________________
mam
सत्तायाः प्रधानरूपता]
द्वादशारनयचक्रम् तस्मात्तेषामपि लब्धिप्रकाश्यत्वादनवस्था, सापि लब्धिरात्मनः प्रणिधानाख्येन वीर्येणापनीते ज्ञानावरणादिकालुष्ये जीवस्योपयोगलक्षणस्य प्रसादमात्रं ज्ञानमुपयोगः तेन प्रकाश्यते, लब्धेरप्युपयोगफलायाः तत्प्रकाश्यत्वादनवस्था, तस्यापि मतिज्ञानोपयोगादारभ्य यावत्केवलोपयोगस्य बाह्योपयोग्यद्रव्योपयोगप्रकाश्यत्वादनवस्था, सोऽपि हि 'जं जं जे जे भावे परिणमति पयोगवीससा दव्वं । तं तह जाणाति जिणो अपज्जवे जाणणा णत्थि ॥' ( आव० नि० गा० २६६७) इति बाह्यवस्तुपरिणामानुरूपोपयोगात् तत्प्रकाश्य । उपयोगोऽपीत्यतः परं पुनरुक्तं भवति प्रकाश्यप्रकाशकचक्रकरूपेण, तस्मात् प्रकाश्यः प्रकाशान्तरप्रकाश्यः प्रदीपप्रकाशोऽपि, अतद्रूपभावाधिगम्यत्वादित्यवस्था[वद्]दृष्टान्तासत्त्वसमर्थनोपसंहारः, सत्तायामप्यनवस्थाना[द]तद्रूपप्रकाश्यसाधर्म्यमापादयितुमाह-प्रस्तुता सत्तापि चेत्यादि, सत्तापि चाश्रयस्य द्रव्यादेरतद्रूपस्य प्रत्ययेनात्मानं लभते-तेन प्रकाश्यते, वाक्प्रकाशावगमितस्यार्थस्य प्रदीपादिना प्रकाशनवत् , न स्वत एवेत्यनवस्थादोषोऽत्रापि तदवस्थः ।
10 किश्चान्यत्
प्रधानमपि चैवं स्याद्भवता परिकल्पिता सत्ता, विश्वरूपोपभोगप्रतिपादनार्थत्वात् , गुणत्रयवत् , यथा सत्त्वरजस्तमोनामकं पुरुषार्थ प्रवर्त्तमान प्रधानमेव, एवं सत्ता प्रधानमेव न ततोऽन्यत् , कार्यमपि च ते जन्मकालात् प्रागपि सदेव प्राप्नोति, अशक्तसदसत्त्वेन व्याप्यमानत्वात् ..................... सक्रियमाणत्वात् , उत्पन्नमात्रद्रव्यादिवत् , यद्वा न तत् 15 सक्रियते, सद्भूतत्वात् , सत्तादिवत् , न तत्सत्ता सत्तान्तरमपेक्षते, सत्तासम्बन्धरहितत्वेऽपि सत्तात्मकत्वात् , अत्यन्तानुप्रवृत्तसत्तावत् , अनर्थसत्ताऽपि चान्यत्रानाधेया, तत एव, स्वसत्तावदिति । दर्शनावरणवीर्यान्तरायक्षयोपशमाच्च भवतीति भावः । लब्धिरपि उपयोगप्रकाश्येत्याह-सापि लब्धिरिति ज्ञानरूपोपयोगप्रकाश्या, यं प्रमाणमित्यामनन्ति, स चोपयोगश्चित्तैकाग्रतालक्षणेन प्रणिधानेनात्मनो ज्ञानावरणादेरपगमे सति भवतीति भावः । 20 सोऽपि उपयोगो मतिज्ञानोपयोगादारभ्य केवलज्ञानोपयोगपर्यन्तो ग्राह्यः, स च बाह्यवस्तुपरिणतिखरूपविषयव्यापारलक्षणोपयोगाद्भवतीति भावः । अत्रार्थे प्राचामाचार्याणां परिणाम विना द्रव्यग्रहणाभावप्रकाशिकां गाथामाह-'जं जंजे जे' इति. यद्यद्रव्यं यस्मिन् यस्मिन् भावे प्रयोगेग विस्रसया वा परिणमति तद्रव्यं तथैव जिनो जानाति यदि परिणतिर्न स्यात् तर्हि तस्य ज्ञानं नास्त्येवेति गाथाया भावः । तत्तात्पर्यमाह-बाह्यवस्त्विति । किं तावताऽवस्थितिरस्ति, स उपयोगो नान्यमपेक्षत इति? एवं शङ्कायामस्ति तत्रापि प्रदीपप्रकाशाद्यपेक्षा, स च प्रकाशो इन्द्रियादिप्रकाश्यः, इन्द्रियादि च बहुप्रभेदोपकरणप्रकाशमित्येवं 25 प्रकाश्यप्रकाशकाऽऽवर्तनसम्भवात् पुनस्तद्वचने पुनरुक्तिर्भवेदिति नोच्यत इत्याशयेनाह-अतः परमिति। अतद्रूपेति, तदेव रूपं स्वरूपं यस्य भावस्य तेन भावेन योऽधिगम्यः प्रकाश्यो न भवत्यसौ अतद्रूपभावाधिगम्यस्तद्भावात् आत्मस्वरूपेणाप्रकाश्यत्वादित्यर्थः, य आत्मस्वरूपेणाप्रकाश्यः स प्रकाशान्तरप्रकाश्यो भवति, प्रदीपश्चात्मस्वरूपेणाप्रकाश्यत्वेन प्रकाशान्तरप्रकाश्यत्वादवस्थावान् दृष्टान्तो न भवितुमर्हतीति दृष्टान्तोपसंहारार्थः । दार्शन्तिकी सत्तापि न तद्रूपभावाधिगम्येति प्रकाशान्तरप्रकाश्यवेत्याह-प्रस्तुता सत्तापि चेति । यदि स्वात्मस्वरूपेणाप्रकाश्या तर्हि केन प्रकाश्येत्यत्राह-सत्तापि चेति । आत्मलाभो जननं सत्ता तु न 30 जन्यते नित्यत्वात् तत्कथमात्मानं लभत इत्याशङ्कायामाह-तेनेति । दृष्टान्तमाह-वागिति । अथ विचित्रोपभोगसिद्ध्यर्थ सत्तासम्बन्धो यदि भवद्धिरभ्युपगम्यते तर्हि सांख्यसम्मतप्रधानत्वमेव तस्याः स्यादिति दोषान्तरमाचष्टे-प्रधानमपीति । इदमेव
सि. क. साधादापा।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org