________________
६४७
कार्यस्यासत्त्वापादनम्]
द्वादशारनयचक्रम् पुनस्तत्रैव दोषः प्रकारान्तरेणोच्यते- :
यदि तत्कारणसमवेतं स्वत एव सन्न भवति सत्तासम्बन्धात् सद्भवति सदेव न, असदपि, यद्येवमिष्यते असदेव तर्हि तत् , स्वतो निरुपाख्यत्वात् , वेदनादि हि निरुपाख्यमपि स्वत एव सामान्यात्मना पररूपेण च सोपाख्यम् , तथाऽव्यपदेश्यत्वात् खपुष्पवैलक्षण्येन, तथाऽविशिष्टत्वादिति, कार्यमपि वा प्राक् सत् एभ्य एव हेतुभ्यः उत्पन्नमात्रद्रव्यादिवत् । ।
यदि तत्कारणसमवेतमित्यादि, यदि कारणेषु समवेतमात्र कार्य स्वत एव सन्न भवति सत्तासम्बन्धात् सद्भवति सदेवेति-सदेव न भवति, अगुणगुणत्वादिवदसदपीति, यद्येवमिष्यते तत एवमापन्नमसदेव तर्हि, किं ? तत् , कुत: ? स्वतो निरुपाख्यत्वात्-निरुपाख्यत्वादिति सिद्धे स्वत इति विशेषणं वेदनादीनां स्वसंवेद्यानां निरुपाख्याणां सत्त्वातंत्रानैकान्तिकता मा भूदिति, तद्धि वेदनादि-असाधारणरूपेण निरुपाख्यमपि स्वत एवं-स्वात्मनैव, सामान्यात्मना-अंशान्तरेण पररूपेण च-व्यावृत्तेन सोपा- 10 ख्यमिति, तथा[वि]विधं विशिष्टं वा अपदेश्य-व्यपदेश्यं, न व्यपदेश्यं-प्रकारान्तरेण वेदनादिवेत् व्यपदेयं न भवतीत्यर्थः, खपुष्पवैलक्षण्येन, तथाऽविशिष्टत्वादिति, विशेषणेन हि सत्तादिना वस्त्वेव सामान्यांशादिना वेदनादि[वेत् ]सम्बध्यते, नावस्त्वित्येवंसाधर्म्यात् खपुष्पवदसत् स्यादिति गतार्थम् , एतदनभ्युपगमे कार्यमपि वा प्राक् सत् , उत्पत्तेः, एभ्य एव हेतुभ्यः खतो निरुपाख्यत्वादित्यादिभ्यः, उत्पन्नमात्रद्रव्यादिवत् । .
ma
mmmmmmmmm
निरुपाख्यत्वादित्याह-यदीति । तद्व्याचष्टे-यदि कारणेष्विति । खत एव सन्न भवति-खत एव परिपूर्ण सन्न भवति, तेन खरूपतः सत्त्वाभ्युपगमेऽपिन क्षतिः, एवशब्देनासद्रूपताव्यावृत्तेः, सदेव न भवतीत्यस्य सर्वथा सन्न भवतीत्यर्थस्तेन, असदपि,अपिशब्द: सतः समुच्चायकः । आपाद्यमाह-तत एघमिति, हेतुमाह-स्वत इति । ननु कार्यमसत् , निरुपाख्यत्वादित्येवोच्यतां किं खतो निरुपाख्यत्वादिति, अत्रोत्तरमाह-निरुपाख्यत्वादितीति, वेदनादौ निरुपाख्यत्वसत्त्वेऽपि स्वसंवेद्यत्वेनासत्त्वाभावात्तदन्तर्भावण हेतोर्व्यभिचारित्वं मा भूदिति खतो निरुपाख्यत्वमुक्तम् , तथा च वेदनादि न खतो निरुपाख्यमपि तु स्वतः सोपाख्यमेव, खात्मनैव 20 सामान्यविशेषात्मना सोपाख्यत्वादिति भावः । निरुपाख्यं तत्कथमित्यत्र विशेषणरूपेण समर्थयति-असाधारणरूपेणेति, स्वानुभवैकवेद्यतया बौद्धादिसम्मतस्वलक्षणादिवदुपाख्यातुमशक्यमिति भावः । खतो निरुपाख्यत्वहेतोरेवाभिप्राय खत इति विशेषणत्यागेन प्रकारान्तरेणादर्शयति-तथेति, विविधमनेकप्रकारं, विशिष्टं व्यावृत्तं वाऽपदेश्यं आख्यानयोग्यं नानाशब्दाभिधेयमसाधारणशब्दाभिधेयं वा, तादृशं यन्न भवति तद्वेदनादिवदव्यपदेश्यं न केनापि शब्देन खपुष्पवैलक्षण्येन वक्तुं योग्यमित्यर्थः, वेदनादि च सदादिशब्दैर्व्यपदेश्यमेव, न तु त्वदीयं कार्य तादृशमतोऽसदेवेति भावः । हेत्वन्तरमाह-अविशिष्टत्वादिति 25 अवच्छेदकत्वसामान्यानिरूप्यत्वादित्यर्थः, वस्तुमात्रं हि यत्किञ्चिन्निष्ठावच्छेदकत्वनिरूप्यमेव भवति, त्वदीयं कार्य तु न यत्किञ्चिनिष्ठावच्छेदकत्वनिरूप्यमित्यवच्छेदकत्वसामान्यानिरूप्यत्वात् खपुष्पादिवदसदेवेति भावः । एतेषां हेतूनां सद्भावेऽपि यदि कार्य सदिष्यते तर्हि प्रागप्यत एव हेतुभ्यः सत् स्यादिति विपक्षे बाधकमाह-एतदनभ्युपगम इति । अथ कारणसामग्रीफलभूतखभावसन्मात्रकारणसमवेतकार्यमात्रस्य सत्ताद्रव्यत्वादिप्रतिनियतधर्मसम्बन्धप्रयोजकरूपाभावादुत्पत्त्यवस्थायामिदं द्रव्यमेव न गुणादि, गुण एव न द्रव्यादि, क्रियैव न द्रव्यादीति नियमो न सम्भवतीत्युक्तं तत् सर्वदा तथैवेति न सत्ताद्रव्यत्वादिसम्बन्ध:30
१ सि. क. तद्वदनैः । २ छा० एव च । ३, ४, ५, ६ सि. क. °देश्यो । सि. xx। ७ सि. क. वत् । सि.क. छा० भ्यः उत्पन्नमात्रद्रव्यादिभ्यः उत्प० ।
द्वा० न० ५ (८२)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org