________________
कार्यस्य स्वतो विशिष्टता ]
द्वादशारनयचक्रम्
सहितैर्वा स्वाश्रय आश्रयान्तरे वा पतनकर्मारभ्यते तच्च कर्मत्वेन सम्बध्यत इत्यस्त्यतिशयः, एतन्निदर्शनमात्रं सर्वत्र कारणसामग्र्यनियामकसद्भावात् प्रतिनियतः सामान्यविशेषसम्बन्धो द्रष्टव्य इति ।
यत्तु प्रत्युच्यते न कारणसामग्रीविशेषसद्भावादिति, तद्व्याख्यानं यत्तुल्यजातीयावयवेत्यादि यावद्रव्यत्वेन सम्बध्यत इति द्रव्यत्वनिलयननियमः - पृथिव्यप्तेजोवायुपरमाणुभिर्द्वाभ्यां बहुभिर्वा 5 स्वसंयोगापेक्षैस्तुल्यजातीयैरारब्धेऽवयविद्रव्यकार्ये द्रव्यत्वं निलीयत इत्यर्थः, यत्तु कारणगुणेत्यादि, 'तैरारब्धे कार्यद्रव्ये नियमत एव गुणान्तरमारभन्ते' ( ) इति वचनात् तदारब्धे गुणान्तरे कार्ये गुणत्वनियमनात् गुणत्वेन सम्बध्यते, यत्पुनर्गुरुत्वादिभिः स्वाश्रये - यत्राश्रये गुरुत्वं समवेतं तत्र सं[यो]गाभावे पतनकर्मारभ्यते, आदिग्रहणात् प्रयत्ननोदनाभिघातसंयोगवेगाः कर्मारभन्ते, स्वाश्रयसंयोगसहितैर्वेति, तैरेव गुरुत्वादिभिः स्वाश्रये कपित्थफलवृन्तादौ गुरुत्वेन कर्मण्यारब्धे तत्संयुक्त कीटे पतन - 10 मारभ्यते आश्रयान्तरे, तच्चारब्धं वस्तुमात्रं कर्मकार्यमितराभ्यां विशिष्टं कर्मत्वेन सम्बध्यत इत्यस्त्यतिशय इति दर्शय [T] निरतिशयत्वस्यासिद्धतामापादयति, एतन्निदर्शनमात्रमित्यादि यावद्रष्टव्य इति, सर्वत्र घटत्वगोत्वादिरूपत्वा दिगमनत्वादिष्वप्यनया युक्त्या सामान्यविशेषेषु कारणसामग्र्यस्य नियामकस्यातिशायिना सद्भावात् प्रतिनियत एव सम्बन्धो द्रष्टव्यः ।
www
इति परिहारे कृते प्रस्तुतनय आह
अनेनैव परिहारवचनेन यत्तदुत्पन्नं कार्यं तत्स्वत एव परस्परतो विशिष्टं विस्फुटीकृतम्,
wwwwwww
Jain Education International 2010_04
ફર
20
नामवयवानां परस्पर संयोगेन घटपटाद्यवयविद्रव्यं जायतेऽत इयं सामग्री द्रव्यस्यैव, न गुणस्य कर्मणो वेति तथाविधसामग्रीविशेषः स्वजन्ये कार्ये द्रव्यत्वसम्बन्धनियम प्रयोजकः, कार्यन्तु न तन्नियमप्रयोजकातिशयवदित्याशयेनाह - यत्तुल्यजातीयेति, अन्वयव्यतिरेकाभ्यां समवायेन द्रव्यत्वावच्छिन्नं प्रति तादात्म्येन क्लृप्तैस्तत्तद्धर्मावच्छिन्नैः कारणभूतैरवयवैरित्यर्थः । तदारब्धे कार्ये द्रव्यत्वमेव सम्बध्यते, न गुणत्व | दिरित्याशयेनाह - द्रव्यत्वनिलयनेति । गुणत्वनिलयन नियम प्रयोजकसामग्री विशेषम। दर्शयतियत्त्विति, कार्यद्रव्यकारणसमाजे द्रव्योपादित्साऽवयवसंयोगाद्यपेक्षाः पार्थिवपरमाण्वादयोऽन्तर्गताः, कार्यगुणकारणसमाजे गुणोत्पादित्सा समवायस्वसमवायिसमवायान्यतरसम्बन्धावच्छिन्नवृत्तिमद्गुणविशेषापेक्षद्रव्यादयो ऽन्तर्गता इति तादृशसमाजाधीनकार्यविशेषे गुणत्वमेव सम्बध्यते न द्रव्यत्वादीति भावः । कर्मत्वावच्छिन्न कार्यता प्रयोजक सामग्री विशेषमा दर्शयति-यत्पुनरिति लोष्टादिवर्त्तिगुरुत्वं प्रतिबन्धकसंयोगाद्यभावश्चेत्यादयः कर्मविशेषस्य कारणभूताः तदिदं कर्म अधः संयोगफलकं पतनाख्यं गुरुत्वसमानाधिकरणमित्यर्थः । प्रयत्नविशेषजन्यनोदन विशेषो गुरुत्ववतो द्रव्यस्योत्क्षेपणक्रियाप्रयोजकः, उलूखलाद्यभिघातो मुसलेन 25 सह प्रयत्नवदात्मसंयोगश्च हस्ते यत्कर्म तत्प्रयोजक इति दर्शयति - आदिग्रहणादिति । असमवायिकारणसमानाधिकरणक्रियाप्रयोजकमुक्त्वा तद्व्यधिकरण क्रियाप्रयोजकमाह - तैरेवेति । एभिः कारण विशेषैरारब्धस्य कर्मत्वनियमात् तत्कार्ये कर्मत्वमेवाभिसम्बध्यते, न द्रव्यत्वादीत्याह तच्चारब्धमिति । अयमतिशयः नियामकः समस्ति, तस्मान्निरतिशयत्वात् सर्वे धर्माः सर्वत्र स्युरित्यापादनं न युक्तमित्याशयेनाह - इत्यस्तीति, नियतजातीयाभिसन्धानेन कारकप्रवृत्तेरवयवावयविनोरेकत्वमिवावभासकमहिम्नाऽवयववृत्तिकार्यं स्वजात्यैवाभिसम्बध्यते नान्येनेति द्रव्यत्वादाविव तद्व्याप्यपृथिवीत्वादयस्तद्व्याप्या घटत्वादयः 30 सम्बध्यन्त इति विलक्षणकारणसमाज एवं स्वजन्य कार्यस्य वैलक्षण्ये प्रयोजक इति भावः । एवं तर्हि कारणवैलक्षण्यादेव कार्याणां परस्परं वैलक्षण्यं सिद्धमिति तत्र सत्ताद्रव्यत्वादिसम्बन्धो व्यर्थ एव, न हि तेन कार्यं विलक्षणं भवतीत्याशयेन समाधत्ते - अनेनैवेति ।
१ सि. सामान्य० । २ छा० न्तरंतवस्था आ० । ३ सि. गुणत्वकर्मत्वादिभिः ।
For Private & Personal Use Only
15
.www.jainelibrary.org