________________
कामं लिङ्गमपि व्यापि लिङ्गिन्यङ्गि न तत्त्वतः । व्यापित्वान्ननु तत्तस्य गमकं गोविषाणवत् ॥ (प्रमा० स) प्रतिषेध्याप्रचारेण यस्माद्याप्तिरपोहते। लिङ्गे लिङ्गिनि च व्याप्तिस्तस्मात् सत्यप्यकारणम् ॥(प्रमा० स०) नाशिनः कृतकत्वेन......(प्रमा० स०) विषाणित्वेन गोव्याप्तिः............( प्रमा० स० ) तद्भावदर्शनादेव साध्यसाधनधर्मयोः । विधेः संयोगिवद्वृत्ति धाराधेययोरिव ॥ ( ग्रन्थकर्तुः ) एकस्मात् प्रत्यक्षात्............( कश्चिदर्थः कस्यचिदिंद्रियस्य प्रत्यक्षः ...............अविशिष्टस्याग्नेरस्तित्वं प्रतिपद्यते। ( न धर्मो धर्मिणा साध्यः सिद्धत्वात्तेन धर्म्यपि । धर्मेण धर्मः साध्यः स्यात् साध्यत्वाद्धर्मिणस्तथा ॥ ( ) साध्यत्वापेक्षया चात्र धर्मधर्मिव्यवस्था न गुणगुणित्वेनेत्यदोषः ( तद्भावदर्शनानुबन्धेन हि बुद्ध्युत्पत्तिरनुमानम् ( यथालिङ्गमपि व्यापि लिङ्गिन्यङ्गयपि तत्तथा । व्यापित्वादुभयोर्लिङ्गलिङ्गिता गोविषाणवत् ॥ ( ग्रन्थकृतः ) विधेयार्थप्रचारेण यस्माद्व्याप्तिरपेक्ष्यते । लिङ्गे लिङ्गिनि च व्याप्तिः तस्मात् सत्येव कारणम् ॥ (ग्रन्थकृतः) साध्ये नानुगमो हेतोः साध्याभावे च नास्तिता।............(प्रमा० स०)
मूलग्रन्थसमुद्धरणकरणपरमापयिकान्तर्गीकृतनयचक्रशास्त्रविश्रुतयशोराशिनिखिलविद्याधुरन्धरसिंहसूरगणिवादिक्षमाश्रमणसन्दृब्धन्यायागमानुसारिणीव्याख्योल्लसद्बहुप्रमाणवचनानि यथावसरं समुद्धरिष्यामः समुद्धरणकर्मण्यस्मिन्नपि निर्दिष्टप्रतिव्यतिरेकेण बह्वयः प्रतयोऽक्षिलक्षीकृता अपि सर्वासु सदृशाशुद्धिगर्भतया प्रतिविशेषावलम्बनमत्र नादृतम्,
परिश्रमबाहुल्यसम्पादनीयेऽस्मिन् सम्यक्परिनिष्ठितमतीनामपि याथातथ्येन मनोविषयं कर्तुमक्षस्यास्य संशोधनादिविधेये तन्वसौष्ठवात् प्रमादादिजादोषाधनकुत्रापि स्खलनं भवेत्तद्गुणैकानुरागिण उदाराशया विद्वद्वरेण्याः प्रशान्तान्तरङ्गेण निभाल्य समीकृत्य च विचारयन्त्वित्याशास्यते ....
विजयलब्धिसूरिणा
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org