________________
असत्पदव्युत्पत्तिः] द्वादशारनयचक्रम्
६३१ यत्तु सत् मुख्यं समवायिकारणं द्रव्यादेः कार्यस्य, तदस्यास्त्येवेति तत्किमिति मत्त्वोक्तम् ? ननूक्तं सामान्यं समवायि सत् तदस्य नास्ति तदपेक्षयोक्तमसदिति, तद्धि सदेव न भवत्यावयोरपि मतेन, किं तर्हि युक्तं वक्तुम् ? नास्यासत् तदिदमनसदिति, न हि खपुष्पं यस्य नास्ति सोऽसन्नित्युच्यते संस्तु सद्वान्नियमाद्भवति प्रतिषेधद्वयार्थत्वात् ।
__यत्तु सदित्यादि, यत्तु सत्यं मुख्यं सत् तत्समवायिकारणं द्रव्यादेः कार्यस्याऽऽश्रयः परमाणु-5 तन्तुकपालादि, घटपटादिपरिणामिकारणं तदस्यास्त्येव बीजभूतं साधयिष्यमाणं, तत्किमिति मत्त्वोक्तम् ? न त्वर्थसत्त्वादिना-बहुव्रीहिणा नास्य सदस्ति तदिदमसद्रव्यादिकार्यमिति तस्य मुख्यस्य सतोऽस्तित्वादयुक्तं वक्तुम् , न च सन्न भवतीत्यसदिति तत्पुरुषेण द्रव्यादिकार्यस्य सत्त्वादिति वा, ननूक्तं सामान्य समवायि सत् , तदस्य नास्ति, यत्सम्बन्धाद्रव्यादिकार्य सद्यपदेशं लभते इति तदपेक्षयोक्तमसदिति, अत्रोच्यते यत्त्वस्य नास्ति समवेतमिति सामान्यं तदपेक्ष्य न युक्तं वक्तुम्-नास्य सदिदमसदिति, यस्मात् 10 तत्सदेव न भवत्यावयोरपि मतेन-त्वन्मतेन तावत् सदविशेषाभावात् सामान्यादित्रयस्य, द्रव्यादेरेव सदाद्यविशेषात् , अस्मन्मतेन द्रव्यादिव्यतिरिक्तसामान्यविशेषसमवायासत्त्वादेव, तस्यैव विवादस्य प्रस्तुतत्वात् , तस्यासत्त्वात् द्रव्यादि कथं नास्त्यस्य सत्तदिदमसदिति बहुव्रीहिणा वक्तुं शक्यम् , किं तर्हि युक्तं वस्तुम् ? नास्यासत् तदिदमनसदिति, तस्मादसद्यस्य नास्ति तत्सदेव अनसदित्यर्थः, तन्निदर्शनं-नहि
mannamam
mmmmmmmmmm
अथ प्रकारान्तरेण, पूर्वपक्षमादर्शयति-यत्तु सदिति, अर्थ सद्वा सच्छब्देनोपादाय नासदुच्यते द्रव्यादि, किन्तु समवेतं 15 सामान्यं सच्छब्देनोपादाय तदसदुच्यते, सदाकारप्रत्ययव्यपदेशविषयसत्तायाः उत्पत्तिप्राक्कालावच्छिन्ने द्रव्यादावभावादित्याशयं निरूपयति-यत्तु सत्यमिति, कार्यरूपतयाऽनुभूयमानघटपटादिद्रव्यस्य समवायिकारणतयाऽनुमीयमानस्य नित्यस्यात एवोभयविधसद्रूपतया मुख्यस्य सतः परमाणोराश्रयस्य सत्त्वात् तदपेक्षया द्रव्यादिकार्य न सदस्यास्तीत्यसदिति वक्तुं शक्यम् तस्य सदाश्रयत्वात् स्वरूपसत्त्वाच्चेति भावः । न त्वर्थसत्त्वादिनति, अर्थेन सत्त्वादिना वेति भावः, द्रव्यं गुणः कर्म चार्थशब्देनोच्यन्ते, तत्र वैशेषिकैस्तथा परिभाषितत्वात् , यथा 'अर्थ इति द्रव्यगुणकर्मसु (वै०८-२-३) तेन तेन विधिनाऽर्थ्य- 20 मानत्वात् । सत्पदेन यदाऽर्थो गृह्यते तदा असदिति बहुव्रीहिः, यदि स्वरूपसत्त्वं गृह्यते तदा तत्पुरुष इत्याशयेनाहबहुव्रीहिणेति, मत्त्वर्थसत्त्वादिनेति पाठेऽपि मत्त्वर्थः षष्ठ्यर्थः सप्तम्यर्थश्च तदर्थे बहुव्रीहिः । 'मत्त्वर्थे यः स बहुव्रीहिरिति वक्तव्यमिति महाभाष्यात् । कुतोऽयुक्तं वक्तुमित्यत्राह-तस्य मुख्यस्येति । तत्पुरुषापेक्षयाप्याह-न च सन्नेति । तर्हि कथमसदित्युच्यते-सामान्यमिति, अनुगतधर्म समवाय प्रतियोगिरूपमुपादाय नास्य सदिति असदुच्यत इति भावः । समवायप्रतियोगिसामान्यमुपादाय नैवं वक्तुं युक्तमित्याह-अत्रोच्यत इति । उभयमतेन सत्पदग्राह्यतयाऽभिमतं सामान्यं सदेव न 25 भवति, ततः कथं तत् सत्पदग्राह्यं भवेदित्याह-यस्मादिति । भवद्भिः सदाद्यविशेषत्वं द्रव्यादित्रयाणामेवोक्तं न तु सामान्या- ५ -- दित्रयाणाम् , तस्मात् तदसत् , अस्मन्मते तु सामान्यादीनां द्रव्यव्यतिरिक्तानामसत्त्वं सिद्धमेवेत्युभयमतेन सामान्यं न सदिति दर्शयति-त्वन्मतेनेति । एवञ्च सामान्यस्य सत्पदानुपादेयत्वे त्वदभिप्रायेण नास्य सदस्त्यसद् द्रव्यादीति नोदितुमुचितम् , अपि तु सामान्यमसत्पदेनोपादाय असन्नास्त्यस्येत्यनसद्व्यादीति वक्तुं युज्यत इत्यादर्शयति-तस्यासत्त्वादिति । सामान्यस्यासत्त्वादित्यर्थः, सदेवानसदिति, निषेधप्रतियोग्यवृत्तिधर्मेणैवानुयोगिताया अवच्छिन्नत्वादनसत् सदेव भवत हि खपुष्पं यस्य नास्ति सोऽसन्नित्युच्यत' इति दृष्टान्तवाक्ये यत्तच्छब्दाभ्यां सामान्यधर्मावच्छिन्नत्वेन ज्ञातार्थविषयाभ्यां स्त्रीत्वा- ... द्यवच्छिन्नत्वेनानितिार्थविषयाभ्यां 'अनिातेऽर्थे गुणसन्देहे च नपुंसकलिङ्गं प्रयुज्यत' इति नियमेन नपुंसकलिङ्गे प्राप्ते तत्कथ
सि. क. तत्तत्किमिति न त्वो०।२ सि. क.क्ष.डे. कार्यस्यासत्वा०।३सि. के.क्ष. डे. नास्त्यसमः ।
न. च. ३ (८०) Jain Education International 2010_04 For Private & Personal Use Only
www.jainelibrary.org