________________
wmwww
wwwww
वस्तुनः स्वतःप्रकाशकता] द्वादशारनयचक्रम्
६५३ प्रदीपवद्भूताद्वस्तुनः प्रकाशान्तरनिरपेक्षात् तस्मादेव प्रविभक्तविषयान्वयात्-प्रविभक्तो विषयः द्रव्यादेः, कारणसामग्र्यविशेषः तुल्यजातीयावयवसंयोगादिः, कारणगुणपूर्वक्रमः, स्वाश्रयाश्रयान्तरक्रियारम्भिगुणादिकृतः, तत्कारणकार्यादिप्रविभागात्-व्यतिरेकात् , सदनित्याद्यविशेषोन्वि]याच्च ताहाविभक्तविषयान्वयात् तस्मादेव वस्तुनो विचित्रोपभोगक्रियाप्रसिद्धेः भिन्नेष्वभिन्नव्यवहारप्रसिद्धेश्चेति द्विप्रकार पुरुषार्थं दर्शयति, अनयोश्च पुरुषार्थयोरुक्तवदेव सिद्धर्न विशेषणसम्बन्धः कल्प्यः-सत्ताद्रव्यत्वादिविशेष- 5 णसम्बन्धो न युक्तः कल्पयितुमानर्थक्यादिति, एतनिदर्शनमात्रं तद्भेदा[नामपि सम्बन्धकल्पनानर्थक्यमुक्तन्यायेनेत्यतोऽतिदिशति-सर्वत्र तु घटत्वादावपि-आदिग्रहणात् गोत्वमनुष्यत्वादिषु कारणसामग्र्यनियामकसद्भावादेव तत्त्वं-घटत्वगोत्वमनुष्यत्वादि स्वत एव न सामान्यविशेषात् त्वत्कल्पितादिति त्वद्वचनादेव वस्तुन एव सर्वं त्वदिष्टं प्रतिप्राप्तम् , नार्थान्तरसम्बन्धात् , तदेव च विशेषणस्यापि सत्तादेः प्रकाशकमिति स्थितम्
10 किञ्चान्यत्
इदन्तु प्रस्फुटतरं विशेषणसम्बन्धप्रकाशं वस्तु, तेन च वस्तुना नापेक्षितः सामान्येन सह सम्बन्धः, सामान्यमेव वस्तुना सह सम्बन्धमपेक्षत इति तत्सम्बन्धनियमाय तव्यक्ततरं वस्त्वेवार्थान्तरनिरपेक्षं विशेषणानामपि प्रकाशकमिति, अथ वा विशेषणसम्बन्धमन्तरेणापि वस्तुमात्राणां परस्परातिशयोऽस्ति, तेन विशेषणसम्बन्धनियमसिद्धिरिति वदता त्वयैवाभ्युप-15 गतम् , चोद्यपरिहारोऽपि कथं परस्परातिशय इति चेत् कथं प्राक्........ अतिशयः स्यात् । न, दृष्टान्तात् , यथा परपक्षे सत्त्वरजस्तमसां परस्परातिशयस्तथेहापि स्यात् , सामान्यादिवद्वा .............. 'सत एव स्यादिति, सोऽपि चैवं प्रसिद्धमस्मदुक्तमेव संदर्शयति ।
- इदन्तु प्रस्फुटतरमित्यादि, विशेषणस्य सत्ताद्रव्यत्वादेः सम्बन्धः तस्य]प्रकाशोऽस्मिन्निति व्यक्तेरनुवृत्ताकारप्रत्ययामिधाननिमित्तत्वासम्भवेन सत्ताद्रव्यत्वादयस्तद्धेतुत्वेन कल्प्यन्त इति त्वया यदुक्तं तदप्यनेनैव खयं 20 प्रकाशित्वाभ्युपगमेन कार्यस्य निराकृतमित्याशयेनाह-प्रदीपवद्भूतादिति, त्वदुदितं कार्य त्वद्वचनेनैव प्रदीपवत् सञ्जातम् , प्रदीपो हि प्रकाशान्तरनिरपेक्षः स्वतोऽनुवृत्तिव्यतिवृत्तिभाक्, तथा कार्यमपीति भावः । एतदेव समर्थयति-तस्मादेवेति प्रदीपवद्भूतत्वादेव प्रविभक्तविषयान्वयं कार्यवस्तु, प्रविभक्तः-परस्परं मिन्नः विषयो हेतुः यस्य कार्यद्रव्यादेः तत्कार्यद्रव्यादि प्रविभक्तविषयं सद्यावृत्तं सदन्वितश्चेति भावः । कार्यद्रव्यादेविषयस्य प्रविभक्तत्वमादर्शयति-कारणेति कारणसामग्रीविशेषः तुल्यजातीयावयवसंयोगादिश्च द्रव्यस्य गुणादेः प्रविभक्तो विषयः, कारणगुणपूर्वकत्वं गुणस्य द्रव्यादेः प्रविभक्तो विषयः, स्वाश्रयाश्रयान्तरक्रियाऽऽ- 25 रम्भिगुणादिः कर्मणो द्रव्यादेश्च प्रविभक्तो विषय इति प्रविभक्तकारणकार्यत्वात् कार्यवस्तुनः परस्परं व्यतिरेकरूपता, सदनित्याद्यविशेषाच्चान्वयरूपतेति सत्ताद्रव्यत्वादिसम्बन्धमन्तरेणापि खत एव कार्यात् विचित्रोपभोगप्रसिद्धरभिन्नव्यवहारोपपत्तेश्च तत्सम्बन्धकल्पनावेयथ्यमिति भावः । व्यावृत्तरूपत्वाद्विचित्रोपभोगक्रियाः, सामान्यरूपत्वात् अभिन्नव्यवहारप्रसिद्धिरिति पुरुषार्थद्वयं व्यञ्जयति-द्विप्रकारमिति । एवं कार्यद्रव्यादेरिव घटपटादेरपि खतोऽनुवृत्तिव्यतिवृत्तिभाक्त्वं न भावान्तरसम्बन्धादिति कार्यवस्तुनः खयं प्रकाशत्वं वर्णयता भवतैव समर्थितमित्याह-सर्वत्र त्विति । स्वतोऽनुवृत्तव्यावृत्तात्मक कार्यवस्त्वेव प्रकाशकत्वात् 30 खविशेषणानामपि सत्तादीनां प्रकाशकमित्याह-तदेव चेति । इदश्चात्यन्तं स्पष्टमेव यत् सत्ताद्रव्यत्वादिसम्बन्धः व्यक्त्या प्रकाश्यते, व्यक्तिस्तु स्वतः प्रकाशरूपा प्रदीपकल्पा न प्रकाशान्तरमपेक्षते, जातिरेव तु स्वप्रकाशे व्यक्तिसम्बन्धमपेक्षत इति समर्थयति-इदन्त्विति । तदेव व्याचष्टे-विशेषणस्येति वस्त्वेव प्रकाशक विशेषणस्य द्रव्यत्वादेः, वस्तु च स्वप्रकाशे सामान्यसम्बन्ध
१सि.क. विषयत्वात् । २ सि. क. विशेषायावच्च ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org