________________
अशेषविशेषणाविनिर्मुक्तता द्वादशारनयचक्रम् . मत्त्वप्रकाराणां संयोगैरारब्धं द्रष्टव्यं पार्थिवा[दि]कार्य जायते, आदिग्रहणात् गुणकर्मणोरपि स्वकारणसान्निध्यप्रकारता प्रागुक्ता तैः, संयोगादिभिन्नत्वेऽप्यविशेषो द्रव्यादीनामित्यनेन अविशेषविशेषणेन विशिष्टमितरविलक्षणं वस्तुनः स्वतत्त्वं प्रदर्शितं त्वया, तस्मात्तत्प्रदर्शनादस्ति हीत्याधुपसंहारग्रन्थो गतार्थो यावन्नेतरं नेत्रेति[?], किश्चान्यत्-पुनरपि चेत्यादि, रूपरसगन्धस्पर्शवत्सु पृथिव्यवयवेषु संयुक्तेष्वविशेषो दर्शितः न केवलमेष एवाविशेषः सजातीयगतः स्फुटीकृतस्त्वया, किं तर्हि ? तद्विजातीयेष्वपि द्रव्यत्वम् , तथा 5 कारणसामग्र्या अविशेषेण योगात् , अबादिष्वपि-आप्येष्वपि कारणसामग्र्यास्तुल्यत्वात् तुल्यजातीयाद्यवयवसंयोगादपि द्रव्यत्वं भावितम् , तुल्यजात्यवयवसंयोगाविशेषात् आदिग्रहणात् तेजोवाय्ववयवसंयोगादपीति, अतुल्यजातीयानामपि तुल्यजातीय[वयव] संयोगारम्भाविशेषादित्युक्तत्वात् स्फुटीकृतमविशेषविशेषणमित्यतोऽतिदिशति-एतेन पृथिव्यादिभिन्नेत्यादि गतार्थं यावत् द्रव्यत्वमुक्तमिति ।
किश्चान्यत्
तुल्यजातिभेदेऽपि चाविशेषविशेषणाविनिर्मुक्तत्वं वस्तुनः द्वयोर्बहुषु चेति वचनात्, जातिकल्पनावञ्च स्वत एव प्रकाशते कारणसमवेतद्रव्यादीत्येतस्यार्थस्य प्रदर्शनार्थ यदुक्तं वस्तुमात्रमाविर्भूतमुक्तवन्नियामकतया स्वेनैव महिना वस्तुनियतत्वात् विशेषणेन द्रव्यत्वादिना अविशेषविशेषणवृत्तिमात्रेण सामान्यविशेषेण सम्बध्यते ।
तुल्यजातिभेदेऽपि चेत्यादि यावत् द्वयोर्बहुषु चेति वचनादिति,-याऽपीयमवान्तरजातिर्घटत्व-15 पटत्वाख्या, पृथिवीत्वजातिभेदः तस्मिन्नपि सत्यविशेषविशेषणेनाविनिर्मुक्तत्वं वस्तुनः कस्मात् ? द्वित्रिचतुरादिसङ्गात् कार्यद्रव्यमुत्पद्यत इत्युक्तत्वात्, एवं तावत् सम्बन्ध्यन्तरनिरपेक्षे वस्तुमात्रे एवाविशेषविशेषण
10
वानां तुल्यजातीयत्वं गन्धादिमत्त्वप्रकारेण, गन्धादिमत्त्वस्यैव पृथिव्यादिलक्षणत्वात् , तथाविधानामवयवानां ये संयोगास्तेषां परस्परं भिन्नत्वेऽपि तदुत्पन्नं कार्यमविशेषेण पार्थिवद्रव्यमेव, एवं गुणकर्मणोरपि विज्ञेयमिति भावः । किं तत इत्यत्राह-अनेनेति अविशेषो द्रव्यादीनामित्यत्र द्रव्यादेरविशेषत्वलक्षणविशेषणोपन्यसनेनेत्यर्थः, तथा च विशेषणस्य व्यावर्तकत्वादविशेषत्वमपि विशिष्टा- 20 व्यादेः कार्यद्रव्यं व्यावर्त्तयतीति विशिष्टद्रव्यविलक्षणत्वस्वरूपो विशेषः कार्यस्य स्वतत्त्वरूप उक्त एवेति कथमशेषविशेषणविनिर्मुक्तत्व. मिति भावः । पृथिवीत्वावच्छिन्नमात्र एव द्रव्यत्वस्याविशेषतेत्येव न, अपि तु पृथिवीत्वानवच्छिन्नानामप्यबादीनां द्रव्यत्वमविशिष्टमिति प्रकाशितमित्याह-न केवलमिति । हेतुमाह-तथेति, तुल्यजात्यवयवसंयोगाविशेषात् पृथिव्यबादिषु द्रव्यत्वमविशिष्टमिति तुल्यजातीयकारणसामय्यारब्धकार्यविशेषस्याविशिष्टत्वात् अविशेषत्वरूपविशेषणयुक्तत्वेनाशेषविशेषणविनिर्मुक्तत्वं कार्यस्य न सम्भवतीति भावः। तुल्यजातीयाद्यवयवेत्यत्रादिपदग्रहणग्राह्यमादर्शयति-आदिग्रहणादिति, अतुल्यजातीयानामपि-पृथिवीत्वानवच्छिन्नानामपि, 25 तुल्यजातीयाः-तुल्यप्रकाराः शीतस्पर्शादिमत्त्वप्रकाराः ये आप्यपरमाण्वाद्यवयवाः तत्संयोगैरारब्धत्वाविशेषात् । किञ्च पृथिवीत्वादिव्याप्यघटत्वपटत्वादिरूपविशेषप्रयोजकधर्मघटितत्वेऽपि सामग्र्या व्यवयवारब्धत्वबह्ववयवारब्धत्वलक्षणाविशेषताप्रयोजकरूपोक्तेरपि कार्यमविशिष्टमिति कार्येऽविशेषविशेषणसद्भावात् अशेषविशेषणविनिर्मुक्तत्वं कार्यस्याघटितार्थमेवेत्याचष्टे-तुल्यजातिभेदेऽपीति । तुल्यजातिमेदशब्दार्थमाह-याऽपीति अवान्तरजातयो घटत्वपटत्वाद्याः तुल्यजातेः पृथिवीत्वलक्षणाया मेदाः विशेषाः, तथाविधजातिभेदस्य कारणसामग्रीघटकत्वेऽपीत्यर्थः । अविशेषेति अविशेषलक्षण यद्विशेषणं तेन विनिमुक्तं कार्य न भवतीत्यर्थः । तत्र 30 हेतुं प्रकाशयति-द्वित्रिचतुरेति । एवं सत्ताद्रव्यत्वादिसम्बन्धिसम्बन्धव्यतिरेकेणापि कार्यस्याविशेषलक्षणविशेषणवत्त्वमिति .. परसम्बन्धादेव वस्तु विशिष्ट भवतीति वादिनं प्रत्यतिप्रसङ्गो नियमस्यापादित इत्याह-एवं तावदिति । द्रव्यादिकार्यमात्र
१सि. क. भविशेषणविशेषेण । २ सि.क. 'बादिष्वप्याष्वपि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org