________________
तृतीयविकल्पनिरासः ]
द्वादशारनयचक्रम्
६५५
wwwww
(अति) अत्र प्रयोगा न द्रव्यादि अन्याधेयस्वप्रकाश नान्येनाधेयः [ स्व]स्य द्रव्यादेः प्रकाश इति पक्षो नाधेयसत्त्वादिविशेषणं द्रव्यादि, नाप्रतिपूर्णसत्त्वादिविशेषणमिति वा पक्षः, सत्त्वात्, यत् सत् न तदन्याधेयस्वप्रकाशं नाधेयसत्त्वादि नाप्रतिपूर्णसत्त्वादि दृष्टम्, सामान्यादिवत् - यथा सामान्यविशेषसमवायाः सन्तो नान्या[धैयस्व ] प्रकाशनाधेयसत्त्वादयस्तथा द्रव्यादीनि, एवं सात्मकत्वात् प्रत्येकं सत्त्वात् स्वभावसद्भूतत्वादिति हेतवः, मूलहेतोरेव पर्यायवाचिनो वा, एवम[न] भ्युपगमे असदेव वा स्यात्, सत्त्व- 5 समवायलभ्यसद्भावत्वात् सत्त्वसमवायेन लभ्यः सद्भावोऽस्येति द्रव्यादि उत्पन्नमात्रत्रयमभिसम्बध्यते, कार्यवदति, कारणावस्थायां यत्कार्यं स दृष्टान्तः, नन्वेवं सत्त्वसमवायलभ्यसद्भावं तस्यामवस्थायां कार्यं न भवतीति चेन्न, त्वयैव निष्ठासम्बन्धयोरेककालत्वाभ्युपगमेन परिहृतत्वात् तस्मान्न सतामपि द्रव्यादीनां सत्करी सत्ता, व्यर्थत्वादिति साधूक्तमिति प्रस्तुतदोषोत्त्युपसंहारः, एवं तावदसतां सताश्च द्रव्यादीनां सत्करी न भवति सत्तेत्युक्तम् ।
wwwwwww
किचान्यत्
नापि सदसतां सत्करी सत्ता, अभूतत्वात्त्वन्मतेनैव, खपुष्पवत्, या तु त्वयोक्तोपपत्तिः
प्रकाशोऽन्येन येन केनचिदाधातुं योग्यो न भवतीति साध्यार्थः, एतेन कारणसामग्रीविशेषारब्धं कार्यद्रव्यादि स्वयमेव प्रकाशत इत्युक्तं भवति, अत उच्यते- नान्येनेति, अत्र स्वपदार्थं एवं बहुव्रीहावन्यपदार्थः । स्वप्रकाशरूपताऽचेतनस्य द्रव्यादेरयुक्तेति मन्यमान आह- नाधेयेति आधेयभूतं यत्सत्त्वादि तद्विशेषणं यस्य नास्ति तथाविधं द्रव्यादीत्यर्थः, एतेनातिरिक्तसत्ताद्रव्यत्वादि- 15 सम्बन्धः प्रतिक्षिप्तः । एवञ्चातिरिक्तसत्ताद्यभावे कार्यद्रव्यादि सम्पूर्णनिरतिशयसद्रूपम्, न तु यावन्न सत्तासम्बन्धस्तावदसद्रूपं सत् खरूपसल्लक्षणाप्रतिपूर्णसद्रूपमिति तथैव पक्षमारचयति - नाप्रति पूर्णेति । हेतुमाह-सत्त्वादिति । उदाहरणमाह-यत् सदिति । दृष्टान्तं घटयति-यथेति । तत्रैव साध्ये हेत्वन्तराण्याह - सात्मकत्वात्, शशविषाणादिवन्निरात्मकत्वाभावादित्यर्थः, सत्तादिसम्बन्धात्तस्य सद्रूपत्वेऽन्येन तस्य सद्रूपतापत्त्या खतो निरात्मकत्वं स्यात्, तच्च नेष्टमतः सात्मकत्वात् न तदन्याधेयस्वप्रकाशादीति भावः । प्रत्येकं सत्त्वादिति विशेषणसम्बन्धेन विनापि द्रव्यादिकार्यस्य स्वत एव परस्परातिशयवत्त्वेन प्रत्येकं सद्रूपता, न हि प्रत्येकं 20 सद्रूपत्त्वाभावे तत् सत्तया सम्बद्धुमीष्टे, खरविषाणादीनामपि सत्तया सम्बन्धप्रसङ्गादिति भावः । स्वभावसद्भूतत्वादिति यदि कारणसामग्री विशेषलब्धात्मलाभस्य कार्यद्रव्यादेः स्वत एव न सद्रूपता सत्तासम्बन्धादेव तथा, तर्हि स्वतो निरुपाख्यत्वादसदेव भवेत्, न चैवमिष्टमिति भावः । एते हेतवः सद्रूपतासाधकत्वात् सत्त्वस्य पर्यायरूपा एव, सात्मकत्वमेव हि सत्त्वं, प्रत्येकं स्वभावाद्वा व्यतिरिक्तस्य सत्त्वस्याभावाच्चेत्याशयेनाह - मूल हेतोरेवेति, प्रधानभूतसत्त्वहेतोरेवेत्यर्थः । विपक्षे दण्डमाहएवमनभ्युपगम इति, सत्त्वेऽप्यनन्याधेयस्वप्रकाशत्वानभ्युपगमे तस्यान्याधेयस्वप्रकाशत्वं-सत्तासमवायलभ्यसद्भावत्वं प्राप्तं 25 तथा च सति कार्यद्रव्यगुणकर्माण्यसद्रूपाण्येव स्युरिति भावः । दृष्टान्तमाह- कार्यवदिति, सत्तासम्बन्धप्राक्कालीनं कारणसमवेतं यत्कार्य तदसदेव तद्वदित्यर्थः । ननु तदानीं सत्तासमवायलभ्यं सद्रूपत्वं नास्तीत्यसिद्धो हेतुरिति शङ्कते - नन्वेवमिति । समाधत्ते - त्वयैव निष्ठासम्बन्धयोरिति, जातः सम्बद्धश्चेत्येकः काल इति वैशेषिकानां सिद्धान्तः, कारणसामग्र्या कार्यं निष्ठां प्राप्नुवदेव सत्तासम्बन्धमनुभवति, निष्ठानं निष्ठा जन्मोच्यते स्थितिर्वा तत्त्वञ्च सहक्रमभाव्यनेककार्यकारणत्वम्, कारणसामग्रीमहिना कार्यकारणभेदतिरोधायकसमवायेन यदैव समवायिकारणे नितिष्ठति तदैव जात्यापि सम्बध्यत इत्यभ्युपगमेन सत्तासमवाय- 30 लभ्यसद्रूपत्वं नासिद्धमिति भावः । सतां सत्तासम्बन्ध इति पक्षमुपसंहरति-तस्मादिति । तदेवं विकल्पद्वयेऽपि सत्ता सत्करी न भवतीत्याह-एवं तावदिति । अथ सदसतां सत्करी सत्तेति पक्षं वैशेषिकपक्षे सदसदात्मकवस्त्व प्रसिद्धेर्निराचष्टे - नापीति । विकल्पं
१ छा. अनाधेय० । २ सि. न्यायेना । क. डे. नान्येनचास्य द्र० । द्वा० न० ६ (८३)
Jain Education International 2010_04
10
For Private & Personal Use Only
www.jainelibrary.org