________________
६४४
[ विधिनियमोभयारे
तान्य
वाक्प्रकाशितघटविषयस्यावस्थावदनवस्थादोषाभावाच्च योऽयं प्रतिसमाधानविकल्प:सोऽप्यनुपपन्नः, अवस्थावद्द्द्दृष्टान्तासत्त्वात्, अनेकान्तत्वात्, एकान्तरूपो हि निश्चितोऽर्थो दृष्टान्तः स्यात् त्वदुद्रा हितार्थस्य तु न हि व्यर्थत्वैकान्तानुगतं प्रकाशनम्, इन्द्रियेणानुपलब्धस्य विचित्रोपभोगासिद्धेः, तस्यापि बहुप्रभेदोपकरणप्रकाश्यत्वात्, 5 प्यात्मलब्धिप्रकाश्यानि, साप्युपयोगप्रकाश्या, तस्यापि बाह्योपयोग्यद्रव्योपयोगप्रकाश्यत्वादनवस्था, अतः परं पुनरुक्तं भवति, तस्मात् प्रकाश्यः प्रदीपप्रकाशोऽपि, अतद्रूपभावाधिगम्यत्वात्, प्रस्तुता सत्तापि च आश्रयस्यातद्रूपस्य प्रत्ययेनात्मानं लभते न स्वत एव, वाक्प्रकाशावगमितार्थस्य प्रदीपादिप्रकाशनवदिति ।
सोऽप्यनुपपन्न इत्यादि तदुत्तरं यावत् प्रदीपादिप्रकाशनवदिति, कस्मादनुपपन्न इति चेदुच्यते10 अवस्था[वद्]दृष्टान्तासत्त्वात् - असावेव प्रदीपदृष्टान्तोऽवस्थावानित्यभिमतोऽवस्थावान्न भवति, अनेकान्तत्वात्, एकान्तरूपो हि निश्चितोऽर्थो दृष्टान्तः स्यात् त्वदुग्राहितार्थस्य तु नहि व्यर्थत्वैकान्तानुगतं प्रकाशनम् – यदि प्रदीपस्य प्रकाशान्तरेण प्रकाशनं व्यर्थं स्यात् न वाऽ [न]वस्था स्यात्, तेत्तु नास्ति, यस्माद्वाक्प्रकाश्यप्रकाशक प्रदीप व दिन्द्रियेणानुपलब्धस्य - अगृहीतस्य घटादेर्विचित्रोपभोगासिद्धेः किमिन्द्रियैरवस्था स्यात् ? नेत्युच्यते - तस्यापि बहुप्रभेदोपकरणप्रकाश्यत्वात् तदपि हीन्द्रियं निर्वृत्त्युपकरणयोग्या15 त्मोत्पन्नेन्द्रियपर्यायाख्यपुद्गलद्रव्यप्रकाश्यम्, अञ्जनपादाभ्यङ्गनपथ्यभोजनप्रदीपादि बाह्यद्रव्यप्रकाश्यम्, ज्ञानात्मात्मप्रकाश्यश्च तान्यपि हि निर्वृत्त्युपकरणयोग्यपर्याप्तिद्रव्याणि अञ्जनादि बाह्यद्रव्याणि चात्मन्युदितक्षीणोपशान्ताङ्गोपाङ्गनामकर्मोदयज्ञानदर्शनावरणवीर्यान्तरायक्षयोपशमापेक्षात्मलब्धिप्रकाश्यानि
"
न्यायागमानुसारिणीव्याख्यासमेतम्
भिन्नप्रत्ययाभिधानप्रयोजकत्वात् सप्तमीतत्पुरुषाश्रयणम्, स्वरूपसत्त्वलक्षणैकधर्मावच्छिन्नेभ्यः द्रव्यादिषड्भ्यो विचित्रोपभोगसिद्ध्यर्थं द्रव्यादित्रयाणां सत्तासम्बन्ध इति कर्मधारयपक्षाभिप्राय इति ध्येयम् । न कोऽप्यवस्थावान् दृष्टान्तोऽस्ति, प्रदीपदृष्टान्तोऽप्यवस्था20 वान्न भवतीति वैशेषिकयुक्ति निराकरोति सोऽप्यनुपपन्न इति । अनुपपन्नतायां हेतुमाह-अवस्थावदिति । तथाविधदृष्टान्तासत्त्वे हेतुमाह-अनेकान्तत्वादिति प्रकाशान्तर प्रकाशन वैयर्थ्ययोरेकान्तेन प्रदीपे यदि निश्चयः स्यात् स्यात्तदाऽवस्थावद्दृष्टान्तः स एव नास्तीति भावः । एतदेवाह यदीति प्रकाशान्तरेण प्रकाशनस्य व्याप्यं व्यर्थत्वं तद्व्याप्यञ्चावस्थावत्त्वं वक्तव्यम्, तन्न सम्भवति चक्षुरादीन्द्रियेण प्रकाशात्मा प्रदीपो यदि गृहीतो न भवेत् कथं घटादिग्रहणलक्षणविचित्रोपभोगः स्यादिति भावः । व्यर्थत्वं कथं नास्तीत्यत्र हेतुमाह यस्मादिति, यथा वाचा प्रकाशितस्य प्रदीपेन प्रकाशनं न व्यर्थं तद्वदित्यर्थः । इन्द्रियस्यापि 25 प्रकाशोऽपेक्षित एव न तस्य वैयर्थ्यमतस्तत्राप्यवस्था नास्तीत्याह - तस्यापीति इन्द्रियस्यापीत्यर्थः, इन्द्रियाण्यपि बहुप्रभेदेरुपकरणैः प्रकाश्यानि, तत्राचेतनानि बाह्यद्रव्याणि आन्तरद्रव्याणि चेतनश्च उपकरणानि, तत्रान्तराचेतनद्रव्यलक्षणोपकरणमाहतदपि हीति निर्वृत्युपकरणलक्षणेन्द्रियद्वययोग्यमात्मन्युत्पन्नं यदिन्द्रियपर्याप्तिनामकं पुद्गलद्रव्यं तेन प्रकाश्यमिन्द्रियमित्यर्थः । इन्द्रियाणां प्रकाश्यं बाह्यद्रव्यमाह -अञ्जनेति, अञ्जनं पादाभ्यङ्गनं पथ्यभोजनं प्रदीपादि चेन्द्रियगतपदार्थग्रहणशक्तेरुत्तेजकत्वाच्चक्षुषः प्रकाश्यमिति भावः । आन्तरं चेतनद्रव्यमिन्द्रियप्रकाशकमाह-ज्ञानात्मेति ज्ञानस्वरूपेणात्मना प्रकाश्यम्, उपयोगाभावे इन्द्रियाणामकिञ्चित्करत्वादिति भावः । उदितानां बाह्याभ्यन्तरद्रव्याणामपि प्रयोजकमाह- तान्यपीति प्रोक्तबाह्याभ्यन्तरद्रव्याण्या30 त्मनो लब्धिविशेषात् प्रकाश्यानि, स च लब्धिविशेष इन्द्रियपर्याप्युपयुक्ताङ्गोपाङ्गनामकर्मोदयात् बाह्यद्रव्यलाभसहकारि ज्ञान
१ सि. क. सातु । २ सि. क. पदोभ्यङ्गनेस्यपथ्य० । ३ सि. क. 'करणात्तद्योग्य ० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org