________________
६४०
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे द्रव्यादौ कार्ये स्वभावतः सत्येव सत्तान्तरसम्बन्धे सत्त[ स]माधीयते तस्मात्सत्ता नारम्भिका, अस्या अनारम्भकत्वाच्चै न कारणमण्वादिवत् , अतो वैषम्यं दृष्टान्तदाान्तिकयोः, भावकत्वं वा तस्या नास्तीत्येतच्च न, तुल्यत्वात्-अनन्तरोक्तदैण्ड्यादिवद्विशेषणस्वरूपसदभिधानप्रत्ययानुमितसत्तासम्बन्धनिवृत्तेः, अभ्युपेयाप्यभावकत्वं सति सत्तान्तराधायित्वञ्च सत्ताया एवमपि कारणमेव ते सत्ता, सति सत्तान्त5 राऽऽधायित्वात् पटसत्ताऽऽधायितन्तुसंयोगवत्, यथा तन्तुभिः परस्परसंयोगापेक्षरारब्धे पटे सति तत्संयोगः सत्तासमवायज सम्बन्धसत्त्वमादधानः कारणं दृष्टः तथा सत्तापि स्यादिति ।
स्यान्मतमारम्भकाः परमाणवो न संयोगः, तस्माद्वैधर्म्यमित्येतच्चायुक्तम्
संयोगस्याप्यारम्भकत्वेष्टेः कारणत्वमात्रसाधनाद्वा न दोषः, अथ वा वृत्तसत्त्वातिरिक्तसत्वकरत्वात् कारणमेव, तन्त्वादिवत् , तथा च द्रव्याद्यन्यतमदेव तत्सामान्यम् , तस्मात् 10 सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवच्च, द्रव्यादिवत् ।
(संयोगस्येति) संयोगस्याप्यारम्भकत्वेष्टेः कारणत्वमात्रसाधनाद्वा न दोष इति, अथ वा वृत्तसत्त्वातिरिक्तसत्त्वरत्वात् कारणमेव, सत्तेति वर्त्तते, यस्माद्वृत्तस्य-निष्पन्नस्य कारणान्तरैः स्वभावसतः ततोऽतिरिक्त सम्बन्धसत्त्वं करोति सत्ता, तस्मात् कारणमेव, को दृष्टान्तः ? तन्त्वादिवत् , यथा वृत्त
सत्त्वं तन्तुत्वं तदतिरिक्तपटसत्त्वकरं कारणञ्च तथा सत्तेति, अथ वा यथा वृत्तस्य तन्तुभिरारब्धस्य पटस्य 15 जन्मोत्तरकालमपि सत्त्वं कुर्वन्तस्तन्तव एव संयोगापेक्षाः कारणं पटस्येष्यन्ते तथा सत्तापि वृत्तसत्त्वातिरि
एवेत्यनारम्भकत्वाद्भावकत्वमेव तत्र नास्तीति भावः । यथा सत्ता सतो नारंभिका तथा सतः सत्तान्तराधायिकाऽपि न स्यात्, तुल्यत्वात् ,-विनिगमकाभावात् , तथा चानुमित्या प्रोक्तया सत्ता न सिध्यतीत्याह-तुल्यत्वादिति । भावयितृत्वाभावं सति सत्तान्तराधानश्चाभ्युपेत्यापि कारणत्वमाह-एवमपीति, यथा तन्तुसंयोगः खकार्ये स्वरूपसति पटे सत्तासमवायजन्यं सत्त्वं पोषयन्
कारणं भवति तथा सत्ताऽपि कारणं स्यादिति भावः । अथ संयोगस्तन्तूनां नारम्भकोऽतो नोपादानं पटस्य, किन्तु परमाण्वादिरेवोपा20 दानमतः कारणमारम्भकत्वादिति तन्तुसंयोगवदिति निदर्शनमनुपपन्नमित्याशङ्कायां समाधानमाह-संयोगस्यापीति, संयोगस्यासम
वायिकारणस्यापि आरम्भकत्वं द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्य वदतां भवतामिष्टमेवेति भावः । अथ वा नात्रोपादानत्वलक्षणं कारणत्वं साध्यमपि तु कारणत्वमात्रमतो न वैधर्म्यमित्याह-कारणत्वेति । हेतुरपि नारम्भकत्वरूपं भावकत्वं साध्यहेत्वोरैक्यात् तस्मात् हेत्वन्तरं दर्शयति-अथ वेति, सत्ता कारणम् , वृत्तसत्त्वातिरिक्तसत्त्वकरत्वात् , तन्त्वादिवत् इत्यनुमानम् ।
हेत्वर्थमाह -यस्मादिति प्रतिनियतकारणैरारब्धे स्वरूपसति कार्य सत्ता खसम्बन्धात् सत्त्वं करोतीति भावः। दृष्टान्तं स्फुटीकरोति25 यथेति, आश्रयैरुपचरितभेदा सत्तेव तन्तुपटादिषु तन्तुत्वपटत्वादिरूपा यथा गोः सत्ता गोत्वं, अश्वस्य सत्ताऽश्वत्वं
सत्ता तन्तुत्वं पटसत्ता पटत्वम् , जाते_भिव्यक्तिर्व्यक्त्यधीना, तस्मात् खाश्रयकारणानां प्रयोजककी, कार्योत्पत्ती कारणानां सहकारिणी, नैयायिकैरपि कार्यतायाः प्रतिनियतधर्मावच्छिन्नत्वे कारणतायाः प्रतिनियतधर्मावच्छिन्नत्वस्य प्रयोजकत्वाभ्युपगमात्, तस्मात् वृत्तसत्त्वं तन्तुत्वं पटसत्त्व-पटत्वं करोति, एवं च तन्तुनिष्ठा सत्तापि पटनिष्टसत्त्वकरीति भावः । वृत्तसत्त्वस्य कारणनिष्पन्नस्य खरूपसतः पटस्योत्पत्त्यनन्तरं सत्तासमवायज सत्त्वं तन्तवः कुर्वन्ति तथा सत्तापीत्याह-अथ वेति । तदेवं सत्तायाः कार30 णत्वे सिद्धे यत्कारणं तद्रव्यगुणकर्मान्यतमद् दृष्टम् , यथा परमाणवः तत्समवायिनः संयोगविभागादयः क्रियाश्च, उक्तञ्च 'सदनियं
द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः' इति त्रयाणां कारणत्वमतः सत्तापि कारणत्वात् द्रव्यं गुणः
१ सि. क. तया सत्तया नारंभिकास्य । २ सि. क. 'त्वाच्चारणमाणादिवदतो। ३ सि. क. दध्यादिवः । ४ सि. क. सत्वकारणत्वात् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org