________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[ विधिनियमोभयारे
रमाण्वादिद्रव्यविशेषाः स्वजात्यपरित्यागेन युगपदयुगपच्च भवन्ति द्रवन्ति द्रूयते भूयते तैरेवेत्युक्तम्, तस्माद्बहुव्रीहावपि नासत्, सदेवेति प्रस्तुतोपनयः, यथोक्तं 'अत्थित्तं अस्थित्ते परिणमति' इति 'णत्थित्तं णत्थित्ते परिणमति' (भ० श० २ ) इति, तस्मात् सम्पूर्णनिरतिशयं सदसद्वेति, तस्मादसत्कार्यं न सत्तया सम्बध्यते सत्वाभावात्, असम्पूर्ण सदसत्त्वाभावादित्युक्तम् ।
5
६३८
तथा
स्ववचनविरोधादेः सदप्यसत्, सत्तासम्बन्धरहितत्वात्, सत्तासम्बन्धश्च सदिति लिङ्गात् सदभिधानप्रत्ययदर्शनादनुमीयते, अतः सत्तासम्बन्धात् सद्भवतीत्युक्तं भवति सत्तासम्बन्धेन च भाव्यमानं सद्भवतीति, ततो यच्च भाव्यमानं सद्भवति तदारम्भकेभ्यो भवति, द्रव्याद्यारब्धद्रव्यान्तरवत्, भाव्यमानभवितृत्वात्, तस्मात्तस्यामवस्थायामसत् तत् सदिति च ब्रुवतः 10 स्ववचनविरोधोऽनुमानविरोधश्च ।
wwwwww
स्ववचनविरोधादेः सदस्य सदिति यदपि सदिति द्रव्यादिकार्यमिष्टं तदपि स्ववचनविरोधादेर्दोषादसदेव जायत इति पक्षः, स्ववचनादिविरोधाश्चानुमानविरोधद्वारेणैवोद्भावयिष्यन्ते, सत्ताऽभावात्, तस्यासत्त्वे हेतुः:- सत्तासम्बन्ध रहितत्वात्, सत्तायाः सम्बन्धमनुभूय सदित्यभिधानं प्रत्ययञ्च लभते कार्यम्, विशेषणस्वरूपाभिधानप्रत्ययभाक्त्वाद्विशेष्यस्य, दण्डनिमित्तदण्ड्यभिधानप्रत्ययभाग्देवदत्तवत्, सत्तास15 म्बन्धश्च सेदिति लिङ्गात् सदभिधानप्रत्ययदर्शनादनुमीयते, अतः सत्तासम्बन्धात् सद्भवतीत्युक्तं भवतीति परमतसमर्थनमेव तावदेतत् तस्मात् सत्तासम्बन्धेन भाव्यमानं सद्भवति-परत आत्मलाभं लभते न
www
www.www.
Jain Education International 2010_04
परमाणुरेव तथा तथा भवतीति द्रव्यगुणयोः समता प्रदर्शिता । एवञ्च कार्यस्य द्रव्यादेर्बहुव्रीहिणाप्यसत्त्वं न वक्तुं शक्यमित्युपसंहरति-तस्मादिति । सदसत्त्वयोर्विकल्पवत्त्वानुपपत्तेः कार्यं प्राक् स्वरूपसत् पश्चात् सत्तासम्बन्धात् सद्भवतीत्ययुक्तमित्याहतस्मात् सम्पूर्णेति । एवं सत्त्वासत्त्वयोः सम्पूर्णनिरतिशयस्वात्मकत्वे सिद्धेऽसतः सत्त्वोक्तिस्ते स्ववचनविरोधाय भवतीति 20 प्रदर्शयति-स्ववचनेति द्रव्यादिकार्यं त्वया सदितीष्टं सन्न भवति स्ववचनविरोधादिदोषात् कथं स्ववचनविरोधादिदोष इत्यत्राह - स्ववचनादीति । उद्भावनायां हेतुमाह-सत्ताऽभावादिति । सत् कथं स्यादित्येतत्तन्मतेन दर्शयति- सत्ताया इति ननु द्रव्यमविशिष्टं पृथिवीजलतेजोवाय्वादिघटपटादिरूपेण ज्ञायतेऽभिधीयते च नेमे प्रत्ययाभिधाने निर्निमित्ते भवितुमर्हत इति तन्निमित्ततया पृथिवीत्वजलत्वादयो धर्मा अभ्युपेयाः येषां सम्बन्धमनुभूय तदेव द्रव्यं पृथिवीत्वजलत्वादिप्रकारेण प्रत्ययं तदनुकूलाभिधानञ्च लभते नान्यथा - तथैव द्रव्यस्य सदिति प्रत्ययाभिधाने अपि सत्तासम्बन्धमनुभूयैव भवतः, यथा 25 देवदत्त एक एव दण्डछत्रकुण्डलादिसम्बन्धमनुभूय दण्डी छत्री कुण्डलीत्यादिप्रत्ययं व्यपदेशञ्च लभत इति भावः । सत्तासम्बन्धः कथमित्यत्राह-सत्तासम्बन्धश्चेति 'सदिति यतो द्रव्यगुणकर्मसु सत्ता' (वै० अ १ आ० २ सू० ७ ) 'इहेदमिति यतः कार्यकारणयोः स समवायः' (वै० अ० ७ आ० २ सू० २६ ) इति सूत्राभ्यां द्रव्यादिषु त्रिषु यतः सत् सदिति प्रत्ययः, तथाविधः शब्दप्रयोगो वा सा सत्ता, इह द्रव्यादौ सत्तेति बुद्धेः सम्बन्धव्यतिरेकेणोत्पादायोगात् कश्चिदस्ति सम्बन्ध इत्यनुमीयते कुण्डदनोः संयोगविशेषवदित्यर्थाभ्यां सत्तासम्बन्धसिद्धिरिति भावः । एतेन फलितार्थमाह- अत इति, एवञ्च सत्तास30 म्बन्धेनैवेदं द्रव्यादि सद्रूपेण भाव्यते नान्यथेति त्वदीयोऽभिप्राय इति भावः । इदमेव धर्मित्वेन प्रदर्शयति - तस्मात् सत्तासम्बन्धेनेति । तत्तात्पर्यं दर्शयति-परत इति सामान्यरूपेण लब्धात्मलाभस्यैव विशेषरूपेणात्मलाभसम्भवात्, अन्यथा धर्म्य -
१ सर्वत्र तत्र भावात् । २ सर्वत्र सन्निहिता लिङ्गात् ।
Ww
For Private & Personal Use Only
www.jainelibrary.org