________________
६४६
न्यायागमानुसारिणीव्याख्यासमेतम् 1 [विधिनियमोभयारे प्रधानमपि चैवमित्यादि, सांख्यपरिकल्पितं सकलजगत्कारणं प्रधानादिपर्यायं स्याद्भवता-वैशेषिकेण परिकल्पिता सत्ता, विश्वरूपोपभोगप्रतिपादनार्थत्वात् , गुणत्रयवत् , यथा सत्त्वरजस्तमोनामक पुरुषार्थं प्रवर्त्तमानं--पुरुषस्य विश्वरूपमुपभोगं प्रतिपादयितुं प्रवर्त्तमान प्रधानमेव, न ततोऽन्यद्वयतिरिक्तं किश्चित् , विकारत्वात् , एवं सत्ता प्रधानमेव स्यात् , अनिष्टश्चैतत् , किश्चान्यत्-कार्यमपि त इत्यादि 5 यावद्व्यादिवदिति, कार्यमपि तव द्रव्यादि जन्मकालात् प्रागपि सदेव प्राप्नोतीत्येतदप्यनिष्टापादनम् , कथं ? तन्त्वादिकारणानि प्रागप्युत्तरकालभाव्यभिमतात्मसम्बन्धीनि, अशक्तसदसत्त्वेन व्याप्यमानत्वादित्यादिहेतवो गतार्था यावत् सक्रियमाणत्वादिति, उत्पन्नमात्रद्रव्यादिवदिति दृष्टान्तः, यद्वेत्यादि, अथैवं नेष्यते, न तत् सक्रियते-द्रव्याद्युत्पन्नमात्रं न भाव्यते वा केनचिदर्थान्तरेण, सद्भूतत्वात् , सत्तादिवदिति, आदि
ग्रहणाद्रव्यत्वादिसामान्यविशेषसमवायवत् , न तत्सत्ता सत्तान्तरमपेक्षते-द्रव्यादीनामुत्पन्नानां स्वभावसत्ता 10 सम्बन्धिसत्तां नापेक्षते, सत्तासम्बन्धरहितत्वेऽपि सत्तात्मकत्वात् , अत्यन्तानुप्रवृत्तसत्तावत्-महासामान्यवदित्यर्थः, अनर्थसत्ता-'अर्थ इति द्रव्यगुणकर्मसु (वै० अ० ८ आ० २ सू० ३) संज्ञानियमादनाः सामान्यविशेषसमवायाः, तेषामनर्थानां या सत्ता सापि चान्यत्रानाधेया, अनाश्रितेत्यर्थः, तत एव हेतोः स्वसत्तावदित्येतान्यनिष्ठापादनसाधनानि ।
ommmmam
व्याचष्टे-सांख्येति, सत्ता प्रधानमिति प्रतिज्ञा, तत्र हेतुमाह-विश्वरूपेति उपभोगप्रतिपादनार्थत्वादिति हेतुः, प्रधानस्य 15 कोऽसावुपभोग इति चेत् विश्वं जगत्, तद्रूप उपभोगः, यद्वा विश्वरूपं महदहङ्कारादयः, सत्तायास्तूपभोगोऽभिन्नाभिधानप्रत्यय
व्यवहारलक्षणः । दृष्टान्तमाह-गुणत्रयवदिति । दृष्टान्तं घटयति-यथेति, स्पष्टम् । दोषान्तरमाह-कार्यमपीति खकारणेभ्यः स्वरूपसद्भतिमात्रेणोत्पन्न कार्यमुपभोगाय नालमिति अशक्तसदप्यसदुच्यते, अशक्तसदसत्त्वेन व्याप्यमानमपि तद्रव्यादिकाय यथा तदानीं सत् तथा जन्मकालात् प्रागपि सत् स्यादिति मानार्थः । ननु तदानीं साध्यधर्म्यव नास्ति, क्व जन्मकालात्प्राक्सत्त्वं
साध्यते इत्याशङ्कायां प्रतिज्ञा प्रदर्शयति-तन्त्वादीति, जन्मोत्तरकालभावित्वेनामिमतो य आत्मा-कार्य तेन प्रागपि सम्बन्धी20 नीति तदर्थः, अशक्तसदसत्त्वेन कार्येण व्याप्यमानत्वादिति हेतुघटना बोध्या । अथ यदि जन्मकालात् प्रागपि कार्य न सत्, ततो 'न तत्र सत्तासम्बन्धः स्यादित्यनिष्टापादनमाह-अथैवमिति । उत्पन्नमात्रं द्रव्यादि खकारणैः सत्कृतमेवेति न सत् क्रियत इत्यत्रेष्टापत्तिं यदि ब्रूयात्तद्वारणार्थ न वा केनचिदर्थान्तरेण भाव्यत इति साध्यार्थमाह-न भाव्यत इति, सत्तया भाव्यमानत्वेष्टे. त्रिष्टापत्तिः कर्तुं शक्यत इति भावः । हेतुमाह-सद्भुतत्वादिति, यत् स्वरूपसद्भूतं तन्नार्थान्तरेण भाव्यमानं दृष्टम् , यथा सत्ताद्रव्यत्वादिसामान्यविशेषसमवायाः, तथोत्पन्नमात्रं द्रव्यमिति भावः। यथा तन्नार्थान्तरेण भाव्यमानं तथैव तदीयस्वरूपसत्ता 25 नार्थान्तरं महासामान्यमपेक्षत एवेत्याह-न तत्सत्तेति द्रव्यादेः स्वरूपसत्तेत्यर्थः। अत्यन्तेति एकान्तानुवृत्तिप्रत्ययनिमित्तभूत
सत्तावदित्यर्थः, एतेनानुवृत्तेावृत्तेश्च निमित्तभूतस्य द्रव्यत्वादेव्युदासः । सत्ताया अपेक्ष्यमाणत्वं व्युदस्यान्यानाश्रितत्वं साधयतिअनर्थसत्तेति । तैस्तैर्विधिनिषेधवचनैरागमिकैद्रव्यगुणकर्मगामेवार्थ्यमानत्वात्तान्येव वैशेषिकैरर्थपदपरिभाषितानि न सामान्यादीनि ततस्तान्यनर्थानीत्याशयेन वैशेषिकसूत्रप्रदर्शनपुरस्सरमाह-अर्थ इतीति, एवञ्चानादीनां सामान्यादीनां या सत्ता स्वरूपसद्रूपा
सा सत्तासम्बन्धरहितत्वेऽपि सत्तात्मकत्वात् नान्यत्राधेया आश्रिता, यथा द्रव्यादेः कार्यस्य स्वरूपसत्ता, तस्मान्न सत्ता द्रव्यादी 30 समवैतीति भावः । ननु सत्तासमवायप्राक्कालावच्छिन्नमुपादानतन्त्वादिसमवेतं घटादिकार्य सत्तासम्बन्धादेव यदि सद्भवति,
तर्हि तदेकान्तेन सन्न भवति, किन्तु यथा गुण एव सन्नगुणो भवति तथाऽसदपि भवति, एवमिष्यते चेत्तत् असदेव भवेत् , खतो
सि. पुरुषार्थत्वादित्यधिकं दृश्यते । २ सि. शक्तस० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org