________________
minwrwwwm
miwww.ammanmad
सातिशयसत्त्वनिरासः]
द्वादशारनयचक्रम् वक्तुमित्यभिप्रायः, अस्तु वा विकल्पवत् सत्त्वमसत्त्वञ्च, तत् पुनर्निरूप्यं त्वया कतमत्तत् स्वरूपतः, क वाऽऽश्रये किञ्चित् सत्त्वमसत्त्वञ्चेति विकल्प्यम् ।
अत्राह
एतर्हि निरूप्यते एकसत्तासदसदपि, असमर्थगोवत् , एवं तर्हि सामान्यसत्तासत्ताऽव्यक्तिः किञ्चित्सती न सम्पूर्णा सती, एकसद्भावत्वात् यदेकया सत्तया सत् तत् सच्चासच्च दृष्टम् , 5 स्वसत्तावत् , स्वभावसद्भावत्वाद्वा, असमवेतसत्ताकानि द्रव्यादीनि यथा स्वभावसद्भावत्वात् सत् सम्बन्धसत्तयाऽसत् तथा सत्तापि स्यात् सा असर्वगता च व्यक्तिरेव वा, एकजातीयापेतस्वरूपत्वात् घटवत् वक्ष्यमाणदुर्निरूपविकल्पत्वाच्च ।
(एतहीति) एतर्हि निरूप्यते, किमत्र निरूप्यं ? नन्विदमेव तदेकसत्तासदसदपि--एकया स्वभावसत्तया सत् तदेवासत् सम्बन्धसत्तया, ततस्तत् किञ्चित् सत् किश्चिदसत्, किमिव ? असमर्थगोवत्- 10 यथा गोकार्यासमर्थो गौरेव सन्न गौरित्युच्यते-असौ गौर्न भवति, तथेदमपि द्रव्यादि सदेवासदिति, अत्र ब्रूमः-एवं तीत्यादि, सामान्याख्यायाः सत्तायाः-सामान्यसत्तायाः सत्ता सा चाव्यक्तिः-द्रव्यादिव्यक्तिरहिता किञ्चित्सती, न सम्पूर्णा सती-स्वभावसत्तामात्रेण सती सम्बन्धसत्तया न सती-सती चासती च विकल्पवतीत्यर्थः, कस्मात् ? एकसद्भावत्वात्-यदेकसत्तया सत् तत् सच्चासच्च दृष्टम् , तद्यथा स्वसत्तावत्-यथा द्रव्यादि स्वभावसत्तया सत् एकया, सम्बन्धसत्तयाऽसत् तथा महासत्तापि स्यादिति, एष एव 15 सत्त्वयोः द्रव्यसामान्ययोः प्रतियोगिसमानाधिकरणत्वेऽभ्युपगतेऽपि, कतमत् सत् प्रतियोग्यसमानाधिकरणं व वाऽधिकरणे सत्त्वासत्त्वसामान्ययोः प्रतियोगिसमानाधिकरणत्वं तत्प्रदर्शनीयं भवतेत्याचष्टे-अस्तु वेति । सत्त्वं हि द्विविधं प्रागुपदर्शितं स्वभावसत्त्वं सम्बन्धसत्त्वञ्चेति, यदुभयविधसत्तायुतं तत् सम्पूर्णनिरतिशयसदुच्यते, यत्र तु केवलं स्वरूपसत्त्वं तत्र किञ्चित्सत्त्वमसत्त्वञ्चेत्याशयेन शङ्कते-एतहीति । एकसत्तेति. या व्यक्तिरेकया सत्तया युता सैकसत्ता सती असती चेति भावः, समासस्तु एका चासौ सत्ता च एकसत्ता, एकसत्तया युतं सत् एकसत्तासत् तदेवासत् एकसत्तासदसदिति, न त्वेकासत्ता यस्येति बहुव्रीहिः, 20 'गोस्त्रियोरुपसर्जनस्य' (पा० १-२-४८) इति ह्रखत्वापत्तेः । असमर्थेति, गवर्थक्रियाऽसमर्थेत्यर्थः । सदसत्त्वयोरव्याप्यवृत्तित्वे निदर्शनमाह-असमर्थेति । एवं तहीति, सामान्यरूपा सत्ताऽपि सत्तासम्बन्धरहिता एकसद्रूपत्वान्नसम्पूर्णा, या च स्वयमसम्पूर्णा सा न परान् सम्पूरयितुं प्रभवति, खरूपसत्तावत् खरूपसद्धि द्रव्यादि एकविधसत्तया सत् , अत एव सदसच्च दृष्टम् , तथैव महासत्ताऽपि खभावसत्तयैकया सतीति सती चासती च स्यात्, न चेष्टापत्तिः सामान्यादेरनवस्थाभयेन निःसामान्यत्वात् खरूपसद्रूपताया एवाभिमतत्वादिति वाच्यम् , तथा सति खरूपसद्रूपस्य द्रव्यादेयथा न सन्ति व्यक्तयः,न चानुवर्तनशीलत्वं तथा महासत्ताया अपि स्वरूपसद्रूपत्वात् व्यक्तिरहितत्वं खाश्रययावद्विषयाननुवर्तनशीलत्वं च स्यादिति व्यक्तितुल्यैव स्यात् सा, न सामान्यमिति निष्कृष्टार्थः । सामान्यसत्ताया इति, महासत्तायाः सत्ता सद्रूपता स्वभावः स्वरूपमिति यावत् , सा कीदृशी? अव्यक्ति-व्यक्तिरहिता, न तस्याः काऽप्याश्रयभूता व्यक्तिरस्ति, अत एव किञ्चित् सती, न सम्पूर्णा सतीति भावः । तत्र हेतुमाहएकसद्भावत्वादिति, संश्चासौ भावश्च, सतो वा भावः सद्भावः सत्तेत्यर्थः, एकेन सद्भावः एकसद्भावः, एकया सत्तया सद्रूप इत्यर्थः, यद्वा एकञ्च तत् सच्च, एकसत् , भावप्रधानो निर्देशः, एकसत्तेत्यर्थः, तेन भाव एकसद्भावः, तस्य भावस्तस्मादिति विग्रहः, 30 एकसत्तासत्ता अव्यक्तिरिति प्रतिज्ञा, साध्यमव्यक्तित्वम् , तस्यैव भाष्यं किञ्चित् सती न सम्पूर्णा सतीति, हेतुरेकसद्भावत्वादिति । व्याप्तिं ग्राह्यति-यदेकसत्तयेति, स्वसत्तावत् खरूपसत्त्ववदित्यर्थः । स्वरूपसत्त्वञ्च द्रव्यादिसत्तासम्बन्धप्राकालीनमिति दृष्टान्तं व्याचष्टे-यथेति । हेतोर्भाष्यमाह-स्वभावेति । स्वभावेनैव सद्रूपो भावः, तस्य भावस्तस्मात् , असमवेतसत्ताकत्वादित्यर्थः, न
१ सर्वासु प्रतिषु एय एव हेत्वर्थोऽन्यया वा योच्यते ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org