________________
mmmmmm
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे यथा सत्तासमवायविशेषेष्विति, अथ वाऽऽश्रयाश्रयिणोः पारतंत्र्यस्वातंत्र्यव्याख्याकुसृतिप्रत्युत्थानं मा कार्षीद्वैशेषिक इति निराशङ्कमाकाशादिवदिति दृष्टान्तः, यथा दिक्कालाकाशद्रव्याणि दिक्कालादिमुख्यसामान्यशून्यानीति, अथ वा प्रस्तुतोदाहरणमेव दृष्टान्तः स्वगतेत्यादि, अन्वयव्यतिरेकयुक्ताव भिधानप्रत्ययावश्वरथवदन्वयव्यतिरेकाभिधानप्रत्ययौ, तौ स्वगतेन पुत्रत्वेन संसिद्धौ यस्मिन् सोऽयं स्वगतपुत्रत्व5 संसिद्धान्वयव्यतिरेकाभिधानप्रत्ययो देवदत्तः पुत्र एव संन्ननपेक्षपुत्रत्वः-स्वसुतमनपेक्ष्य व्याख्यातविधिना पुरुषान्तरस्य पितुः पुत्र एव सन्नपुत्रः स्वसूनुत्वाभावादिति यथा पुत्र एवापुत्र उच्यत इत्येवं दृष्टान्तार्थं भावयित्वा दार्शन्तिकमुपनयति, अत्र स्वभावसिद्धेरित्यादि,-स्वभावसद्भावसिद्धेरेव द्रव्यादित्वं नेतरसत्त्वात्-न सम्बन्धिसत्त्वादिति विचारफलं निगम्यते-एवं हि विशेषविचारद्वारेण सत्ताया निराकरणं
कृतम् , द्रव्यत्वाद्यप्येवमेव निराकार्यम् , द्रव्यत्वगुणत्वकर्मत्वसामान्यविशेषनिरपेक्षावभिधानप्रत्ययौ स्वत 10 एव द्रव्यादीनां सुलभौ, व्याख्यातवदिति, तत्रापि तुल्यप्रचर्चत्वात् ।
एतेन सत्सत्करत्वपक्षेऽपि साक्षात्कृतमेव वैयर्थ्यम् , स्वत एव सिद्धत्वात् ।
(एतेनेति) एतेन सत्सत्करत्वपक्षेऽपि साक्षात्कृतमेव वैयर्थ्यम्-नास्य सदित्यसत्पक्षे यथाऽभिहितं विचारावसाने नासतः सत्करी सत्ता सद्व्यादिव्यतिरिक्तस्य सत्ताद्रव्यत्वादेः तत्सदभिधानप्रत्ययहेतो
रनवकाशः, स्वत एव सिद्धाभिधानप्रत्ययत्वात् सत्तावदिति, तथा तथैव सतां द्रव्यादीनां सत्करी सत्तेत्य15 त्रापीति प्रत्यक्षीकृतमस्माकं त्वयैव वैयर्थ्यं सत्तासम्बन्धस्य, खत एव सिद्धत्वादिति ।
तस्येति मत्त्वाऽनुमानं दर्शयतीति भावः, प्रयोगार्थः स्फुट एव । ननु द्रव्यादिराश्रयः परेणैव सद्व्यादिर्भवति, आश्रयि च सत्ताद्रव्यत्वादि खत एवेति वैशेषिको यदि शङ्केत तर्हि तत्तोषार्थमाश्रयभूतं स्वत एवाभिधानप्रत्ययविषयं दृष्टान्तमुपन्यस्यति-आकाशादिवदिति, आकाशादिव्यपदेशः प्रत्ययश्चात्र स्वत एव, नाकाशत्वादिना परेण, आकाशत्वादीनामेकव्यक्तिमात्रवृत्तित्वेन सामान्यानभ्युपगमादिति भावः । तत्रापि यद्याकाशत्वादिना सखण्डेनाखण्डेन वा धर्मेणैवाभिधानप्रत्ययावितीष्येत तर्हि त्वदुक्तं 20 प्रस्तुतमपुत्रब्राह्मणदृष्टान्तमेवात्रापि गृहाणेत्याशयेनाह-अथ वेति । अश्वेन युक्तो रथोऽश्वरथ इत्यादिमध्यमयुक्तपदलुप्तसमासवत्
अन्वयव्यतिरेकयुक्तौ अभिधानप्रत्ययाविति मध्यमयुक्तपदलोपिकर्मधारय इत्याह-अन्वयेति, अभिधानप्रत्यययोः सामान्यविशेषात्मकवस्तुविषयत्वेनान्वयव्यतिरेकयुक्तता भाव्या। तौ च स्वस्मिन् स्वतः सिद्धधर्मविशेष प्रयुक्तौ नान्यगतधर्मेण, तथा च खनिष्ठपुत्रत्वेनैव देवदत्तः पुत्राभिधान प्रत्ययविषयः, यद्यपि पुत्रत्वं पितृत्वापेक्षं तथापि पुत्राभिधानप्रत्यययोर्न पित्रपेक्षत्वं प्रयोजकमित्याशयेनाह-तौ स्वगतेनेति, अन्वयव्यतिरेकाभिधानप्रत्ययौ खनिष्ठेन पुत्रत्वेनैव भवतो नान्यगतेन पुत्रत्वादिनेति भावः । 25 अनपेक्षपुत्रत्व इति, अनपेक्षं पुत्रत्वं यस्य यन्निष्ठं पुत्रत्वं स्वसुतानपेक्षं तथाविध इत्यर्थः, स्वसुतापेक्षपुत्रत्वेन त्वपुत्र एवेति
भावः । व्याख्यातविधिनेति, अतव्यत्वात् स्वयं पुत्रीभावपरिणामशून्यत्वादित्यायुक्तविधिनेत्यर्थः । सत्तानिराकरणविचार निगमयति-एवंहीति । इतरेषामपि द्रव्यत्वादिव्यतिरिक्तसामान्यानामनयैव दिशा निराकरणं कार्यमित्यतिदिशति-द्रव्यत्वादीति। एवमसतो द्रव्यादेः सत्करः सत्तासम्बन्ध इति पक्षं निराकृत्य सतः सत्करः सत्तासम्बन्ध इति पक्ष निराकर्तुमाह-एतेनेति
अन्यस्य सदभिधानप्रत्ययहेतोर्द्रव्यादावनवकाशः, स्वत एव सिद्धाभिधानप्रत्ययत्वात् सत्तावदित्यनुमानेनेत्यर्थः । एतदेव व्याचष्टे30 नास्येति, असत्पक्षेऽसतः सत्ता सत्करी न भवतीति विचारस्य प्रान्तभागे यथाऽभिहितोऽनुमानेन सत्तासम्बन्धस्यानवकाशस्त
थैव सत्पक्षेऽपि तदनवकाशात् सत्ताकल्पनमनर्थकमेव तत्कार्यस्य स्वत एव सिद्धत्वादिति तात्पर्यम्। ननु द्रव्यादिकार्य यदि न खतः सत्, किन्तु सत्तासम्बन्धादेव तर्हि सत्तापि स्वतो न सती स्यात्, किन्त्वपरसामान्यसम्बन्धात् स्यात् , तथा तदपि सामान्यमन्य
१ सि. नास्तीदं पदम् । २ सि. क. सूचनपेक्ष० । ३ सि. क. क्ष. डे. स्वशून्यत्वभा० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org