________________
६२८
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे हेत्वर्थोऽन्यया वाचोच्यते-स्वभावसद्भावत्वाद्वा, असमवेतसत्ताकानि द्रव्यादीनि यथेति गतार्थम् , एतदनिष्टापादनम् , सा-सामान्यसत्ता असर्वगता च स्वविषयसर्वगता च न भवतीत्येतदपि दोषापादनम् , न सर्वस्वविषयानुवृत्तिरित्यर्थः, व्यक्तिरेव वा-द्रव्यादिव्यतिरिक्ता न भवतीति दोषापादनप्रतिज्ञान्तरम् , उभय
त्रैक एव हेतुः-एकजातीयापेतस्वरूपत्वादिति, एकप्रकारमेकजातीयम् , 'प्रकारवचने जातीयर्' (पा० 5 ५-३-६९) न तु 'जात्यन्ताच्छबन्धुनि' (पा०५-४-९), मा भूद्रव्यत्वसत्तादिवदनैकान्तिकत्वम् , तत एकजातीयादपेतं-व्यावृत्तं स्वरूपं यस्याः सा एकजातीयापेतस्वरूपा, तद्भावादेकजातीयापेतस्वरूपत्वात्, घटवत् , सजातीयासजातीयव्यावृत्तस्वरूपत्वादित्यर्थः, यथा घट एकप्रकारेण व्यावृत्तस्वरूपो देशकालव
कारादिभिर्विशिष्टत्वात् घटान्तरस्वविषयव्यापी न भवति व्यक्तिरेव च न भवति तथा सत्तापि स्यादिति, तस्मादयुक्तमसमर्थगोवदेकसत्तासदसत्त्वं द्रव्यादेस्तथा सत्तायाश्चेति । इतश्चायुक्तं वक्ष्यमाणदुर्निरूपविक10 ल्पत्वात् , खपुष्पवदसत्त्वादिति ।
अनुपपन्नविकल्पत्वहेतोरैथैतानि व्याख्यानान्तराणि तद्यथा
उभयासम्पूर्णतायां वा तन्निरूप्यमेव किं सदसम्पूर्णता, उतासत् , आहोखित् सदसदिति, तत्र यदि तावत् सत् तत्सन्न भवति, असत्त्वात् खपुष्पवत् , नासत् सत्त्वाद्धटवत् , न सदसत् त्वन्मतेनैव सदसतोवैधात् सदसत्ताऽभावाच्च, अहं पुनरेवं तर्कयामि सदसद्वैधर्म्यनिराकरणा15 यैव तु प्राय इयं प्रतिपत्तिर्भवत उभयासम्पूर्णतायां तदेव सच्चासच्चेति साधर्म्यमेव ।
उभयासम्पूर्णतायां वेत्यादि, वस्तुनो द्रव्यादेः सामान्यस्य वा सत्त्वेनासत्त्वेन च किञ्चित्समस्तत्वाभ्यामसम्पू[f]तायां पुनरपि तन्निरूप्यमेव किं सदसम्पूर्णता ? उतासत् ? आहोस्वित् सद
हि सामान्यसत्तायां सत्ता समवैतीति भावः । दृष्टान्तमुक्तमेव सङ्गमयति-असमेवतेति । असमवेतसत्ताकं द्रव्यादि यथा सदसच्च
तथा महासत्तापील्यनिष्टापादनं विज्ञेयम् । अथ सामान्यसत्ता असर्वगतेति प्रतिज्ञान्तरं दर्शयति-सेति । स्वविषयेति, खविषये 20 सर्वत्र वृत्तिन भवतीत्यर्थः । अन्यां प्रतिज्ञामाह-व्यक्तिरेव वेति । सामान्यसत्ता व्यक्तिरेव भवति, एक्शब्दात् व्यक्तिभिन्ना
जातिरूपा न भवतीत्यर्थः । इदमेव दर्शयति-द्रव्यादीति । सामान्यसत्ता असर्वगता व्यक्तिरेव वेति प्रतिज्ञाद्वये हेतुमेकमेवाहएकजातीयेति, एकस्मात् प्रकारात् अपेतखरूपत्वात् , विशेषणेऽर्थेऽत्रैकशब्दाजातीयर् प्रत्ययः, न त्वेकजातिशब्दाद्वन्धुन्यर्थे छप्रत्ययः, बध्यते जातिरस्मिन्निति बन्धु, जातेय॑ञ्जकं द्रव्यं बन्धु, एतत्पक्षे एकजातिमदपेतस्वरूपत्वादित्यर्थः स्यात् , तथा सत्ययं हेतुरसर्वगतत्वव्यक्तित्वयोर्व्यभिचारी भवेदिति भावः । व्यभिचारमेव प्रकाशयति-मा भूदिति । किच्चिद्धर्मानवच्छिन्नस्वरूपत्वं तदर्थ 25 इति मत्त्वा निष्कृष्टार्थमाह-सजातीयेति । दृष्टान्तदा न्तिकयोर्हेतुसाध्ये सङ्गमयति-यथा घट इति । तदेवं द्रव्यादेः सामा
न्यस्य सत्ताया वा किञ्चित्त्वावच्छेदेन समस्तत्वावच्छेदेन च सत्त्वमसत्त्वं वेति निगमयति-तस्मादिति । दोषान्तरमाह-इतश्चेति । या सदसदसम्पूर्णता भवतोक्ता सा किं सद्वस्तुनः, उतासतः किं वा सदसतः ? एतदपि निरूप्यं त्वयेत्याह-उभयेति । उभयेति, उभयाभ्यां किश्चित्त्वसमस्तत्वाभ्यां सदसतोरसम्पूर्णतायामित्यर्थः, वेति पक्षान्तरद्योतनम् , पूर्व सम्पूर्णनिरतिशयस्वात्मन एव सत्त्वमुक्त्वा तत्र विकल्पमभ्युपगम्य विचारितत्वात् । निरूपणबीजं विकल्प दर्शयति-किं सद ते । प्रथमं विकल्पं
१ सि. क. यव्यावृत्तस्त्र० । २ सि. क. प्रकारेभ्यो। ३ सि. क. हेतोरेवैतानि व्या० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org