________________
सत्ता न स दितिवर्णनम् ]
द्वादशारनयचक्रम्
www
सत्? इति, तत्र यदि तावत् सत् तत्सन्न भवति, कस्मात् ? असत्त्वात्, खपुष्पवत्, उभयासम्पूर्णत्वाभ्युपगमान्नासिद्धम्, असत्त्वस्यापीष्टत्वात्, नासत् - न च तदसत् सत्त्वाद्घटवत्, सत्त्वमपि नासिद्धमुभया सम्पूर्णत्वेष्टेरेव, न सदसत् - नापि तत् सदसत्, उभयरूपमित्यर्थः । त्वन्मतेनैव सदसतोः वैधर्म्यात् 'कार्ये सदसत्त्वं नेति वचनात् किश्वान्यत् सदसत्ताऽभावात् - यथा सत्तासम्बन्धात् सद्भवति तथा सदसत्तासम्बन्धात् सदसत् स्यात्, असत्तासम्बन्धादसद्वा स्यात्, न चैवं भवितुमर्हति, अदृष्टानिष्टत्वात् तस्मा- 5 दुसत्ताभावात् सदसत्ताभावाच्च नासत् सदसद्सम्पूर्णमिति, अहं पुनरेवं तर्कयामि त्वया नोपलक्षिता सदसद्वैधर्म्यनिराकरणायैव तु प्राय इयं प्रतिपत्तिर्भवतः किञ्चित् सत् समस्तं सत्, किञ्चिदसत् समस्तासदिति ब्रुवत: उभयासम्पूर्णतायां तदेव सच्चासच्चेति सदसतोः साधर्म्यमेव न वैधर्म्यमिति प्रतिपन्नत्वादिति ।
"
योऽपि चासच्छब्दस्यागुणगुणवत् नास्य सदित्यसदिति बहुव्रीहिसमाश्रयात् सदर्थवत्त्वमेवेति विकल्पः, असदिति सत्तासम्बन्धरहितमित्यर्थः, सोऽप्यनुपपन्नः कृत्तद्धितान्तरूपार्थवि - 10 प्रकृष्टान्तरत्वात् कथं सत्ता सत् स्यात् यदभावान्नास्य सदित्ययं भाव्येत ।
योऽपि चासच्छन्दस्येत्यादि यावत् सत्तासम्बन्धरहितमित्यर्थ इति पूर्वपक्षप्रत्युच्चारणम्, योऽप्यसौ नास्य सादित्यसत्, अगुणगुणवदिति तस्य बहुव्रीहिसमाश्रयात् सामान्यविशेषसमवायैः सद्भिः सामान्यसत्तया न सम्बद्धम्, तस्मादसच्छब्दस्य सदर्थवत्त्वमेवेति विकल्प इति तत्रोत्तरमुच्यते सोऽप्यनुपपन्नो विकल्पः कृत्तद्धितान्तरूपार्थविप्रकृष्टान्तरत्वात् भवत्यस्ति वेति सत् कृदन्तरूपम्, अर्थश्चास्य द्रव्य - 15 भूतः, सतो भावः सत्तेति तद्धितान्तरूपम्, अर्थश्वास्य 'यस्य [ गुणस्य भावात् ] च द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ' (महा० ५-१-११९) इति सतोऽसाधारणं स्वरूपं सदन्तरव्यापि सामान्यश्चेति
दूषयति-तत्र यदीति । हेत्वसिद्धिं निराकरोति - उभयेति । द्वितीयं दूषयति- नासदिति । तृतीयं दूषयति-न सदसदिति । हेतुमाह - वैधर्म्यादिति । तत्रासिद्धिं वारयितुं तदीयं वचनं प्रमाणयति - कार्येति । यथा सत्तायोगात् सदित्युच्यते तथाऽसत्तायोगात् सदसत्तायोगाचासत् सदसच्च वाच्यम्, नेष्टमेवं भवतामित्याह- किञ्चान्यदिति । एवञ्चासत् सदसच्चासम्पूर्ण न स्यात् 20 सम्पूर्णमेव स्यादित्याह - तस्मादिति । किञ्चित्वसमस्तत्वाभ्यां सदसतोरसम्पूर्णतामभ्युपगच्छतो भवतो वादः सदसतो वैधर्म्यनिराकरणपर्यवसाय्येव, यत्त्वया नावगम्यते इत्यहं तर्कयामीत्याह - अहं पुनरिति । कथं वैधर्म्यनिराकरणं भवतीत्यत्राह - उभयेति । ननु अगुणगुणदृष्टान्तेनासत्त्वं स्वरूपसत्येव वर्त्तते, न खपुष्पेऽत्यन्तासति, ततश्च कथं तत् सन्न भवतीत्यस्य साधकाविनाभावाग्रहादिति शङ्कायां प्रतिविधानमाचष्टे - योऽपि चेति । तद्व्याचष्टे - योऽप्यसाविति । कृदन्तार्थतद्धितार्थयोरत्यन्तविप्रकृष्टत्वेन सच्छब्दवाच्यसत्ताशब्दवाच्यार्थयोरत्यन्तभिन्नत्वेन सत्ता न सद्भवितुमर्हति इत्याशयेन समाधत्ते - कृत्तद्धितान्तेति । कृदन्तनि- 25 ष्पन्नसच्छब्दतद्धितान्तनिष्पन्नसत्ताशब्दयोर्द्रव्यभाववाचिनोः शब्दतोऽर्थतश्चात्यन्तं विप्रकृष्टतेति भावः । तदेव स्फुटयति-भवतीति । तद्धितविशेषयोः त्वतलोरर्थमाह- अर्थश्चास्येति । यस्य चेति । यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ प्रत्ययौ भवत इति वैयाकरणानां नियमोऽयम्, तन्मते यद्भेदकं संसर्गिस गुण इति गुणलक्षणमतो जात्यादेरपि गुणपदेन ग्रहणम्, एवञ्च प्रकृतिजन्यबोधे यः प्रकारः स भावस्तदभिधाने त्वतलौ भवत इति भावार्थस्तस्य, तथा च कृदन्तसच्छन्दस्य भेद्यार्थत्वात्, तद्धितान्तसत्ताशब्दस्य भेदकार्थत्वात् सत् सत्ताशब्दयोर पर्यायत्वेन सत्ता सतीति वक्तुं न शक्यत इति विशदयति-सतोऽसाधा - 30 रणमिति । सत्तार्थे सच्छब्दप्रयोगासम्भवेन नास्ति सत्ता यस्मिन्नित्यर्थे नास्य सत् तदसद्द्रव्यादीति न बहुव्रीहिः कर्तुं शक्यत इत्याह
१ सि. क. डे. साधर्म्यमेव न वैधर्म्यमेव न वैधर्म्यमिति ।
Jain Education International 2010_04
६२९
२ सि. क. डे. शून्यसत्तयेति ।
For Private & Personal Use Only
www.jainelibrary.org