________________
६५४
nwww
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे विशेषणसम्बन्धप्रकाशं वस्तु, न न वस्तुनैव प्रकाश्यते विशेषणमिति तदेव वस्तु प्रकाशकं, तेन च वस्तुना नापेक्षितः सामान्येन सह सम्बन्धः, सामान्यमेव वस्तुना सह सम्बन्धमपेक्षत इति तत्सम्बन्धनियमाय त्वयैवाभ्युपगतमिति दर्शयितुं वचनोपन्यासः, कतमस्य वचनस्योपन्यासः ? उच्यते-यदुक्तं वस्त्वात्मावधारणे कृतेऽतिशयाभावाद्विशेषण]सम्बन्धाभाव इति चोदिते विकल्पान्तरेण परिहारवचनं5 तद्व्यक्ततरं वस्त्वेवार्थान्तरनिरपेक्षं विशेषणानामपि प्रकाशकमिति, तथा यदुक्तं-अथवा विशेषणसम्बन्धमन्तरेणापि वस्तुमात्राणां परस्परातिशयोऽस्ति, तेन विशेषणसम्बन्धनियमसिद्धिरित्येतद्वचनं यथोक्ततत्कारणसामग्र्यसद्भावविशेषाविशेषन्यायप्रापकमिति, चोद्यपरिहारोऽपीत्यादि, एतस्मिंश्चार्थे यच्चोदितं-कथं परस्परातिशय इति चेदिति, तस्य व्याख्या कथं प्रागित्यादि गतार्थं यावदतिशयः स्यादिति, अस्य चोद्यस्य परिहारः सोऽपि चैवं प्रसिद्धमस्मदुक्तमेव संर्शयति, कोऽसौ परिहारः ? उच्यते न, दृष्टान्तादिति, 10 तद्व्याख्या-यथा परपक्षे इत्यादि यावत् अतिशयस्तथेहापि स्यादिति गतार्थम् , यदि परमते सत्त्वरजस्तमसां परस्परातिशयोऽस्ति तव किं ? इत्यत्राशङ्कानिषेधार्थं स्वसमयोदाहरणमपि चैनमेवार्थ दृढयतीति स्ववचनं तद्वचनप्रदर्शनं यदुच्यते सामान्यादिवद्वेत्यादि सव्याख्यानं गतार्थ सोपनयं यावत् सत एव स्यादिति ।
अत्र प्रयोगा:-न द्रव्यादि अन्याधेयस्वप्रकाशं सत्त्वात् , यत् सत् न तदन्याघेयस्वप्रकाशं नाधेयसत्त्वादि नाप्रतिपूर्णसत्त्वादि दृष्टम् , सामान्यादिवत् , सात्मकत्वात् , प्रत्येकं 15 सत्त्वात् , स्वभावसद्भूतत्वाच्च, एवमनभ्युपगमे असदेव वा स्यात् , सत्त्वसमवायलभ्यसद्भावत्वात् , कार्यवत् , तस्मान्न सतामपि द्रव्यादीनां सत्करी सत्ता व्यर्थत्वादिति साधूक्तम् ।
नापेक्षते, सामान्यमेव स्वप्रकाशे वस्त्वपेक्षते, एवञ्च वस्तु यत् सामान्य प्रकाशयति तदेव सामान्यं तत्रैव सम्बध्यते नान्यत्र नान्यद्वेति तत्तज्जातिसम्बन्धं नियमयितुं वैशेषिकोक्तं वचनं प्रदर्शयति-यदुक्तमिति कारणसामग्रीप्रभवं कारणसमवेतमात्रं
कार्यद्रव्यमिति स्वरूपमवधार्यते चेन्न तर्हि तत्र प्रतिनियतविशेषगसम्बन्धः कत्तुं शक्यः, तत्सम्बन्धनियामकस्य कस्यचिदप्यतिशयस्य 20 कार्यद्रव्यमानेऽभावादित्याशङ्कार्थः । तत्परिहारं वैशेषिको ब्रूते-तद्व्यक्ततरमिति कारणसमवेतं द्रव्यादिकार्यमपरानपेक्ष स्वत
एवं प्रतिनियतं सत् द्रव्यत्वादिना विशेषणेन सम्बद्ध्यते इति भावः। ननु द्रव्यादेः स्वतः प्रकाशकत्वमयुक्तमिति विचिन्त्य कारण सामग्रीविशेषजन्य कार्य वैलक्षण्यमभ्युपगम्य यदुक्तं तद्दर्शयति-तथा यदुक्तमिति । इदश्च वचनं कार्यद्रव्यादौ कारणसामग्रीविशेषप्रसूतत्वलक्षणातिशयप्रकाशकस्य पूर्वोक्तस्य यत्तुल्यजातीयावयवसंयोगारब्धावयविद्रव्यकार्यमित्यादिवचनप्रतिपादितन्यायस्य
स्मारकमित्याह-यथोक्तेति । एवं परस्परातिशयासम्भवमाशय वैशेषिकेण प्रधानवत् सामान्यादिवद्वा योऽतिशयो व्यवस्थापितस्तां 25 व्यवस्थामुपदर्शयति-एतस्मिश्चार्थ इति । सांख्याभिमतमविकृतं सत्त्वरजस्तमःसाम्यावस्थस्वरूपप्रधानतत्त्वं निखिल
महदादिविकारबीजभूतमभिन्नमपि गुणवैषम्यलक्षणातिशयविमर्दवशेन क्रमवन्महदादिविलक्षणनानाविकारकारित्वाद्विलक्षणं तथा कारणसामग्रीविशेषप्रसूतत्वमेवातिशयः कार्यस्य विशेषणसम्बन्धव्यतिरेकेणापि सम्भवतीति भावः । अस्मदुक्तमेवेति, खत एव वृत्तं वस्तु प्रकाशक सामान्यस्यापि, अतो न सामान्यमपेक्षते, तत एव च विचित्रोपभोगक्रियाया अभिन्न
बुद्धिव्यवहारस्य च प्रसिद्धेद्रव्यत्वादिसम्बन्धपरिकल्पना व्यर्थत्यस्मदुक्तमेव त्वदीयं चोद्यपरिहारवचनं समर्थयतीति भावः 30 वैशेषिकवचनमेव प्रदर्शयति-न दृष्टान्तादिति । सांख्यसम्मतं दृष्टान्तमाह-यथा परपक्ष इति सांख्यपक्ष इत्यर्थः । पराभ्युपगतदृष्टान्तसामान्यात् खपक्षसिद्धिर्न युक्तेल्याशयेन पृच्छति-यदीति । स्वमतीयं दृष्टान्तमाह-सामान्यवद्वेति, इयता प्रबन्धेन प्रतिपादितमर्थमनुमानेन साधयन् सतां न सत्करी सत्तेति विकल्पमुपसंहरति-अत्र प्रयोगा इति यस्य द्रव्यादेः
सि. क. तद्यथा।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org