SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६५२ न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे सम्बन्धोऽतिप्राप्त इत्युक्तम् , किञ्चान्यत् , जातिकल्पनावच्चेत्यादि, यथा भवता जातिरन्याऽनाकांक्षावस्तुमात्रे वृत्तेन प्रकाशेन स्वत एव प्रकाशते तथा कारणसमवेतद्रव्यादीत्येतस्यार्थस्य प्रदर्शनार्थं यदुक्तंवस्तुमात्रमाविर्भूतमिति, उक्तवन्नियामकतयेति-सर्वत्र कारणसामग्र्यनियामकतयेति-सर्वत्र कारणसाम ग्यनियामकसद्भावादित्यनेनोक्तन्यायेन स्वेनैव महिम्ना वस्तुनियतत्वाद्विशेषणेन द्रव्यत्वादिना सम्बध्यते तच्च 5 द्रव्यत्वादि अविशेषविशेषण]वृत्तिमात्रं सामान्यविशेष:-अविशेषेण प्रागुक्तेन विशेषणेन च वृत्तिर्यस्य तदिदम[वि] शेषविशेषणवृत्ति द्रव्यत्वादि, तत्परिमाणं तन्मात्रं तेना[वि]शेषविशेष[णवृत्तिमात्रेण सामान्यविशेषेण सम्बध्यते वस्तुमात्रं तदाविर्भूतमिति । ततः किमिति चेत् तत एतदापन्नं स्वत एव वृत्तं वस्तु द्रव्यादिप्रत्ययत्वादिना सम्बध्यते, तस्मादेव तु 10 न्यायात् स्वसामान्यस्यापि प्रकाशकं तदेव, प्रदीपवद्भूताद्वस्तुनः प्रकाशान्तरनिरपेक्षात्तस्मादेव प्रविभक्तविषयान्वयात्, विचित्रोपभोगक्रियाप्रसिद्धोर्भिन्नेष्वभिन्नव्यवहारप्रसिद्धेश्च न विशेषणसम्बन्धः कल्प्यः, सर्वत्र तु घटत्वादावपि तत्त्वं स्वत एवेति त्वद्वचनादेव प्रतिप्राप्तम् , तदेव च विशेषणस्यापि प्रकाशकमिति स्थितम् । (तत इति) तत एतदापन्नं स्वत एव वृत्तं वस्तु द्रव्यादिप्रत्ययत्वादिना सम्बध्यते-विशेषणव्य15 तिरिक्तमनपेक्षसिद्धं प्रकाशते स्वत एव, प्रकाशान्तरेण नार्थ इत्युक्तं भवति, किञ्चान्यत्-तस्मादेव त्वित्यादि, उक्तादेव न्यायात् स्वसामान्यस्यापि प्रकाशकं तदेव-वस्तुमात्रमाविर्भूतम् , तदाश्रयत्वात् सामान्यविशेषादेः, wimmins यदप्युक्तं विचित्रोपभोगक्रियाप्रसिद्ध्यर्थं सत्ताद्रव्यत्वादिसम्बन्धः कल्प्यत इति सोऽप्यनेनैव प्रतिपादितः manama मितरानपेक्ष कारणसामग्रीसम्बन्धात् स्वत एव प्रतिभासते यथा जातिरपरानपेक्षा व्यक्तिमात्रसम्बन्धात् स्वत एव प्रतिभासते इति वस्तुमात्रस्याविभूतस्य स्वत एव परस्परतो विशिष्टस्य कारणसामग्रीविशेषप्रयुक्तो द्रव्यत्वादिसम्बन्ध इति वैशेषिकमतं दर्शयति20 यथा भवतेति । उत्पन्न वस्तु पूर्वोदितक्रमेण कारणसामग्रीनियम्यतया द्रव्यत्वादिसम्बन्धमन्तरेणैव नियतं सत् पश्चादभि नप्रत्ययव्यवहारसम्पादकेन द्रव्यत्वादिना सम्बध्यत इत्याख्याति-वस्तुमात्रमिति। तदपि द्रव्यत्वं कीदृशमित्यत्राह-अशेषेति पृथिवीत्वावच्छिन्नतदनवच्छिन्नावयवसंयोगभेदेऽपि तुल्यजातीयावयवसंयोगारब्धत्वाविशेषेण तदारब्धे द्रव्यादिकार्ये द्रव्यत्वं वर्तत इत्यविशेषेण द्रव्यत्वस्य वृत्तिता, तथा गुणा दिपरिहारेण कारणसामग्रीविशेषरूपविशेषणस्वरूपनियामकेन नियम्यत्वात् द्रव्य एव वर्तत इति विशेषणेन द्रव्यत्वस्य द्रव्यादिकार्ये वृत्तितेति अशेषविशेषणवृत्तिमात्रं द्रव्यत्वं बोध्यमिति भावः । तत्परिमाणमिति 25 'प्रमाणे द्वयसज्दनअमात्रचः' (५-२-३७) इति मात्रच प्रत्ययः प्रमाणपरिमाणयोरमेदार्थत्वमभ्युपगम्येति बोध्यम् । एवं पूर्वपक्षे प्रतिपादिते तन्निषेधनार्थमाह-तत एतदिति । कारणसमवेतं द्रव्यं यदि स्वत एव प्रकाशमानं द्रव्यत्वादिना सम्बद्ध्यते तर्हि तत्तद्वत् द्रव्यादिप्रत्ययमपि खत एव करोति किं विशेषणसम्बन्धेनेत्याशयमाह-विशेषणव्यतिरिक्तमिति द्रव्यत्वादिविशेषणरहितमित खत एवं प्रतिभासते भासकान्तरेण द्रव्यत्वादिना न तस्य किञ्चित् प्रयोजनमिति भावः । जातिरपि व्यक्त्या प्रकाशते, व्यक्तिव्यतिरेकेण निराश्रयस्य ज्ञानोपायाभावात् व्यर्थ एव तत्र सामान्यसम्बन्ध इत्याशयं सूचयति-उक्तादेवेति वस्तुमात्रे 30 वृत्तेन प्रकाशेन जातिः स्वत एव प्रकाशत इत्युदितेन न्यायेनेत्यर्थः । भवतु जातेः प्रतिनियतव्यक्त्यभिव्यङ्ग्यत्वम् तेन किं नश्छिन्नमित्यत्राह-यदप्युत ते, प्राणिनामुपभोगाय विचित्रविश्वरचनाप्रपञ्च इत्यभिसन्धाय प्रतिनियतकारणजन्यप्रतिनियतकार्य १.सि.क..कस्मादेव। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy