________________
६३०
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे शब्दतोऽर्थतश्चात्यन्तभेदादनयोः कथं सत्ता सत् स्यात् , यदभावान्नास्य सदित्ययं-द्रव्यादि भाव्येत, एवं तावत् सदुक्तौ नैव सत्तोक्तिः ।
____ अथ नास्य सदिति सत्तापि स्वभावसत्तया सती सा यस्य नास्ति तदप्यसद्रव्याधुच्यते गुरुत्वाभावात् गुणागुरुत्ववदिति, एतदेव ननु प्रस्तुतं सदादिषडविशेषाभिधानद्वारेण द्रव्या5 दीनामेव त्रयाणां विकल्पः परस्परतश्च लक्षणादिना व्याचिख्यासितो भवताम् , तत्र सदादि
षडविशेषो द्रव्यादीनामेव न सामान्यादीनामित्युक्त्वा सामान्यादीनां सत्त्वमुच्यमानं स्ववचनविरोधाय, सदा मौनव्रतिनः कोऽस्मीति वचनवत् ।
अथ नास्य सदित्यादि, अथ मा भूच्छब्दार्थविप्रकृष्टत्वात् कृदन्तेन तद्धितार्थानभिधानाच्छब्दार्थसङ्करदोष इति सत्तापि स्वभावसत्तया सती, तस्याः सत्त्वात् , सा यस्य नास्ति तदप्यसद्व्याधु10 च्यते, यथा गुरुगुणाभावादगुरुद्रव्यं गुणः कर्म वोच्यते, गुरुत्वाभावात् गुणागुरुत्ववत् , तथा सदभावसत्ताभावतुल्यत्वादसदित्युच्यमानमदोषमित्यत्रोच्यते, एतदेव ननु प्रस्तुतं- 'सदनित्यं द्रव्यवत्कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः' (वै. अ.१ आ. १ सू. ८) इति सदादयः षडविशेषा द्रव्यादीनामेव त्रयाणाम् , न सामान्यविशेषसमवायानामित्यविशेषाभिधानद्वारेण त्रयाणां विकल्पो
नानात्वं परस्परतश्च लक्षणादिना व्याचिख्यासितं भवताम् , अस्माभिश्च द्रव्यव्यतिरिक्तगुणाद्यभावात् 15 सामान्याद्यभावाच्च सत्त्वेनाविशेष एव, [अ]विशेषत्वादद्रव्यादित्रयं सामान्यादित्रयं वा खपुष्पतुल्यं
स्यादित्यासञ्जितम् , प्रोक्तद्वारेण वादप्रस्तावादिति, तत्र सदादिषडविशेषो द्रव्यादित्रयविषय एव न सामान्यादित्रयविषय इत्युक्त्वा सामान्यादीनां संत्त्वमुच्यमानं [न] सदित्यसदिति स्ववचनविरोधाय सदा मौनअति[नः] कोऽस्मीति वचनवत् । यदभावादिति, सत्ताभावादित्यर्थः । ननु यद्यत् स्वरूपसत् तत्सर्वं सच्छब्देनोच्यते, द्रव्यादिवत् सत्तापि स्वरूपसतीति सापि सच्छब्दे20 नोच्यते,यथा गुरुत्वाभाववत्सर्व द्रव्यं वा गुणो वा कर्म वाऽगुरूच्यते इत्याशङ्कते-अथेति। सच्छब्देन सत्तात्वेन रूपेण सत्ताया ग्रहण कृत्तद्धितान्तरूपार्थविप्रकृष्टान्तरत्वात् मा भूत्, किन्तु सत्पदशक्यतावच्छेदकरूपेण तस्या ग्रहणे को दोषः, दृश्यते हि घटपदेन नीलघटत्वादिरूपेणाग्रहणेऽपि तत्पदशक्यतावच्छेदघटत्वावच्छिन्नत्वेन नीलपीतादिविशिष्टघटानां ग्रहणमित्याशयं व्यावर्ण यति-अथ मा भूदिति, खभावसत्तया-सत्पदशक्यतावच्छेदकीभूतया सती सत्पदवाच्या, तस्याः सत्त्वात्-सत्तायाः स्वरूपसद्रूपत्वात् , तथा च सत्पदवाच्यं सत्तारूपं व्यक्तिविशेष सत्पदेनोपादाय नास्य सदित्यसदिति विगृह्य द्रव्यादि असदुच्यत इति भावः। दृष्टान्त उच्यते25 यथेति,गुरुगुणाभावात्-गुरुत्वलक्षणगुणाभावात् । द्रव्यत्वगुणत्वादिनाऽगुरुशब्देन द्रव्यादीनां ग्रहणाभावेऽपि गुरुत्वाभावलक्षणागुरुपदशक्यतावच्छेदकावच्छिन्नत्वेन द्रव्यादयो यथोच्यन्त इति भावः। गुरुत्वाभावादिति प्रवृत्तिनिमित्तप्रदर्शनपुरस्सरं दृष्टान्तं दर्शयतिगुरुत्वाभावादिति। असच्छब्दप्रवृत्तिनिमित्तं दर्शयति-सदभावेति धर्मि भेदधर्मात्यन्ताभावयोरेकत्वात् सद्भेदसत्ताऽभावयोस्तुल्यत्वम् , यथा वा नीलपटाभावोऽपि पटाभाव उच्यते तथा सत्ताभावोऽपि सदभाव एवेति तुल्यत्वं बोध्यम् , तस्मात् द्रव्यादि असदित्युच्यमानं न दोषाधायकमिति भावः । अत्र द्रव्यादिषट्पदार्था अविशिष्टा विशिष्टा वेत्येव खलु विचार्याः, तत्र द्रव्यादीनां त्रयाणां 30 सत्त्वादिषड्धमैरविशेषत्वमुक्त्वा परस्परतस्तेषां लक्षणादिना भवद्भिर्विशेषो वर्ण्यते, अस्माभिश्च द्रव्यमेवैक तत्त्वं तद्व्यतिरिक्ता गुणादयो
न सन्त्येव, तच्च द्रव्यं सत्त्वेनाविशिष्टमुक्त्वा परस्परविशिष्टद्रव्यादित्रयाणां सामान्यादित्रयाणाञ्च खपुष्पतुल्यत्वमापादितम् , तत्र भवद्भिः सत्वादिषधर्मः सामान्यादीनामविशिष्टत्वोक्त्या सामान्यादित्रयाणामसत्त्वमाविष्कृतम्, अधुना च सामान्यादीनां सत्त्वं वदतां भवतां पूर्ववचनविरोधः प्रसज्यत इत्याशयं वर्णयति-एतदेव ननु प्रस्तुतमिति, स्पष्टमन्यत् । विरोधं समर्थयति-तत्रेति
१ सि. क. क्ष. डे. करछेन । २ सि. क. क्ष. डे. विशेषत्वान्यतर० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org