SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अपुत्रदृष्टान्तनिरासः ] द्वादशारनयचक्रम् ६३५ दृष्टान्तो वक्ष्यते, हेतोरस्य व्याख्या - सजातीयासजातीयेतरस्वभावभूतत्वात् - घटस्य सजातीयानि घटान्तराणि, असजातीयानि पटादीनि तेभ्य उभयेभ्य इतरोऽन्यो घटः सजातीयासजातीयभिन्नो देशकालाकारप्रमाणरूपादिभेदात्, नन्वेवं सजातीयासजातीयभिन्नत्वे स्वकारणेभ्योऽपि भिन्नत्वात् प्रागसत्त्वमेव प्राप्तं कार्यस्यैतच्चायुक्तम्, स्वभावभूतत्वादिति विशेष्योक्तत्वात्, स्वसमवायिकारणभूतपरमाणुद्व्यणुकादिरूपरसाद्यात्मकपरिणामस्वभावेनैव भूतत्वादिति तद्भावानतिक्रम एवैवं व्याख्यातो भवति, किञ्चान्यत् - सुचिरादपि 5 तत्तत्त्वात्-देशकालाकारादिभेदे सत्यपि मृत्पिण्डाद्यवस्थासु मृदवस्थागतरूपादिखरूपानतिवृत्तेः परमाणुरूपादितत्त्व एव घट:, तस्मादन्यथा भवनेऽपि तदनन्यथाभवनमेव, किमिव ? दृढीभूतघटवत्, यथा मालवनगरे घटो दृढीभूतः आर्द्रादिसामिशुष्कनवयुवमध्यमपुराणाद्यवस्थास्वन्यथा भवनेऽपि घटत्वमनतिक्रामन् सप्तसु वर्षशतेषु नीतेष्वपि स एव तथा भवति, एवं तदपि कार्यं द्रव्यादीति । किञ्चान्यत् यदपि च दृष्टान्तत्वेनोक्तं नास्य पुत्रोऽस्तीत्यपुत्रो न तु पुत्रो न भवतीति प्रतिषिध्यत इति, इदमपि नातिगमितार्थ, अत्रापि हि पुत्रान्तरसम्बन्धो न प्रतिषिध्यतेऽस्य स्वामिपुत्रादेर्हष्टत्वात्, नञ् उत्तरपदाभिधेयनिवारणार्थः, तत्पुरुषसमाससम्भवसामर्थ्यात्, बहुव्रीहावपि पुत्रात्मकत्वमेव प्रतिषिध्यते नञा, अतद्द्रव्यत्वात्, स्वयं पुत्रीभावपरिणामशून्यत्वात् खपुष्पवत्, यथोक्तं 'अगणिझूसिता अगणिसेविया अगणिपरिणामिता अगणिजीवसरीरेति वत्तव्वं सिय 15 त्ति' ( भ० श० ५ उ. २ सू. १५ ) तथाऽन्योऽप्यन्वाह 'अङ्गादङ्गात् सम्भवसि हृदयादभिजायसे' ( कौ० उ० २ - ११ ) इति । यदपि चेत्यादि पूर्वपक्षप्रत्युच्चारणं यावत् प्रतिषिध्यत इति, तदुत्तरं - इदमपि नातिगमितार्थ - प्रागसत्त्वेऽपि कारणगतमृत्तत्त्वाद्यनतिक्रान्तत्वस्याभ्युपगमेन कथं कारणाभेदात् प्राक् सत्त्वसिद्धिरित्याशङ्कायाममुं हेतुं व्याकरोति 20 सजातीयेति, सजातीयासजातीयभिन्नत्वे सति स्वभावभूतत्वात् द्रव्यमेव तेन तेन रूपेण भवतीत्युत्पत्तिप्राक्कालीनं घटादिरूपं द्रव्यमेव घटान्तराद्भिन्नं पटादिभ्यो भिन्नं सत् स्वासाधारणरूपरसात्मक परिणाम स्वभावेन तथा तथा भवति कार्यात्मना, तथा च पूर्वं घटादिद्रव्यादेरभवने तथा न भवेदेवेति भावः । सत्यन्तं व्याचष्टे - घटस्येति, घटादिखसजातीयेभ्यो घटान्तरेभ्यो देशकालाकारप्रमाणरूपादिभेदाद्धटादिद्रव्यं यतो भिन्नं यतश्च स्वविजातीयेभ्यः पटादिभ्यो भिन्नमतः कथं सजातीयात् विजातीयाद्वा भवेत्, येनोत्पत्तेः प्राक् तदसद्भवेत्, तस्मात्तत्प्रागपि सदेवेति भावः । विशेष्यपदसार्थक्याय शङ्कते - नन्वेवमिति, नन्वेवमपि प्राक्कालीनात् 25 स्वसजातीयात् कारणादपि घटादिकार्यं भिन्नमेव, केनचिद्रूपेणेति कथं प्राक् तत् सदिति भावः । कारणं न स्वस्माद्भिन्नमित्याशयेन विशेष्यदलार्थमाह-स्वभावभूतत्वादिति । ननु कार्यकारणयोर्देशकालाकाररूपादिभेदो दृश्यत इति कथं स्वभावभूततेत्यत्र हेत्वन्तरमाह - सुचिरादपीति, मृत्पिण्डस्थास को शकुशूलघटादिषु देशकालाकारादिभेदो यद्यप्यस्ति तथापि मृत्तत्त्वं सर्वत्राविच्छि नमतो मृत्तत्त्व एव घटादिरिति भावः । उपसंहरति- तस्मादिति । निदर्शनमाह-दृढीभूतेति, अन्यनगरीयघटादौ सुचिरादपीत्यंशो न सञ्जघटीतीति मालत्रनगर गतघट विशेषस्य दृष्टान्तता बोध्या । ननु 'नन्वसदित्युत्तरपदाभिधेयनिवारकत्वात् कथमस्य 30 सात्मकत्वं' इत्यत्र 'न, अनेकान्तात्, नास्य सदित्यसत्, न स्वयमसत् यथा नास्य पुत्रोऽस्तीत्यपुत्रः, न तु पुत्रो न भवतीति प्रतिषिध्यते' इति यदुक्तं वादिना तन्निराकरणार्थमाह-यदपि चेति । अपुत्रशब्दो बहुव्रीहिर्न तु तत्पुरुष इति पूर्वपक्ष १ सर्वप्रतिषु अन्यथाभूतत्वान्नेते चेत् बाध्यता कार्य प्रागसत्त्वात् खपुष्पवदिति विपर्ययेणानिष्टापादनसाधनम् भवदेव हि भवति प्रत्यक्षं तन्तुभ्योऽन्यथा० । Jain Education International 2010_04 10 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy