________________
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे तथा च द्रव्यादीनि प्राक् सन्तीत्यादि, अत्रानुमानं यस्यामवस्थायामुत्पन्नमात्राणि द्रव्यादीनि सन्त्येव सत्तयाऽभिसम्बध्यन्ते इतीघ्यंते तस्या अवस्थायाः प्रागपि सन्तीति प्रतिज्ञा, तस्यामवस्थायां सत्तयाभिसम्बध्यमानत्वात् , यस्यामवस्थायां सत्तयाऽभिसम्बध्यन्ते तस्या अवस्थायाः प्रागपि सन्त्येव दृष्टानि यथोत्पत्त्युत्तरकालं सैत्तयाऽभिसम्बध्यमानानि उत्पत्त्यवस्थायां तान्येव, तथोत्पत्त्यवस्थायाः प्रागपि स्युरिति, 5 अभूतक्रियागुणव्यपदेशमुत्पत्त्यवस्थमपि कार्य ततः प्रागपि सत्, सत्तायाः सम्बन्धित्वात् , तत्कालद्रव्यादिवत् , किमुक्तं भवति सत्तासम्बन्धित्वादिति ? अत आह-भवनात्-अभूतक्रियागुणव्यपदेशं भवदवस्थं कार्यं ततः पूर्वमपि वस्तुस्वरूपमेव, नाभावः, इदानीं भावादाकाशवदिति, तद्वयक्त्यर्थ- इदानीमपि न सत्तया सम्बध्येत कार्यम् , प्रागसत्त्वात् , खपुष्पवदिति विपर्ययेणानिष्टापादनसाधनम् , भवदेव हि भवति गगनवत्, नाविद्यमानम् , अश्वविषाणवदिति । 10 अन्यथाभूतत्वान्नेति चेन्न, अन्यथाभवनेऽपि तदनन्यथाभवनात् प्रत्यक्षतः, मृत्त
न्त्वादितद्भावानतिक्रमात् सजातीयासजातीयेतरस्वभावभूतत्वात् , सुचिरादपि तत्तत्त्वाच्च दृढीभूतघटवत् ।
' (अन्यथेति) अन्यथाभूतत्वान्नेति चेत् -- स्यान्मतं प्रत्यक्षेण तन्तुभ्योऽन्यथा पटभवनात प्रत्यक्षविरुद्धं प्रागपि सत्कार्यमिति वचनमिति चेत् , तन्न प्रत्यक्ष विरुद्ध]मन्यथा भवनेपि तदनन्यथाभवन15 मेव प्रत्यक्षतः, किं कारणं ? मृत्तन्त्वादितद्भावानतिक्रमात्-अनतिक्रान्ततद्भावत्वादित्यर्थः, दृढीभूतघटवदिति प्रतिज्ञाया विशदार्थमाह-अत्रानुमानमिति, द्रव्यादीनामुत्पत्तिप्राकालीना एकाऽवस्था, उत्पत्तिकालीनाऽपरा, अन्या च सत्तासम्बन्धकालावस्था, उत्पत्तिकाले द्रव्यादीनि वरूपसन्ति, यत्समवेतं कार्य भवतीत्यभ्युपगमात् , तदुत्तरक्षणे च सम्पूर्णसन्ति, खरूपसत्त्वात् सत्तासम्बन्धाच, एवञ्च सत्तासम्बन्धकालात् पूर्वमुत्पत्तिकाले द्रव्याणि सन्त्येवेत्येतदुत्पत्तिकालावच्छिन्नद्रव्याणि दृष्टान्तीकृत्य तत्पूर्वकालीने द्रव्यादौ सत्त्वमत्र साध्यते, सन्त्येव-खरूपसद्भूतान्येवेत्यर्थः । साधनमाह-तस्यामवस्थायामिति, सत्ता20 सम्बन्धितावच्छेदककालावच्छेदेनेत्यर्थः । उदाहरणमाह-यस्यामवस्थायामिति । सत्तासम्बन्धात् प्राकालीने द्रव्यादौ सत्त्वे साध्ये सिद्धसाधनम् , तथाविधे उत्पत्तिकालीने तस्मिन् सत्त्वस्याभ्युपगमादित्यतो मानान्तरमाह-अभूतेति, न भूतः क्रियागुणयो~पदेशः घटस्तिष्ठति, घटश्चलति घटो रूपवानित्यादिप्रकारेण व्यवहारो यस्मिन् तदभूतक्रियागुणव्यपदेशमुत्पत्तिकालावच्छिन्नं काय, तदानीं तत्र गुगक्रिययोरभावात्तथाव्यपदेशाभावात् , ततः पूर्वमपि तत् सदिति प्रतिज्ञा, हेतुः सत्तासम्बन्धित्वात् , निदर्शनं तत्कालद्रव्यादिवत्-उत्पत्तिकालावच्छिन्नद्रव्यादिवदित्यर्थः । नन्वसिद्धोऽयं हेतुरुत्पत्तिकालावच्छिन्ने द्रव्यादौ सत्तासम्बन्धानभ्युॐ पगमादित्याशङ्कां हृदि निधायाह-किमुक्तं भवतीति।साध्यहेत्वोरविशिष्टतानिरासायाह-इदानीं भावादिति,य इदानीं भावः . स पूर्वमपि भाव एवेत्यत्र निदर्शनमाह-आकाशवदिति । तद्व्यक्त्यर्थ-एतव्याप्यव्यापकभावव्यक्तीकरणार्थं विपक्षेऽनिष्टापत्तिमादर्शयतीति भावः, स्पष्टमन्यत् । ननु तन्त्वादिकारणेभ्योऽन्यस्यैव पटादेः कार्यस्य प्रत्यक्षेण भवनदर्शनात् कथमुत्पत्तेः पूर्वमपि तत् सदिति शङ्कते-अन्यथेति, अन्यप्रकारेण-भिन्नत्वेन रूपेणेत्यर्थः । तद्व्याचष्टे-तन्तुभ्य इति, उक्तानुमाने प्रतिज्ञायाः
प्रत्यक्षबाधितत्वमिति भावः । खोपादानकारणतावच्छेदकधर्मावच्छिन्नत्वेन प्रत्यक्षतोऽभेदस्यापि दर्शनान्न प्रत्यक्षविरोध इत्युत्तरमा30 रचयति-तन्नेति । अन्यथा भवनेऽपि तदनन्यथाभवनमेवेत्यत्र हेतुमाह-मृत्तन्त्वेति-नातिक्रमोऽनतिक्रमः अतिक्रान्त्यभावः
तषेधरूपः, मृत्तन्त्वादितद्धावस्यानतिक्रमस्तस्मादिति विग्रहे हेतुः क्रियाप्रतिषेधात्मकतया प्रसज्यप्रतिषेधरूपस्तुच्छोऽभावः प्रसज्यत इति व्याचष्टे-अनतिक्रान्तेति, अनतिक्रान्तस्तद्भावो येन, तद्भावत्वात् , मृत्त्वतन्तुत्वादितद्भावस्यैव कार्ये दर्शनात् कारणमेव द्रव्यं तथा तथा भवतीति भावः । किमत्र निदर्शनमित्यत्राह-दृढीभूतेति, अनुपदमेवेति शेषः। ननु घटादेः कार्यस्य
सि.क. यथा प्रxx, एतचिह्नान्तर्गतः पाठः कपुस्तके नास्ति एवमग्रे विज्ञेयम् । २ सि. क. देशासिसतावस्थं । ३ सर्वत्र प्रतिषु संबध्यते कार्यबाध्यता कार्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org