________________
mmmmmmmmmmmm
mmam
--mom
६५०
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे तेनैव विशिष्टेन सत्तादिविशेषणसम्बन्धनकृत्यस्य प्रतिप्रापितत्वात् , तत्र विशेषसद्भावस्तावदाहत्य भेरीमभ्युपगतः तदुपवर्णनद्वारेण वाऽविशेषोऽपि । .
अनेनेत्यादि, त्वदीयेनैवैतेन परिहारवचनेन यत्तदुत्पन्नं कार्य वस्तुमात्राभिमतं तत् स्वत एवकारणसामग्र्यातिशयादेव परस्परतो विशिष्टम् , न सत्ताद्रव्यत्वादिसम्बन्धनमपेक्ष्य विस्फुटीकृतम् , तेनैव5 वस्तुभावनेन विशिष्टेन सत्तादिविशेषणसम्बन्धनकृत्यस्य-अविशेषविशेषाभिधानप्रत्ययहेतोः प्रतिप्रापितत्वात् , तत्र विशेषसद्भावस्तावत् आहत्य भेरीमभ्युपगतः, सर्वत्र कारणसामग्र्यनियामकसद्भावात् प्रतिनियतः सामान्यविशेषसम्बन्धो द्रष्टव्य इत्युपसंहारवचनात् , तदुपवर्णनद्वारेण वाऽविशेषोऽपि, अभ्युपगत इति वर्तते, तुल्यजातीय[वियव]संयोगारभ्यकार्यविषयद्रव्यत्वनिलयनवर्णनद्वारेण गुणारब्धगुणान्तरविषयगुणत्व
[निलयन वर्णनद्वारेण गुरुत्वाधारब्धतदाश्रयाश्रयान्तरसमवेतकर्मविषयकर्मत्वनिलयनद्वारेण च सर्वद्रव्यगुण10 कर्मणां नियतविषयस्वजातिगतविशेषवर्णनादविशेषोऽप्याहत्य भेरीमभ्युपगत इति द्रष्टव्यम् , तस्मात् कारणगतविशेषाविशेषकृतातिशयादेव कार्यगतविशेषाविशेषसम्बन्धसिद्धिः, एवं तावद्विशेषणवर्णनद्वारेणोक्तम् ।
किश्चान्यत्- अशेषविशेषणविनिर्मुक्तमपि न भवतीत्येतदपि त्वयैव तुल्यजातीयावयवसंयोगादिभिन्नत्वेऽप्यविशेषो द्रव्यादीनामित्यनेन भावितं तस्मादस्ति हि.............. ..... नेतरं 15 नेत्रेति, पुनरपि च तद्विजातीयेष्वप्यबादिष्वपि तुल्यजातीयाद्यवयवसंयोगादपि द्रव्यत्वं भावितम् । एतेन पृथिव्यादिभिन्नाप्याद्यवयवसंयोगादिभिन्नत्वेऽपि अविशेषेण द्रव्यत्वमुक्तम् ,
अशेषेत्यादि, अशेषविशेषणविनिर्मुक्तमपि न भवतीत्येत[द]पि त्वयैव भावितम् , तद्यथा-तुल्यजातीयावयवसंयोगादिभिन्नत्वेऽपीत्यादि, तुल्यजातीयाः तुल्यप्रकारा अवयवास्तेषां पार्थिवादीनां गन्धादिविलक्षणकारणसामग्री स्वव्यापारानन्तरसमुत्पन्नकार्यस्य प्रतिनियतसामान्यविशेषसम्बन्धे नियामिकेति त्वदीयपरिहारवचनेन तथाविध20 सामग्रीसमुत्पन्न कार्य स्वत एव न तु प्रतिनियतसामान्यविशेषसम्बन्धेनान्येभ्यो व्यावृत्तमित्युक्तं भवति, तस्मात्तत्र सामान्यविशेष
सम्बन्धस्यान्यस्य प्रयोजन नास्तीति भावः । एवमेव व्याचष्टे-त्वदीयेनैवेति । वस्तभावनेन-वस्तु भाव्यते येनासौ तेन, कारणसामग्रीविशेषेण सत्ताद्रव्यत्वादिसम्बन्धप्रयोजनयोः निखिलद्रव्येषु द्रव्यमित्यविशेषाभिधानप्रत्यययोर्गुणादिव्यावृत्तोऽयमित्यमिधानप्रत्यययोश्च निवृत्तत्वादिति भावः । कारणसामग्र्याञ्च त्वया विशेषाविशेषप्रत्ययाभिधानप्रयोजकातिशयः स्वीकृत एवेति
दर्शयति-तत्र विशेषसद्भाव इति, कारणसामग्र्यां विशेषाभिधानप्रत्ययप्रयोजकविशेषसद्भाव इत्यर्थः । द्रव्ये गुणे कर्मणि च 25 कारणसामग्रीविशेषस्यैव प्रयोजकत्वोक्तेरविशेषत्वमपि स्वीकृतमेवेति दर्शयति-तदुपवर्णनेति-कारणसामग्र्यतिशयवर्णनद्वारेणेत्यर्थः । तदुपवर्णनमेव प्रकाशयति-तुल्यजातीयेति, द्रव्यमानेऽविशेषेण द्रव्यत्वनिलयनस्य गुणमात्रे गुणत्वनिलयनस्य कर्ममात्रे कर्मत्वनिलयनस्य च वर्णनेनाविशेषोऽप्यभ्युपगत इति भावः । इदमेवाह-सर्वद्रव्येति द्वन्द्वादौ श्रुतस्य सर्वपदस्य प्रत्येक द्रव्ये गुणे कर्मणि च सम्बन्धः तेनाविशेषत्वलाभ इति भावः । ततश्च किमित्यत्राह-तस्मादिति । अथ कारणसामग्रीविशेषप्रसूतस्य द्रव्यादिकार्यस्याशेषविशेषणविनिर्मुक्तत्वं त्वयोक्तं तदेतन्न सम्भवतीत्येतद्दर्शयति-अशेषेति। भावनामेव दर्शयति-तद्यथेति पार्थिवाद्यवय
सि. क. मपेक्षो। २ सि. क. डे. कार्यत्वाविशेषस्य द्रव्यस्वनिलयनविशेषस्य द्रव्यत्वनिलयनविषय विशेषणवर्णनद्वारेण गु० । ३ क. डे. विषयनिलयनगुणत्ववर्णन । सि. विषयेण गुणत्ववर्ण । ४ सि. क. क्ष. डे. भविशेष । ५ सि. क. भिन्नेत्यादि ।
Jain Education Internetional 2010_04
For Private & Personal Use Only
www.jainelibrary.org