________________
६३३
द्रव्यादेः प्रागपि सत्त्वम्]
द्वादशारनयचक्रम् इति, वयमत्रोपपत्तिं ब्रूमः, अद्रव्यत्वात् अभूतत्वात् असन्निहितत्वात् वन्ध्यापुत्र इव, पुनः पृच्छेत् कश्चित् कस्माच्चम्पकपुष्पं दलादिषु तु समवैति ? इति, सद्व्यत्वादेरिति ।
(अत्रेति) अत्र केनचित् पृच्छयेत कस्मात् खपुष्पं दलकेसरमकरन्दादिषु कारणेषु न समवैतीति ? वयमत्रोपपत्तिं ब्रूमः, अद्रव्यत्वात्-निर्बीजवादित्यर्थः, द्रव्यं सामान्यमाश्रय इति पर्यायाः, कस्मानिर्बीजमिति चेत्-[अ]भूतत्वात्-अतीतेऽधुनाऽनागते काले न भूतं हि तत्, भूतशब्दस्य त्रिकालवाचि-5 त्वात् , आकाशभूतवत् , असत्त्वादकारणत्वादकार्यत्वादित्यर्थः, तत्कुत इति चेत्-असन्निहितत्वात्, यत् सततं भवति तत्सन्निहितम् , सन्निहितमेव हि भवति, असन्निहितं नैव भवति बन्ध्यापुत्र इव-वन्ध्यायां बीजाधानादिभावेनासन्निहितः [पुत्रः], अथवाऽद्रव्यत्वादसन्निहितत्वादभूतत्वादिति पर्यायशब्दा एवेति, पुनः पृच्छेत् कश्चित् कस्माञ्चम्पकपुष्पं दलादिषु तु समवैतीति-तुशब्दः खपुष्पादस्य विशेषं दर्शयति, अत्रोच्यते विशेषः सद्व्यत्वादेरिति त एव हेतवस्तुल्यव्याख्यानाः, एष खचम्पकपुष्पयोर्विशेषोऽ- 10 सत्त्वा[त् ]सत्त्वाच्च भवति, इयश्च भावाभावयोः प्रश्नोपक्रमस्वरूपविशेषव्याख्या।
तथा च द्रव्यादीनि प्राक् सन्ति, तस्यामवस्थायां सत्तयाऽभिसम्बध्यमानत्वात् , यथोत्पत्त्युत्तरकालं सत्तयाऽभिसम्बध्यमानान्युत्पत्त्यवस्थायां तान्येव, अभूतक्रियागुणव्यपदेशमुत्पत्त्यवस्थमपि कार्य ततः प्रागपि सत्, सत्तायाः सम्बन्धित्वात् भवनात्, आकाशवत्, इदानीमपि वा न सत्तया सम्बध्येत कार्यम् , प्रागसत्त्वात् खपुष्पवत् ।
15 खपुष्पस्यासमवेतत्वे तव किमुत्तरमित्याशङ्कायामाह-वयमत्रेति । अद्रव्यत्वादिति, नास्ति द्रव्यं यस्य तदद्रव्यम् , तद्भावस्तस्मात् । ननु किमत्र नैयायिका भिमतं गुणक्रियावद्व्यम् ? किं वा खलक्षणमर्थक्रियाकारि द्रव्यं यच्छाक्यैरुक्तम् ? अथ वा यत् प्रतीयते तद्रव्यमिति नैरुक्तम् ? इत्याशङ्कायां तदर्थमाह-निर्बीजत्वादिति, अकारणत्वादित्यर्थः, सर्वोत्पत्तिमतामुपादानकारणं द्रव्यं तदस्य नास्तीति भावः । द्रव्यमिति, साधनं कारणमित्यर्थः, सामान्य अन्वितप्रत्ययनिमित्तमित्यर्थः, आश्रयः परिणामानां गुणक्रियादीनामाधारभूत इत्यर्थः, सर्वोत्पत्तिमतां परिणामिकारणमन्वयि आश्रयश्च द्रव्यमित्यर्थः । खपुष्पस्य निर्बीजत्वमेव कथमित्य- 20 त्राह-अभूतत्वादिति, भूधातोः कालसामान्ये भावे क्तः 'नपुंसके भावे क्तः' (पा० ३-३-११४) इति सूत्रात् , यस्य कालत्रयेऽपि भवनं नास्ति तत् खपुष्पादि अभूतमुच्यते, यथाऽऽकाशस्य कदापि भूतं भवनं नास्ति तथेति भावः । अकारणत्वादिति, खपुष्पादेरद्रव्यत्वादकारणत्वमभूतत्वादकायेत्वमिति भावः। अभूतत्वमपि खपुष्पादेः कुत इत्याशङ्कायामुच्यते-असन्निहितत्वादिति, कारणे सन्निहितमेव हि भवति नासन्निहितम् , खपुष्पं तु न कारणे कदापि सन्निहितं तस्मात् अभूतमभूतत्वाचाद्रव्यम् , अद्रव्यत्वान्न दलादौ समवतीति भावः । अभूतत्वाविनाभावमसन्निहितत्वस्य वैधयेण प्रदर्शयति-यत्सततमिति। सततभवनस-25 निधानयोः समव्याप्ति सूचयति-सन्निहितमेवेति । एवशब्देन प्रतिक्षेप्यमाह-असन्निहितमिति । कारणे यन्न सन्निहितं तन्नैव भवतीत्यर्थः । दृष्टान्तमाह-वन्ध्यापुत्र इति । ननु असन्निहितत्वमसमवेतत्वमेव, ततश्च कुतो न समवैतीति शङ्का तदवस्थैवेति नैवमिष्टसिद्धिरित्याशयेनाह-अथवेति । द्रव्यं भूतं सन्निहितमिति पर्यायाः कारणं हि द्रव्यं भूतं सन्निहितं भवति, कारणद्रव्यस्याभूतत्वेऽसन्निहितत्वे कार्यानुत्पादात् , द्रव्यपर्यायत्वं तयोरतोऽद्रव्यत्वादीनां पर्यायशब्दत्वमिति भावः । सद्व्यस्यैव समवेतत्वमिति समर्थयितुं शङ्कते-पुनः पृच्छेदिति । समाधत्ते-सव्यत्वादेरिति, सत् विद्यमानं द्रव्यं कारणं यस्य तत् सद्रव्यं 30 तद्भावः सद्व्यत्वं, आदिना सद्भुतत्वसत्सन्निहितत्वयोग्रहणम् । तदेवं खपुष्पचम्पकपुष्पयोः कारणसदसत्त्वाभ्यां समवेतत्वासमवेतत्वरूपो विशेषः सम्भवतीति द्रव्यादिः सत्तासम्बन्धात् प्रागपि सदेवेति सूचयति-एष इति । भावाभावयोः दलादो चम्पकपुष्पखपुष्पयोः सदसद्धावयोरित्यर्थः । एवं तयोर्विशेषे सिद्धेऽनुमान प्रयोगं दर्शयति-तथा चेति । द्रव्यादीनि प्राक् सन्तीति
१ सि. स्वादमूत्तदिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org