________________
६४८
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे यदपि च कर्नादिकारकाणां समवायिनाञ्च व्यापारस्य फलमशेषविशेषणविनिर्मुक्तं स्वभावसद्भावमानं कारणसमवेतं तदित्यात्मावधारणं कृत्वा स्वयमेव यच्चोदितं वस्तुमात्रस्य निरतिशयत्वात् सत्त्वादिद्रव्यत्वादिविशेषणसम्बन्धनियमानुपपत्तिरिति तत्तथैव-वस्तुमात्रस्य
निरतिशयत्वात् सत्वादिविशेषणसम्बन्धनियमानुपपत्तिरेव ।। 5 यदपि च कादीत्यादि कादीनां कारकाणां समवायिना[म]समवायिनाञ्च-मृदादीनां
देवदत्तदण्डादीनाञ्च यो व्यापारः-समेत्य स्वकार्यारम्भः तस्य फलं-घटादि कार्यमुत्पन्नं वस्तुमात्रं, तस्यात्माऽवधारणं कार्यमित्यतः प्रागुद्राहितार्थनिराकांक्षीकरणार्थमाह-अशेषविशेषणविनिर्मुक्तं-सत्त्वद्रव्यत्वगुणत्वकर्मत्वादिभिः सर्वैर्विशेषणैर्विनिर्मुक्तं सम्बन्धसद्भावशून्यं स्वभावसद्भावमात्रं यत्तदुच्यते कारणसमवेतं तदात्मेति-इत्थमात्मावधारणं कृत्वा स्वयमेव यच्चोदितं वस्तुमात्रस्य निरतिशयत्वात् सत्त्वादिद्रव्यत्वादिविशेषण10 सम्बन्धनियमानुपपत्तिः-न हि तस्यामवस्थायामिदं द्रव्यं मया द्रव्यत्वेनात्रैव निलयनीयं न गुणकर्मत्वाभ्यामिति द्रव्यत्वस्य निलयनिमित्तकारणमस्ति, अतिशयाभावादेव, तथा गुणत्वकर्मत्वयोरपि गुणकर्मणोरिति, तत्तथैवेत्यादित्वदुक्तमेव कारणमिति तदेवोच्चारयति-यावदनुपपत्तिरेवेति-सत्तादिग्रहणात् सत्त्वद्रव्यत्वगुणत्वकर्मत्वघटत्वरूपत्वगमनत्वाद्यसम्बन्धात् कारणसमवेतसर्वद्रव्यगुणादिकार्येषु सत्ताद्रव्यत्वादिविशेषकृतसम्बन्धातिशयाभावादिति। 15 एतस्य परिहारार्थम्
यत्तु प्रत्युच्यते न, कारणसामग्रीविशेषसद्भावात् , यत्तुल्यजातीयावयवसंयोगारब्धावयविद्रव्यकार्य द्रव्यत्वेन सम्बध्यते यत्तु कारणगुणारब्धगुणान्तरं 'तैरारब्धे कार्यद्रव्ये नियमत एव गुणान्तरमारभन्त' इति वचनात् गुणत्वेन सम्बध्यते, यत्पुनः गुरुत्वादिभिः स्वाश्रयसंयो
सम्भवतीत्याह-यदपि चेति । तद्व्याचष्टे-कादीनामिति क्रियाजनकत्वं कारकत्वं तत्र साधनान्तरनियोगव्यापारः 20 कर्ता, कर्तुः क्रिययेप्सिततमं कर्म, कारकान्तरसाध्यव्यापार करणं, प्रेरणानुमतिव्यापार सम्प्रदान, अवधिभावोपगमव्यापारं
अपादानम् , कादिव्यवहितक्रियाधारोऽधिकरणमिति व्यापारभेदापेक्षकादीनां समवायिकारणभूतमृदादीनाञ्च व्यापारैः समुत्पन्न कार्य कीदृशमिति वस्तुस्वरूपनिरूपणं कार्यमिति भावः । वस्तुखरूपमेव दर्शयति-अशेषेति, उत्पत्तिदशायां निर्विकल्पस्वरूपसद्रूपं तद्वस्तुमात्रं, न तदानीं संसर्गिधर्मनिमित्तकव्यपदेशप्रवृत्तिरिति भावः। तदेवं निर्धार्य स्वरूपं न तदानीं द्रव्यत्वादीनां
सम्बन्धः सम्भवति विशेषणसम्बन्धप्रयोजकत्वेन विशेष्यस्य सम्बन्धप्राकाले क्षणमात्रमतिशयविरहितेन वस्तुमात्रेणावस्थात25 व्यमन्यथा विज्ञानाभावेन द्रव्यत्वादि कथं सम्बध्येत, न गुणत्वादीत्याह-इत्थमिति । कुतस्तदानीं न द्रव्यत्वादिसम्बन्ध
इत्यत्राह-वस्तुमात्रस्येति, नियमप्रयोजकरूपमतिशयः, अयमत्रैव सम्बध्यते नान्यत्रेत्याकारकनियमप्रयोजकरूपाभावः तदानीमस्ति, खरूपसद्रूपमात्रत्वाद्वस्तुन इति भावः । प्रथमक्षण इव द्वितीयादिक्षणेष्वपि कार्यस्य वस्तुमात्रत्वेन निरतिशयत्वात् सत्त्वद्रव्यत्वादिविशेषणसम्बन्धनियमानुपपत्तिस्तदवस्थ एवेति समाधत्ते-तत्तथैवेति. प्रथमक्षणे नियमानुपपत्ती प्रदर्शितं कारणं द्वितीयादिक्षणेष्वपि तदवस्थमेव, ततश्च विशेषणसम्बन्धनियमो नोपपद्यत एवेति भावः । ननु कार्याणां प्रतिनियत कारणजन्यत्वात् 30 सर्वेषां कारणानां सर्वत्र कार्ये व्यापारयितुमशक्यत्वेन प्रतिनियतधर्मावच्छिन्ने कार्ये प्रतिनियतकारणसमाजस्य जनकत्वेन न
सत्ताद्रव्यत्वादितत्तद्धर्मसम्बन्धनियमानुपपत्तिरित्याशयेन वैशेषिकः शङ्कते-यत्त्विति । घटपटादिद्रव्योपादित्सुकर्त्तव्यापारप्रयोज्या
१ सि. ३. क्ष. कर्त्तादीनाम् । २ सि. क. क्ष. डे. कार्यसत्ता । ३ सर्वत्र कारणंनास्ति० इति दृश्यते ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org