________________
अनवस्थानिरासः]
द्वादशारनयचक्रम्
६४३
किञ्चान्यत
यत्त्वनवस्था न दृष्टान्तात् वाक्प्रकाशितघटाद्यर्थक्रियार्थप्रदीपप्रकाशोपादानस्यार्थवत्प्रकाशनावस्थावत् , इहापि द्रव्यादिकार्येण वस्तूभृतिप्रकाशमात्रेण द्रव्यादेरुपयोगक्रिया नास्तीत्यशक्तसदसत्त्वात् विचित्रोपभोगसिद्ध्यर्थे सत्तासम्बन्धोऽर्थवानेवेति ।
यत्त्वनवस्था नेत्यादि, यावदर्थवत्प्रकाशानवस्थावदिति पूर्वपक्षप्रत्युच्चारणम् , अनवस्थादोष- 5 परिहारार्थः प्रतिसमाधानविकल्पो नैष दोषः दृष्टान्तादित्यादि, दृष्टान्तस्तद्यथा-वाचा गमिते प्रकाशिते घट इति ज्ञानमात्राधाने कृते तावता जलाद्याहरणादिक्रियाविनियोगार्थो न कृत इति तदर्थं घटग्रहणधारणाद्यर्थश्च प्रदीपप्रकाश उपादीयते, तस्य वाक्प्रकाशादन्यप्रकारस्य प्रदीपप्रकाशस्योपादानं न व्यर्थम् , न च पुनस्तस्यान्यः प्रदीपोऽन्यो वा प्रकाशः प्रकाशनार्थमुपादीयते, तस्मात्तत्रैव व्यवस्थितत्वान्नानवस्थादोषोऽस्तीत्येष दृष्टान्तः, उपनयः-तथेहापि द्रव्यादिकार्येण वस्तूभूतिप्रकाशमात्रेण स्वकारणोत्पादितमा- 10 त्रेण वाक्प्रकाशितघटस्थानीयेन द्रव्यादेः कार्यस्योपयोगक्रिया नास्ति, पुरुषोपभोगार्थाश्च सर्वाः क्रियाः इति अतः कारणात् , असत् अशक्तसदसत्त्वात्-अशक्तस्य स्वकार्यकरणे सत एवासत्त्वात् , अङ्कुरावस्थायामिव व्रीहेः, अकठिनावस्थायामिव वा क्षुत्प्रतीकाराशक्तासवीहिवत्-विचित्रोपभोगसिद्ध्यर्थ-घटपटकटादिभिः परस्परव्यतिरिक्तैर्जलधारणत्वक्त्राणप्रच्छादनाद्युपभोगसिद्ध्यर्थं विचित्रेषु घटादिषु पटादिषु देशकालाकारादिभिः समानजातीयेष्वभिन्नाभिधानप्रत्ययव्यवहारसिद्ध्यर्थं स्वसामान्यान्वितेषु सत्त्वविशेषणेन प्रकाशान्त- 15 रेण सम्बन्धोऽर्थवानेव, वाक्प्रकाशितस्य पुनः प्रकाशने प्रदीपप्रकाशस्येव । सामान्यसम्बन्धादित्येवमनवस्था, यदि च सत्ता स्वयमेव सती नापरसामान्येनेति नानवस्थेत्युच्यते तर्हि द्रव्यादिकार्यमपि खयमेव सत् स्यात् किं सत्तयेत्याशङ्कायां वैशेषिकेण यत्समाहितं तदाचष्टे-यत्त्वनवस्था नेति । नास्त्यनवस्थादोषः वक्ष्यमाणदृष्टान्तादिति वैशेषिकस्यानवस्थासमाधानविकल्प इत्याह-अनवस्थादोषेति । दृष्टान्तं तावद्वर्णयति-चाचेति, रात्र्यादौ यदि कश्चित् गृहेऽस्मिन् घटो विद्यत इति जलाहरणाद्यर्थिनं प्रति वदेत्तावता न जलाद्याहरणार्थः सिद्ध्यति, किन्तु 20 प्रदीपप्रकाशेन चक्षुरादिना घटे विज्ञाते हस्तेन परिगृहीते तदर्थः सिद्ध्यतीति सामान्यतोऽवगतस्य विशेषतः परिज्ञानार्थ प्रदीपादिप्रकाशस्यापेक्षाऽस्ति, न तत्र प्रदीपादिप्रकाशस्य प्रकाशनार्थमपरप्रदीपाद्यपेक्ष्यते, ततोऽपेक्षायास्तत्प्रकाशमात्र एव व्यवस्थितत्वान्नास्त्यनवस्थेति दृष्टान्तार्थः । तदर्थ-आहरणादिक्रियासु घटादेर्विनियोगार्थम् । सामान्येन प्रकाशितस्यापि पुनर्विशेषेण प्रकाशनं न निष्फलमित्याह-तस्येति । अनवस्थाऽभावं वक्ति-न च पुनरिति । दाष्टान्तिके तदर्थमुपनयति-इहापीति कारणसमाजेन द्रव्यादिकार्ये सामान्यत उद्धृतिमात्रेण प्रकाशितेऽपि तावता पुरुषप्रयोजननिवृत्त्यनुदयादसदेव तत्स्यादिति भावः । तत्र हेतु-25 माह-अशक्तेति द्रव्याद्यर्थक्रियासु असमर्थत्वेन सदप्यसदेवेति भावः । तत्रोदयप्राक्कालीनावस्थं दृष्टान्तमाह-अङ्करेति । सत्तासम्बन्धप्राक्कालीनोदितावस्थं दृष्टान्तमाह-अकठिनेति । सत्तासम्बन्धप्रयोजनं दर्शयति-विचित्रेति, घटपटकटादीनां भावैकरूपत्वे परिदृश्यमाना विचित्रा उपभोगा न भवेयुरिति सामान्यधर्मावच्छिन्नानामपि विशेषधर्मावच्छिन्नत्वमावश्यकमिति खरूपसतामपि सत्तासम्बन्धोऽपेक्षित एव, न वा सत्ताया सम्पूर्णसद्रूपायाः प्रदीपप्रकाशस्थानीयायाः सत्तान्तरापेक्षाऽस्तीति नानवस्थेति भावः । विचित्रश्चासावुपभोगश्चेति कर्मधारयाभिप्रायेगाह-घटपटेति । विचित्रेषु देशकालाऽऽकारादिभिः घटादिषु 30 उपभोगः-अभिन्नप्रत्ययाभिधानलक्षणो व्यवहारस्तत्सिद्ध्यर्थमिति सप्तमीतत्पुरुषाभिप्रायेणाह-विचित्रेष्विति, सत्तासम्बन्धस्या
१ सि. क. र्थवतएव । २ सि. क. प्रकाशस्य० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org