________________
सत्तायाः कारणत्वम्] द्वादशारनयचक्रम्
६३९ स्वत इत्यर्थः, ततः किं ? तत इदं भवति यच्च भाव्यमानं सद्भवति तदारम्भकेभ्यो भवति-कारणद्रव्यादिभ्य इत्यर्थः, साध्यानुगतसाधनवचनात् साधर्म्यदृष्टान्त एषः, तन्निदर्शनं हेतुनाऽव्यवहितं प्रतिपत्तिलाघवार्थं द्रव्याद्यारब्धद्रव्यान्तरादिवदिति-यथा द्रव्यगुणकर्मभिर्द्रव्यगुणान्तराण्यारभ्यन्ते, कर्म च गुणैः संयोगविभागप्रयत्नगुरुत्वसंस्कारादृष्टैः, तथा सत्तयाऽऽरभ्यते सत्कार्यम् , हेतुरत्र-भाव्यमानभवितृत्वादिति व्याख्यातार्थः, तस्मात्तस्यामवस्थायामसत्तद्रव्यादिकार्य, असत्सदिति च ब्रुवतः स्ववचनविरोधोऽनुमान- 5 विरोधश्च, प्रत्यक्षाभ्युपगमरूढिविरोधा अपि योज्यास्तथैव, एवं तावत् द्रव्यादिकार्यमुत्पत्त्यवस्थायां खत एवास्तीतीष्टमपि सत्तासम्बन्धाद्भवितृत्वादसदेवेत्युक्तम् ।
न केवलं द्रव्यमेवासत्तदा, किं तर्हि ? सत्तापि च नास्तीत्यापादयिष्यते हेतुसद्भावेन कारणत्वादिभ्यः, कारणत्वं तावत्
सत्तापि च कारणं भावकत्वात् आरम्भकवत् , सति सत्तान्तराधानमिति चेन्न, तुल्य-10 त्वात् , एवमपि कारणमेव ते सत्ता, सति सत्तान्तराधायित्वात् , पटसत्ताधायितन्तुसंयोगवत् ।
(सत्तापि चेति) कारणत्वं तावत्-सत्तापि यदि द्रव्यादेः कार्यस्य भवतो भाविका तत उक्तविधिना कारणं भावकत्वात्-भावयितृत्वादित्यर्थः 'तसिलादिष्वाकृत्वसुचः' (पा० ६-३-३५) इति पुंवद्भावात् , आरम्भकवादिति, पटस्य तन्त्वादिवदिति वक्ष्यते, इह तु सामान्येन, यथा आरम्भकाः परमाणवः तत्समवायिनः संयोगविभागाः अदृष्टादिगुणाश्च सापेक्षनिरपेक्षाः क्रियाश्चा- 15 दृष्टादिहेतुकाः, कारणानि भावकानि यथासम्भवं व्यणुकादिकार्यद्रव्याणां गुणानां कर्मणाञ्च, तथा सत्तापि कारणमिति, सति सत्तान्तराधानमिति चेत्-स्यान्मतं स्वयमुत्पन्ने समवाय्यसमवायिकारणारब्धे
प्रसिद्धः कस्य विशेषरूपेणात्मलाभ इति भावः । स्यादेवं को दोष इत्यत्रानुमानविरोधमुद्भावयितुं सहचारदर्शनमाह-यच्चेति, भाव्यमानभवनं हेतुः, आरम्भकेभ्यो भवनं साध्यम् , एवञ्च साध्येनानुगतस्य हेतोर्बोधकत्वाद्वचनमिदं साधर्म्यदृष्टान्तपरमिति भावः । हेतुमुदीर्य निदर्शनं प्रदर्शनीयं प्रतिज्ञाहेतूदाहरणादिरूपतः क्रमसद्भावात् , तत्कथं क्रममुल्लंघ्यानभिधाय हेतुं निदर्शनमुच्यत इत्या- 20 शक्ष्याह-तन्निदर्शन मिति । यथेति-एकस्मिन्नेव द्रव्ये समवायिकारणे द्रव्यगुणकर्माणि जायन्ते गुणाच्च द्रव्यगुणकर्माणि भवन्ति, वढ्यादिनोदनाभिघातगुरुत्वद्रवत्वसंस्कारादृष्टवदात्मसंयोगप्रयत्नवदात्मसंयोगाद्यसमवायिकारणकत्वं कर्मण इति दृष्टान्तार्थः। एवं सत्कार्यमपि सत्तयाऽऽरभ्येतेत्याह-तथेति । हेतुं दर्शयति-भाव्यमानेति, भाव्यमानञ्च तत् भवितृ च-भाव्यमानभवित तस्य भावस्तस्मादिति विग्रहः, सत्तया भाव्यमानत्वे सति भवितृत्वादित्यर्थः । एवञ्च सत्तासम्बन्धादेव सत्त्वनियमे सत्तासम्बन्धात् प्राक् कार्यस्यासतः सत्त्ववर्णनमुक्तानुमानविरोधित्वात् ववचनविरुद्धमित्याह-तस्मात्तस्यामिति । एवं पर्यवसितार्थमाह-एवं 23 तावदिति । स्वत एवास्तीति-स्वरूपसदिति, यथा द्रव्यस्य सत्तासम्बन्धाद्भवितृत्वात् असत्त्वमुक्तं तथा सत्तापि कारणत्वादिहेतुसद्भावेनासतीत्यग्रे निरूपयिष्यन् कारणत्वादिहेतून् तत्र प्रदर्शयति-सत्तापिचेति। भवतो द्रव्यादेः सत्ताया भावकत्वे यद्भावकं तत् कारणमित्यविनाभावात् सत्ता कारणम् , आरम्भकाणि परमाण्वादीनि यथा व्यणुकादेभावकत्वात् कारणानि भवन्ति तथेत्याह-सत्तापि यदीति । के आरम्भका इत्यत्राह-आरम्भका इति । तत्कार्याण्याह-यथासम्भवमिति । ननु स्वकारणेभ्यः समुत्पन्ने खरूपसत्येव कार्य सत्ता सत्त्वमुपकल्पयति, न तु सद्रूपं कार्यमुत्पादयतीति न कारणं सत्तेति शङ्कते-सतीति । तयाचष्टे-स्यान्म-30 तमिति, यथा परमाण्वादय आरम्भकत्वात् कारणानि भवन्ति न तथा सत्ता कारणमनारम्भकत्वात् ततश्चारम्भकदृष्टान्तो विषम
१सि. क. कारणत्वात्तद्वत् । २ सि. क. डे. धानं नेति ।
द्वा० न० ४ (८१)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org