________________
६३२
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे खपुष्पं यस्य नास्ति सोऽसन्नित्युच्यत इति, सामान्यापेक्षया नपुंसकनिर्देशे प्राप्ते पुल्लिङ्गनिर्देशोऽर्थसामानाधिकरण्यात् , उत्तानार्थः, संस्तु सद्वान् नियमाद्भवति-सदस्यास्तीति सद्वान् , यथा गौरस्यास्तीति गोमान् बहुव्रीहिः सदपेक्ष एव सत्येवार्थे युज्यते नान्यथेति, तथा तत्पुरुषेऽपि योज्यम् , एतदेव वैधय॑निदर्शनम् , कस्मात् ? प्रतिषेधद्वयार्थत्वात्-यथा प्रतिषेधद्वयमर्थवदेव दृष्टमनगुरिति, तथा द्विःप्रतिषेधस्य प्रकृत्याप5 त्तेर्नास्यासदित्युक्ते सद्वानेव भवितुमर्हति नासत्, सदर्थत्वात् ।
अत्राह
ननु द्विविधभावत्वात् सत्तासद्वचनेऽपि न दोष इति, ननु तदेवेदं भवनं विचार्यते किमेकविधमेव निरतिशयमस्मन्मतवत् ? उत त्वन्मतवत् किश्चित् सत् , समस्तं सदिति ? तस्य
द्वैविध्यस्यास्मान् प्रत्यसिद्धेः, सत्तासम्बन्धरहितत्वमपि सत्तोपपत्तिरहितत्वमेव उक्तवत् । 10 (नन्विति) ननु द्विविधभावत्वात् सत्तासद्वचनेऽपि न दोषः-स्वभावसत् सम्बन्धसदिति च द्विविधं सदुक्तम् तस्मात् , सत्तायाः सामान्याख्याया अपि स्वभावसत्त्वमस्तीति नास्य सत् तदिदमसदिति वक्तुं युज्यत एवेयत्रोच्यते-ननु तदेवेदं भवनं विचार्यते किमेकविधमेव निरतिशयमस्मन्मतवत् ? उत त्वन्मतवत् किश्चित् सत् समस्तं सदिति ?-स्वभावसत् सम्बन्धसदिति च तस्यैव द्वैविध्यस्यास्मान् प्रत्यसिद्धिः, सत्तासम्बन्धरहितत्वमपि सत्तोपपत्तिरहितत्वमेव, उक्तवत्-यथाऽनन्तरमेवोक्तं न किञ्चित् [सत्] 15 सैमस्तं सत्-स्वभावसत् सम्बन्धसैन्नामेति विकल्पजातं सतोऽस्तीति, अथवा खपुष्पमप्यसन्निहितभवितृकत्वात् कार्यवद्भवेदित्यतीतं सर्वमेवोक्तम् , तत्सम्पूर्णनिरतिशयं सत्त्वमसत्त्वञ्चेत्येतस्य प्रतिपादनार्थमिति ।
अत्र केनचित् पृच्छ्येत कस्मात् खपुष्पं दलकेसरमकरन्दादिषु कारणेषु न समवैति ?
पुल्लिङ्गेन निर्देशस्तयोः क्रियत इत्याशङ्कयास्य वाक्यस्य बहुव्रीहेलौकिकविग्रहप्रदर्शकवाक्यत्वेन 'अनेकमन्यपदार्थे' (पा० २-३-२४ )
इति सूत्रोपस्थितेरर्थपदस्मरणात् तद्विशेषणत्वादनयोः पुल्लिङ्गतया निर्देशः कृत इत्युत्तरमाह-सामान्यापेक्षयेति । यदनसत् 20 तन्नियमात् सद्भवति सद्वानित्याह-संस्त्विति । तत्र कारणमाह-बहुव्रीहिरिति, नास्यासदिति हि बहुव्रीहिविग्रहवाक्यम् ,
बहुव्रीहिश्चान्यपदार्थेऽन्वाख्यायते, अत्रास्येति सम्बन्धेऽन्यपदार्थ समासो वाच्यः, सम्बन्ध्युपसर्जनसम्बन्धप्रधानोऽन्यपदार्थः, तथा चात्रानभिहितः सम्बन्धी भवेत् , न स्याच पदार्थेन तस्य सामानाधिकरण्यम् , तस्मात् यस्य स यस्मिन् स इत्यादितच्छब्दार्थान्तर्भावेण द्रव्यप्रधान एवान्यपदार्थ इति सलिङ्गससंख्यसदपेक्ष एव बहुव्रीहिः, तस्मात् अनसदिति सति एवार्थे युज्यते नासति,
तत्पुरुषसमासेऽपि नजः पर्युदासार्थत्वेन सत एवानसत्त्वमिति ध्येयम् । पुनर्वादी सत्तायाः सच्छब्दवाच्यत्वेन सत्तापेक्षया द्रव्यादे25 रसत्त्वं वक्तुं शक्यत इत्याशङ्कते-नन्विति । भावद्वयं प्रदर्य व्याकरोति-स्वभावसदिति । भावस्य द्वैविध्य एव हि विचारः
प्रसरति किं निरतिशयस्वरूपं सत् ? किं वा किञ्चित्वसमस्तत्वाभ्यां सातिशयमिति, तस्मादस्मान् प्रत्यसिद्धमुपादाय कथमुच्यत इत्याशयेनोत्तरयति-ननु तदेवेति । सत्तायामपि प्रागुक्तदिशोपपत्तेरभावात्सत्तासम्बन्धराहित्येनासत्त्ववर्णनमपि न सम्यगित्याहसत्तासम्बन्धेति । उक्तवदिति प्रोक्तमेव दर्शयति-यथेति, अधुनैव यथोक्तं तद्वदिति भावः । अथवा यथैतन्नयारम्भादारभ्य
यदुक्तं सम्पूर्णनिरतिशयमेव सत्त्वं असत्त्वञ्च भवतीत्येतत्प्रतिपादनार्थ तत्सर्वमत्र विज्ञेयमित्याशयेनाह-अथवेति । अथ सत्तास30 म्बन्धात् प्रागपि द्रव्यादेः कार्यस्य सत्त्वं साधयितुं विवक्षितहेतोाप्ति ग्राहयितुं अनुयुज्यते-अत्र केनचिदिति । कारणेषु
सर्वास प्रतिषु सत्त्वाश्च नियमाद्भवति मत्रास्यास्तीति सत्वाम्यथा गौरव्यास्तीति । २ सि. क. सत्वा । ३ सि. क. समस्तसमस्वभाव०। ४ सि. क. सानामविति । ५ सि.क. सत्त्वमसत्त्वमेवेत्ये ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org