________________
भूताभूतत्वविकल्पनम्] द्वादशारनयचक्रम्
६५७ तदभूतत्वं तत् किं भूतस्य द्रव्यादेः ? अभूतस्य वा ? यदि भूतस्य तदेव भूतं वस्त्वात्मना, तदेव चाभूतमव्यवहारात्मनेति सदसत्त्वविरोधो नेति सदसदैकात्म्यापत्तिरेव, अथाभूतत्वमिष्यते ततो द्रव्यादेरभावहेतुर्वाच्यः, केन हेतुना तदभूतं कार्य स्वकारणेषु समवेतम् ? अहेतुतो भवने हि क्षणिकशून्यतादिव्युत्पत्तिवदभाव एव, न चेत् पूर्ववदस्मदुक्तसदसदैकात्म्योपपत्तिरेव प्रामोति ।।
(नन्वेषमिति) नन्वेवं तदव्यवहृते[:] प्रार्गभावभेदाभावषदभूतत्वमेव-यथा तस्योत्पन्नमात्रपटद्रव्यादेः प्राक् कुसूलकोशस्थासकशिवकपिण्डमृदवस्थाभिरभावभेदैः जलाद्याहरणादिव्यवहारो नास्तीति तत्र घटासत्त्वं तथा तदव्यवहृतेरभूतत्वमेवं प्राक् सत्तासम्बन्धात् सदसदात्मकस्य कार्यस्य, को दोषः ? इति, अत्रेदं सम्प्रधार्यम् , अथ यदेतदभूतत्वमित्यादिविकल्पद्वयोपन्यासेन प्रश्नो गतार्थः, तत्रोत्तरम् यदि भूतस्य द्रव्यादेरुत्पन्नमात्रस्याव्यवहारादभूतत्वमिष्यते तदेव भूतं वस्त्वात्मना, सदेव चाभूतमव्यवहारात्मनेत्यतः 10 सत्त्वासत्त्वविरोधो नेति सदसदैकात्म्यापत्तिरेव, अथाभ्युपगमविरुद्धमैकात्म्यं मा भूदित्यभूतत्वमिष्यते ततो द्रव्यादेरभावहेतुर्वाच्यः कार्यस्य केन हेतुना तदभूतं कार्य स्वकारणेषु समवेतमुत्पन्नमात्रमस्मदुक्ताविरोधहेतुकमव्यवहारयोग्यत्वात् सदसदित्येतं मुक्त्वा , स्यान्मतमहेतुत एवाभूतं, तदभावे कारणाभावान्, खपुष्पादिवदित्येतचायुक्तम् , यस्मात्-अहेतुतो भवने-निष्कारणता, [तया] असत्त्वे क्षणिकशून्यतादिव्युत्पत्तिवदभाव एव, स्यादिति वाक्यशेषः, यथा पूर्ववस्तुनि निरुद्धे पश्चादुत्तरमुत्पद्यमानं निर्हेतुकमिति प्राप्तं क्षणि- 15
भूतमुच्यते, तथा च यथा घटोत्पत्तिप्राक्काले कुसूलावस्थातो यावन्मृदवस्थं घटसाध्यार्थक्रियाव्यवहारादेरभावात् घटोऽसदुच्यते तथा सत्तासम्बन्धप्राक्कालीनमुत्पन्नमात्र घटादिद्रव्यमपि घटसाध्यव्यवहारजलाहरणाद्यभावादभूतमेव तदिति भावः। व्याख्या कर्नु मूलमुद्धरति-नन्वेव मिति तदव्यवहृतेः-घटादिविषयव्यवहाराभावादित्यर्थः, विचित्रव्यवहारफलको हि विविधभावाभ्युपगम इति भावः । प्रागिति घटोत्पत्तिप्राक्कालीनोपादाने योऽयं घटो नास्तीति व्यवहारविषयोऽभावः स घटप्रागभाव उच्यते चोपादानस्वरूप एवेति मृद आरभ्य कुसूलं यावदवस्थामेदा घटाभावमेदा एव, तैर्जलाहरणादिव्यवहाराभावात् घटाभावः-ता 20 अवस्था न घटभूतास्तद्वदित्यर्थः, प्राग्मेदभावामेदवदिति पाठे तु घटोत्पत्तेः प्राक् मृद आरभ्य कुसूलं यावत् ये भेदभावाः-अवस्थाविशेषाः तेऽमेदाः-मेदलक्षणघटरूपा न भवन्ति, न घटभूता इति भावः । एवमेव व्याचष्टे-यथेति, तस्येतिपदं तदव्यवहृतेरिति पदघटकं तस्य प्रागभावमेदैः व्यवहारो नास्तीति तत्र घटासत्त्वं-अभावमेदेषु घटाभावः घटोऽभूतस्तथा सत्तासम्बन्धप्राक्कालीनं घटादिकार्यमिति भावः। समाधातुमिदं विकल्पयति-अत्रेदमिति, अभूतत्वं भावधर्मोऽभावधर्मो वेति विकल्पतात्पर्यम् । तत्र यदि भावधर्मत्वं तर्युत्पन्नमात्रावस्थद्रव्यस्यैव व्यवहाराविषयत्वलक्षणमभूतत्वं सम्भवेत् , तथा च सति एकस्यैव द्रव्यादेवस्तुस्वरूपेण 25 भूतत्वमव्यवहारात्मना चाभूतत्वं प्राप्तं, तथा च भूतत्वाभूतत्वयोर्यथैकत्राविरोधः, उभयैकात्म च द्रव्यं तथा सत्त्वासत्त्वयोरेका न विरोध इति सदसदैकात्म्यापत्तिः स्यादित्याशयेन प्रथमविकल्पं दूषयति-यदि भूतस्येति । द्वितीयविकल्पं निराकरोतिअथाऽभ्युपगमेति कारणेषु कार्यद्रव्यादि उत्पन्नमप्यभावतया केन हेतुना समवैति, भावरूपेण च कुतो न समवैतीति वक्तव्यं भवता, न हि तत्तदानीं स्वरूपतः सदपि व्यवहाराविषयत्वेनासदिति सदसदैकात्म्यमविरुद्ध स्वीक्रियते भवतेति भावः. तस्य तदानीमभावरूपतया समवयने न किञ्चित् कारणं पश्याम इति तात्पर्यम् । अथ कारणं विनैवाभावरूपेणोत्पद्यते कार्यम्, किं 30 कारणगवेषणयेत्याशङ्कते-स्यान्मतमिति । नन्वेवं कारणव्यतिरेकेण तथाभवने तस्य निर्हेतुकत्वात् क्षणिकवादस्य शून्यवादस्य का प्रसक्तिः, तथा च कार्यस्यैवाभावः स्यादिति भावः । इदमेव परिष्करोति-यथेति यथा हि क्षणिकवादिमते सन्मात्रस्य क्षणिक
सि.क.क्ष. छाप्रागभेदभावभेदवदभू० के० प्रागमेदभावामेदवदभू०। २ सि.क. सच्चासत्त्वाविरोधेनेति । ३ छा० स्यान्मतं न हे।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org