________________
अगुणदृष्टान्तनिरासः ]
द्वादशारनयचक्रम्
( गुण इति) ययुक्तं द्वितीयमुदाहरणं तत्रैव गुणोऽगुण इति शास्त्रीयं तदपि गुणभूतोऽप्रधानो द्रव्याश्रय्युपसर्जन इतीष्टोऽयमर्थो [ गुणशब्दस्य ] न भवति, किं तर्हि ? स्वतंत्र [:] प्रधानं द्रव्यमेवेति, उत्तरपदाभिधेयनिवारणार्थत्वान्ननः, न तु नास्य गुणोऽस्तीत्यगुणो गुणः, तस्य हि रूपादेः परस्परतोऽन्यरसादिगुणकस्य गुणसद्भावात्, सत्त्वादेर्वा गुणसन्द्राववादे गुणवत्त्वात्, गुणभावो - गुणस्य गुणत्वमेव प्रतिषिध्यते न गुणसम्बधः स चेष्टो - गुणसम्बन्धः, युगपद्भाविता रूपरसगन्धस्पर्शसंख्यानादीनां गुणानां 5 सम्बन्धः, अयुगपद्भाविमृत्पिण्डशिवकस्था सकादीनामयुगपद्भाविता, कृष्णनीलशुकरक्तादिवर्णादिभेदानामयुगपद्भाविता विशेषगुणानामिति, तथा सत्त्वादीनामङ्गाङ्गिभावेन युगपद्भाविता, महदहङ्कारतन्मात्रादीनामयुगपद्भाविता चेति, कस्मात् ? भवनलक्षणद्रव्यत्वात् - द्रव्यश्च भव्ये (पा. ५-३-१०४ ) भवतीति [ भव्यं ] द्रव्यं भवनसम्बन्धयोग्यं, गुणाः सन्द्रुत्यैव तिष्ठन्ति भवन्ति द्रवन्ति इति, गुणयन्ति गुण्यन्ते द्रूयन्ते ज्ञायन्ते चेत्येक एवार्थ इति, सङ्ग्रहवादवद्वा-यथा वा सङ्ग्रहनयवादे सर्वस्य सर्वात्मकत्वात् त एव रूपप- 10
चष्टे - यदत्युक्तमिति । अत्रोद्देश्यभूतो गुणशब्दो यस्यार्थो भवद्भिरप्रधानो द्रव्याश्रयीत्यादिरुच्यते न तदर्थः, किन्तु सः स्वतंत्र प्रधानं द्रव्यमेवाह, अगुण इत्यत्रोत्तरगुगपदाभिधेयार्थनिरसनपरत्वान्नञ इत्याह-गुणभूत इति, रज्जुभूतः, यद्धि प्राधान्येनोच्यते तद्द्रव्यं न तस्य प्रकर्षाप्रकर्षौ स्तः किन्त्वाश्रितैर्भेदहेतुभिः परतंत्रैः संसर्गिभिः प्रकृष्यते शुक्लः पट इत्यतोऽयं गुणभूतः, अप्रधानःअवच्छेदकरूपेण प्रतीयमानः, द्रव्याश्रयी - आधारेणाभिन्नबुद्धिप्रयोजकसमवायेन सम्बन्धी, उपसर्जनं विशेषणं, स्वरूपेण परमुपरजयद्विशेषणमुच्यते, एवंविधो गुणपदार्थो भवतामिष्टः सोऽत्र न सम्भवतीत्यर्थः । अगुणो गुण इत्यत्र हि उद्देश्यभूतो गुणशब्दार्थो 15 गुणभूततया नावच्छेदकतयाऽऽश्रयितयोपसर्जनतया वा प्रतीयते किन्तु तत्तद्धर्मैरवच्छेद्यत्वेन विशेष्यत्वेनान्वयित्वेन च प्रतीयतेऽतोऽसौ स्वतंत्रः प्रधानं द्रव्यमेवेत्याह-स्वतंत्र इति । यदि रूपादिर्गुणपदेन गृह्यतेऽगुण इत्यत्र च बहुव्रीहिराश्रीयते तदाऽघटितार्थो दृष्टान्तः स्यात्, द्रव्यं हि घटादि रूपरसगन्धस्पर्शवत्, तथा च रसादेः घटादिनेव रूपेणापि सम्बन्धस्य सद्भावात् कथं गुणसम्बन्धप्रतिषेधो गुणे युज्येतेत्याशयेनाह - तस्य हीति, यस्य गुणस्य भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलाविति पातञ्जलमहाभाष्ये शब्दस्पर्शरूपरसगन्धा गुणास्ततोऽन्यद्रव्यमित्यभिधाय पश्चात् अन्वर्थं खल्वपि निर्वचनं गुणसन्द्रावो द्रव्यमिति द्रव्यलक्ष- 20 णमुक्तम्, गुणाः सन्द्र्यन्ते मिश्रीक्रियन्ते इति गुणसन्द्रावः 'समियुद्धदुवः' (पा. ३-३-२३ ) इति घञ् गुणसमूह इति फलितोऽर्थः, अत्र गुणशब्दः समूहावयववाचीति बोध्यम् । प्रकृते तु सांख्यसम्मतसत्त्वादिगुणसमुदायद्रव्याभिप्रायेणाह - सत्त्वादेर्वा गुणसन्द्राववाद इति सत्त्वरजस्तमसां सन्द्रावो द्रव्यमिति वादेऽपि सन्द्रावघटकसत्त्वादेर्गुणस्य रज आदिगुणान्तरसम्बन्धसत्त्वात् गुणे गुणसम्बन्धप्रतिषेधो न युक्त इति भावः । तदेवमुद्देश्यभूतगुणशब्दस्य द्रव्यार्थतामुक्त्वा प्रतिषेध्यमाह-गुणभाव इति । गुणानां रूपरसादिसामान्यगुणानां सहभावितैव परस्परं सम्बन्धः, विशेषगुणानाञ्च कृष्णनीलशुक्लादीनां तथा मृत्पिण्डशिवकादीनां विशे- 25 षाणामयुगपद्भावित्वमस्तीति न गुणसम्बन्धः प्रतिषेध्य इत्याह-न गुणसम्बन्ध इति । गुणसन्द्रावद्रव्यवादे गुणानां सम्बन्धं दर्शयति-तथेति । गुणक्रियादिभावेन युगपदयुगपद्भाविपर्यायरूपेण भवनवरूपत्वाद्द्रव्यस्य न गुणसम्बन्धः परिहार्य इत्याशयेन हेतुमाह-भवनलक्षणेति भवनेन हि द्रव्यं लक्ष्यते इति भावः । इदमेव लक्षणं द्रव्यशब्दव्युत्पत्त्याऽऽविर्भावयति द्रव्यश्चेति, भव्येऽर्थे शब्दात् स्वार्थे प्रतिकृतिरूपे यत्प्रत्ययो निपात्यते, दुरिव द्रव्यं भव्यमित्यर्थः, भव्यमिति च ' भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापाल्या वा' ( पा० ३-४-६८ ) इत्यनेन कर्त्तरि वा निपात्यते भवतीति भव्यं द्रव्यं तदर्थश्च भवनसम्बन्धयोग्यमिति भावः । गुणसन्द्रावो 30 द्रव्यमिति लक्षणाभिप्रायेणाह - गुणा इति, तिष्ठन्तीति गतिनिवृत्तिलक्षणं स्थितिमात्रं न विवक्षितमपि तु भवन्ति - उत्पद्यन्ते, द्रवन्ति - गच्छन्ति - विनश्यन्ति चेति उत्पादव्ययध्रौव्यात्मकत्वमुक्तं, अनेनापि भवनलक्षणद्रव्यत्वं फलितम्, गुणशब्दार्थमाहगुणयन्तीति । सङ्ग्रहनयापेक्षया द्रव्यमेव युगपदयुगपद्भावितया परिणमतीत्याह-सङ्ग्रहवादवद्वेति, रूपमेव तथा तथा भवति
१ सि. क. 'तादिशे० ।
Jain Education International 2010_04
६३७
For Private & Personal Use Only
www.jainelibrary.org