________________
६३६
न्यायागमानुसारिणीव्याख्यासमेतम्
[ विधिनियमोभयारे
5
मित्यादि यावत् सम्भवसामर्थ्यादिति, तद्विव्रियते यदपि सत एवासत्त्वप्रतिपादनार्थं दृष्टान्तत्वेनोक्तं नास्य पुत्रोऽस्तीत्यपुत्रो न तु पुत्रो न भवतीति तस्यान्यपुत्रत्वादिति तदपि नातिगमितार्थमिति, दाक्षिण्यवचनमेतत्, मानिष्ठुरं वोचमिति, कथमगमितार्थं ? यस्मादत्रापि पुत्रान्तरसम्बन्धो न प्रतिषिध्यते, अस्य स्वामिपुत्रादेर्दृष्टत्वात् नास्य पुत्रोऽस्तीति बहुव्रीहिसमासार्थस्य प्रत्यक्षविरुद्धस्यासम्भवात् किं तर्हि वक्तव्यं ? नञ् उत्तरपदाभिधेयनिवारणार्थः, तत्पुरुषसमाससम्भवसामर्थ्यात् यथा भिक्षां देहि, देहीति गृहबहिरन्तस्थयोर्याचकदायकयोर्योच्यादापनसम्भववत् को भिक्षां ददातीति प्रश्ने प्रत्याख्यानदानसम्भववत्, गवाक्षे गाव इत्यादित्यकिरणसम्भववद्वा उत्तरपदाभिधेयसम्भवः, स्वयमेवासौ पुत्रो न भवतीत्युक्तं भवति तच्च वक्ष्यते, तस्मान्नास्य पुत्रोऽस्तीत्यपुत्र इत्ययुक्तो दृष्टान्तः, अभ्युपगम्य बहुव्रीहिं- बहुव्रीहावपि पुत्रात्मकत्वमेव प्रतिषिध्यते नचा, न पुत्रान्तरसम्बन्धः, कस्मात् ? अतद्द्रव्यत्वात् तद्रव्यं तत्कारणं तद्वीजं परिणम्यस्य तदिदं 10 तद्द्रव्यं, न तद्द्रव्यमतद्द्रव्यं तद्भावादतद्रव्यत्वात् स्वयं पुत्रीभावपरिणामशून्यत्वात्, स्वयं पुत्रत्वेनानुत्पित्सुत्वादित्यर्थः खपुष्पवदिति गतार्थम्, यथोक्तं [अ] गणि झूसिता [ अगणिसेविया ] अगणिपरिणामिता अगणि[जीव]सरीरेति वत्तव्वं सिय'त्ति ( भ० श०५ उ. २ सू. १५) तथाऽन्योऽप्यन्वाह - अङ्गादङ्गात् सम्भवसि [बृ० उ. ६-४-९, कौ० उ. २- ११] इत्यादि, तान्येव पितुः शुक्राद्यङ्गानि पुत्राङ्गत्वेन परिणमन्ति क्षीरदधित्ववत्, हृदयादभिजायसे इति प्रज्ञाऽपि सैव पुत्रस्य या पितुः, अश्वादिप्रज्ञाया मनुष्यादिष्वभावात् । गुणगुण इति गुणभाव एव प्रतिषिध्यते, न गुणसम्बन्धः, स चेष्टः युगपदयुगपद्भाविता, भवनलक्षणद्रव्यत्वात्, सङ्ग्रहवादवद्वा तस्माद्बहुव्रीहावपि नासत्, सदेव तस्मात् सम्पूर्णनिरतिशयं सदसद्वा ।
15
दर्शयति-यदपीति । कुतो न तत्पुरुष इत्यत्र हेतुं पूरयति - तस्येति, स्वयं स्वपितुः पुत्रत्वात् पुत्रो न भवतीति तत्पुरुषो नेष्ट इति भावः । तदेतन्मतं निरस्यति-नातिगमितार्थमिति त्वदीयमिदं वचनं नातिशयेनार्थं गमयतीत्यर्थः । किमर्थं तदपि न समीची20 नमित्याद्यनुक्त्वा नातिगमितार्थमित्युक्तमित्यत्र कारणमाह- दाक्षिण्येति । अत्रापीति, बहुव्रीहावपीत्यर्थः, तत्पुरुष इवात्रापि पुत्रात्मकत्वमेव नञा प्रतिषिध्यते, न त्वन्येन पुत्रेण साकमस्य सम्बन्धो निषिध्यते, इदंशब्दवाच्यपुरुषस्य सेवकत्वे स्वामिनः पुत्रेण, अध्यापकत्वे शिष्यलक्षणपुत्रेण सम्बन्धसद्भावात् कथं प्रत्यक्षविरुद्धमर्थं बहुव्रीहिः बोधयेदिति भावः । तर्हि कथं सोऽपुत्रशब्देनोच्यत इत्यत्राह नञ इति, अपुत्र इत्यत्र नम् उत्तरपदार्थ पुत्रमेव प्रतिषेधति, तत्पुरुषसमासार्थस्यात्र सम्भवादिति भावः । नहि लघु सम्भवदर्थं तत्पुरुषसमासं परित्यज्य गुरुः प्रत्यक्षविरुद्धार्थो बहुव्रीहिर्युक्तः कर्त्तुमित्याशयेनाह - तत्पुरुषेति । सम्भवदर्थ कनि25 दर्शनान्याह - यथेति । अपुत्रशब्दार्थमाह-स्वयमेवेति स्वयं पुत्रत्वेन न परिणमतीत्यर्थः । अयमर्थोऽतद्द्रव्यत्वादित्यनेनानुपदमेव वक्ष्यत इत्याह-तच्चेति । तुष्यतु दुर्जन इति न्यायेनाह - बहुव्रीहावपीति । पुत्रपरिणामस्यायं न द्रव्यं कारणं बीजं वा यतोऽतो नायं पुत्रात्मकः, न पुत्रः पुत्रलक्षणपरिणामोऽस्यासौ अपुत्रः, परिणामपरिणामिनोरभेदादभेदे षष्ठीति पुत्रात्मकताया एवात्रापि प्रतिषेधो नञा क्रियते, न पुत्रान्तरसम्बन्धस्येति साधयति-भतद्द्रव्यत्वादिति, तच्च तत् द्रव्यञ्च तद्द्रव्यमिति कर्मधारयः, सः परिणामस्य द्रव्यमित्यर्थः, तस्य वा परिणामस्य द्रव्यं तद्द्रव्यमिति वा, न तु तत् द्रव्यमस्य तत् तद्द्रव्यमिति बहुव्रीहिः, तथा 30 सति अतद्द्रव्यत्वादिति व्यधिकरणं स्यादिति ध्येयम् । अत्रार्थे आगमं प्रमाणयति- 'अगणि' इति । द्रव्यादेः सात्मकनिरात्मकत्व - चर्चायां वादिना यद् द्वितीयमुदाहरणं शास्त्रीयं प्रदर्शितं तदपि न सङ्गतार्थमिति दर्शयितुमाह-गुणोऽगुण इतीति । तक्ष्या
१ सि. डे. अन्यस्य । २ सि. क. तस्य । ३ सि. क. योसादापन० । ४क. णामस्य । ५ सि. डे. अपं स्वयं । ६ सि. क. तथाव्यत्योष्यत्वाह । ७ सि. प्रज्ञापिष्मेव ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org