________________
सत्तानतिरिक्तता ]
६४१
क्तसत्त्वकरत्वात् कारणमेव स्यात, आदिग्रहणात् कपालवीरणादिद्रव्याण्युदाहर्त्तव्यानीति, तथा च द्रव्याद्यन्य[तम]देव तत्सामान्यं - सत्ताख्यं द्रव्यं गुणः कर्म वा ततोऽन्य[ तमत् ] स्यात्, यद्धि कारणं तद्द्रव्यं गुणः कर्म वा ततोऽन्य[तम]द् दृष्टं यथा तन्तवस्तत्संयोगाश्च तत्क्रियाश्च तथा सामान्यं सत्ताख्यम्, तस्मात् सामान्यं सदनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवच्च, द्रव्यादिवत्, अतो द्रव्यादीनामेव सदादिषडविशेषा इति व्याख्या व्यर्था ।
द्वादशारनयचक्रम्
अत एव च नास्य सत्तदिदमसदिति स्वान्वयवृत्तिसत्त्वाव्यतिरेकवृत्तिनिष्कलखतोऽवधारितसत्त्वं द्रव्यादि व्याख्यातम्, तस्मात्तदर्थमभिधानप्रत्यय हेतुनाऽन्येन नार्थः, स्वत एव सिद्धप्रयोजनत्वात्, तत्रान्यस्य सदभिधानप्रत्यय हेतोर्द्रव्यादावनवकाशः स्वत एव सिद्धप्रयोजनत्वात्, सत्तासामान्यादिवत्, आकाशादिवद्वा यथा वा पुत्र एवापुत्र उच्यते स्वगतपुत्रत्वसंसिद्धान्वयव्यतिरेकाभिधानप्रत्ययदेवदत्तः पुत्र एव सन्ननपेक्षपुत्रत्वः, अत्र स्वभावसि - 10 द्धेरेव द्रव्यादित्वं नेतरसत्त्वादिति सत्ताया निराकरणं कृतम्, द्रव्यत्वाद्यप्येवमेव निराकार्यम् ।
अत एव चेत्यादि एतस्मादेव द्रव्याद्यन्यतमस्वरूपत्वात् सत्तायाः सामान्याख्यायाः, नास्य सत्तदिदमसदिति विगृह्य अस्येत्यन्वयान्नेति च व्यतिरेकात् द्रव्यगुणकर्माख्यस्य त्रयस्य सतोऽवधारणार्थं प्रतिषेधवाचिना नया व्यवच्छेद्यां सत्तामभ्युपगम्य स्वान्वयवृत्ति सत्त्वादव्यतिरेकवृत्ति च निरूपितेमन्वयव्यतिरेक।भ्यां निःकारकाभ्यां निष्कलं परिपूर्ण स्वरूपतोऽवधारितञ्च सत्त्वं यस्य तद्रव्यादि द्रव्यान्त- 15 रादि सद्व्यतिरेकेण स्वान्वयेन च यथा व्याख्यातं सिद्ध्यति च तस्मात्तदर्थं - द्रव्याद्यवधारणार्थं अभिधानप्रत्यय हेतुनाऽन्येन सत्तादिना नार्थः [न] प्रयोजनम् स्वत एव सिद्धप्रयोजनत्वादित्युक्तोपसंहारः, अत्र पृथक् साधनं-तत्रेत्यादि, द्रव्यादिव्यतिरिक्तस्य सदभिधानप्रत्यय हेतोर्द्रव्यादावनवकाशः, स्वत एव सिद्धाभिधानप्रत्ययत्वात्, यत्र स्वत एव सिद्धाभिधानप्रत्ययत्वं तत्रान्यस्य सदभिधानप्रत्यय हे तोर्ना वकाशोऽस्ति,
"
Jain Education International 2010_04
5
कर्म वा स्यादित्याह तथा चेति । एवञ्च सामान्यस्यापि सदादिषडविशेषवत्त्वात् त्रयाणामेव तदुक्तिरयुक्तैवेत्याह- तस्मादिति । 20 एवञ्च सत्ताया द्रव्यगुणकर्मान्यतमरूपत्वे सिद्धे द्रव्यादेः स्वत एव सामान्यविशेषरूपतया न घटादिरूपं सत्वं स्वात्मानमन्यत्र सङ्कामयति न वा वसत्त्वं परतो लभत इति घटादिसत्त्वं स्वान्वयवृत्ति स्वान्यव्यतिरिक्तञ्च, अत एव तत् सम्पूर्णनिरतिशयम्, तस्मात् द्रव्यादेः स्वत एव सद्रूपत्वात् नास्य व्यतिरिक्ता सत्ता पश्चात् सत्त्वकरी विद्यते, सदभिधानप्रत्यययोः स्वत एव सिद्धत्वादित्याशयेनाह - अत एव चेति । तद्व्याचष्टे - एतस्मादेवेति सत्तासामान्यस्य द्रव्यगुणकर्मान्यतमखरूपत्वादेवेत्यर्थः । नास्य सत्तदिदमसदिति विगृह्यासच्छब्दं सतो द्रव्यादेर्यदसदिति व्यतिरिक्तसत्ताप्रतिषेधो वर्ण्यते तद्युक्तमेवेत्याशयेनाह - नास्येति, अस्येति 25 पदेन स्वरूपव्यापि सत्त्ववद्द्रव्यादौ नया प्रतिषेधवाचिना व्यतिरिक्तसत्ताया व्यवच्छेद्यताऽभ्युपगमादित्यभिप्राय इति भाति । सत्त्वं स्वसम्बन्धिद्रव्याद्यन्वयिनं व्याप्य वर्त्तते नान्यत्र च वर्त्तत इत्याशयेनाह - स्वान्वयेति, सजातीयासजातीयेतर खभावभूतमिति भावः । अत एवैतत् सम्पूर्णनिरतिशयमित्याह- अन्वयेति । भवतु सत्त्वं तादृक्, ततः किमित्यत्राह - तस्मात्तदर्थमिति द्रव्यं गुणः कर्म च सदेवेत्यवधारणार्थमित्यर्थः । अत एव चेत्यादिना सिद्धमेव तस्मात्तदर्थमित्यादिनोक्तत्वात् पौनरुक्तयमित्याशङ्क्याहइत्युक्तोपसंहार इति । पक्षसाध्यहेतुरूपेण तमेवार्थ साधयति - अत्रेति, उक्तोपसंहाररूपताया अभावेऽनुमानप्रदर्शनपरत्वं 30
१ सि. द्रव्यादन्य० डे. द्रव्याद्यन्यवादव २ सि. क. वानोन्यस्यात् । ३ क. तत्सामान्यं सत्ताख्यं द्रव्यम् । ४ सि. क. द्रव्यशून्यतम० । ५ क. निरूपितमित्यस्यानन्तरं नत्वन्वयव्यतिरेकवृत्तिच निरूपितमित्यधिकः पाठो दृश्यते ।
For Private & Personal Use Only
www.jainelibrary.org