन निरुद्ध
कायस्याभावरूपता निहतुका, पुनः सत्तासम्बन्धकाले चाहेतुत एवाभावरूपताया निवृत्तिरिति क्षणिकवादतेति भावः । तत्र 20 दोषमाविष्करोति-तस्याद्रव्यत्वादिति द्रव्यं सामान्यमाश्रय इति पर्यायाः, तद्यस्य नास्ति तदद्रव्यं तस्य भावस्तस्मादित्यर्थः, निर्बीजत्वात्-निष्कारणत्वात् अभाव एव स्यादिति पूर्वोक्तवद्भाव्यम् । शून्यवादो वा प्रसक्त इत्याह-यथा वेति, यथा शून्यवादिनो वदन्ति वस्तुस्वभावो विचार्यमाणो हेतुतोऽहेतुतो वा भवेत् , यदि स हेतुतस्तर्हि स्वतः परत उभयतो वा स्यात् , तत्र स खभावो न खतो न परतो न वा द्वाभ्यां भवितुमर्हति, असिद्ध्ययुक्त्यनुत्पत्तिसामग्रीदर्शनादर्शनेभ्यः, नाप्यहेतुत इति सर्वशून्यतायास्तैर्व्यवस्थापितत्वात् तद्वत्ते कार्यमपि स्यादिति भावः । व्युत्पत्तियुक्तिः, हेतूनां व्याख्या अग्रे स्फुटीभविष्यति । क्षणिकशून्यतादिव्युत्पत्तिवदितिदृष्टान्त25 प्रदर्शने किं साधर्म्यमित्यत्राह-निर्हेतुकेति । दृष्टान्ते आदिग्रहणग्राह्यानाह-प्रतीत्योत्पादेति । कार्यस्याभूतत्वं सहेतुकञ्चेत्
सदसदैकात्म्योपपत्तिस्ते प्राप्नोतीत्याह-न चेदिति । अथ सत्तासम्बद्धमपि कार्य सदसदेवेति साधयितुं प्रक्रमते-तिष्ठतु तावदिति । यदापीति, सत्तासम्बन्धकालावच्छेदेनेत्यर्थः । यत्तदिति, यथा विशेषणेन दण्डेन दण्डी विशेष्यते तथा सत्तया विशेषणेन विशेष्यमाणं कार्य न सत्तया सत् क्रियते, किन्तूत्पन्न स्वसत्तयैव सद्भवतीति भावः । अत्रार्थे दृष्टान्तमाह-दण्डवि
शिष्टेति । दृष्टान्ते सदसत्त्वं घटयति-न हीति, देवदत्तो न हि दण्डेन सद्रूपं लभते, किन्तु दण्डो देवदत्तस्य दण्डित्वव्यपदेशमेव 30 केवलं कारयति देवदत्तस्तु लब्धात्मलाभ एव खसत्तया सन् , अन्यसत्तया चासन्निति सदसद्रूप इति भावः । दाष्टोन्तिके कार्य सद
३ सि.डे. दर्शनादि०। ४ सि. क. सदापि । ५ क.क्ष.
सि. क. वितासामसतान् । २ सि.क. तच्चान्द्र.। न सत्वासत्तया।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org