________________
६२६
न्यायागमानुसारिणीव्याख्यासमेतम् 1 [विधिनियमोभयारे यावत् सामान्यवदेव सात्मकं न घटादिवत्सात्मकमिति, वाशब्दोऽवधारणार्थः तद्वयाख्यानसहितो ग्रन्थः, वैशेषिकपक्षे सत्तासम्बन्धरहितसात्मकदृष्टान्ताभावे चोदिते सामान्यविशेषसमवायानां सात्मकत्ववत् स्यादिति गतार्थम् । सामान्यादीनां सात्मकत्वमसिद्धमिति चेदिति दृष्टान्ते साध्यधर्मासिद्धिचोदना, तत्परिहारो-न, स्वरूपभिन्नेत्यादि यावद् विशेषणं तत् सामान्यमिति दृष्टान्तसाधनम् , छत्रवस्त्रकम्बलादिविशेषणैः 5 छत्रिवत्रिकम्बलिनां सात्मकैरात्मरूपप्रत्ययकरैर्विशेषणत्ववत् स्वरूपभिन्नत्वे सत्यभिन्नवा[ग् ]बुद्धिव्यवहारविषयत्वात् विशेषणं सामान्यं सात्मकञ्चेत्यन्तमुत्तरमेतदिति, अत्राप्युत्तरे बढेव सम्प्रधार्यम्-अस्मान् प्रत्येतदप्युत्तरं न निश्चलमेवेत्यभिप्रायः, यस्मादेतदप्युत्तरं द्रव्यादीनां शशविषाणवदत्यन्तनिरात्मकत्वानभ्युपगमबलेन सप्रसङ्गमुत्थापितं शशविषाणादीनामपि सत्करत्वप्रसङ्गस्तदवस्थ इत्यतःप्रभृति समानप्रचर्च च ।
अन्यदप्यत्र वक्ष्यामः, अत्यन्तनिरात्मकत्वानभ्युपगमादिति वचनेन सदसत्त्वयोरपि 10 विकल्पवत्त्वं वर्ण्यते किञ्चित्सत् समस्तं सदिति, एवमसदपीति, सम्पूर्णनिरतिशयस्वात्मन एव तु सत्त्वात् कुतो विकल्पः सत्त्वे ? अस्तु वा विकल्पवत् तत्पुनर्निरूप्यं त्वया।
(अन्यदपीति) अन्यदप्यत्र वक्ष्यामः-अत्यन्तनिरात्मकत्वानभ्युपगमादित्यनेनैव तावद्वचनेन सदसत्त्वयोरपि विकल्पवत्त्वं वर्ण्यते, द्विधा सत्-किञ्चित्सत् समस्तं सदिति, एवम[स]दपीत्याभ्यां विकल्पाभ्याम् , सम्पूर्णनिरतिशयस्वात्मन एव तु सत्त्वातू-तुशब्दः परमतव्यावर्तनार्थः, यद्यपि मतं परस्य 15 सदसतोः विकल्पवत्त्वमस्तु को दोष इति, तन्न भवति, सत् सत्तरं सत्तममिति सतोऽतिशयाभावात् कुतो विकल्पः सत्त्वे, तस्मात् सम्पूर्णमेव सत्त्वम् , एवमसत्त्वमपि, ततो नात्यन्तानात्मकं सात्मकश्चेत्ययुक्तं
सामान्यवद्वेति सामान्यवदेवेत्यर्थः एतदेव व्याचष्टे-सामान्यवदेवेति । दृष्टान्ते साध्यासिद्धिमाशङ्कते-सामान्यादीनामिति । उत्तरयति वैशेषिकः-नेति, यत् स्वरूपभिन्नं सदभिन्नवाग्बुद्धिव्यवहारविषयं तत्सात्मकं दृष्टम् , ये च छत्रवस्त्रकम्बलद
ण्डादयः स्वानुरूपं प्रत्ययं छत्री वस्त्री कम्बली दण्डीत्येवंरूपमादधति, एवं सामान्यादिरपि, सर्वमेव हि सामान्य स्वव्यक्तीरनुवर्तते 20 खानुरूपं प्रत्ययं जनयति, स्वानुरूपञ्चाभिधानं कारयति, यथा घटत्वं खव्यक्तीरनुवत्तते घट इति प्रत्ययमभिधानञ्च जनयति, एवं
छत्रवस्त्रादिवत् सात्मकञ्चेति न सामान्यादीनां सात्मकत्वमसिद्धमिति भावः । तदेवं प्रशस्तमतिना पूर्वपक्षनिरसनपूर्वकं खमते व्यवस्थापिते आचार्य आह-अत्राप्युत्तर इति, प्रशस्तमतीयोत्तर इत्यर्थः, कुत आरभ्य तदीयउत्तर इत्यत्राह-यस्मादेतदपीति । अनिश्चलत्वे कारणमाह-शशविषाणादीनामपीति । कार्यद्रव्यादीनामत्यन्तनिरात्मकत्वानभ्युपगमादिति त्वदीयवचनेनेदमव
गम्यतेऽर्थापत्त्या, निरात्मकतायामत्यन्तेति विशेषणेन हि किञ्चिन्निरात्मकताप्यस्तीति, यद्यावर्त्तनायात्यन्तेति विशेषणं सार्थक 25 भवेत् , एवञ्च किञ्चिन्निरात्मकं समस्तं निरात्मकमिति तथा तत्प्रतिद्वन्द्विनोऽपि किञ्चित् सात्मकं समस्तं सात्मकमिति भेदद्वय
वत्त्वमवगम्यत इत्याशयेनाह-अन्यदपीति । अभिप्रायमेव वर्णयति-अत्यन्तेति । सत् सर्वदा सम्पूर्णमेव, न तत्र कश्चनातिशयोऽस्तीति किञ्चित्त्वसमस्तत्वादिना वैलक्षण्याभ्युपगमोऽयुक्त इत्याशयेनोत्तरयति-सम्पूणेति, इतरन्यूनीकरणरूपोऽमिभवोऽतिशयः तस्मान्निर्गतः स्वात्मा यस्य तदेवंभूतं सत्त्वं, प्रतियोग्यसमानाधिकरणरूपमिति भावः । अत एव सत् सत्तरं सत्तममिति व्यवहारो
नास्ति, तस्मात् सद्विकल्पो नोचित इत्याह-सदिति, यद्यपि प्रवृत्तिनिमित्तसम्बन्धप्रतियोगिगुणक्रियाप्रकर्षापेक्षः सत्तरः सत्तम 30 इत्यादिव्यवहारो भवति तथापि द्रव्यसामान्ययोः प्रकर्षों नास्तीति ज्ञापनाय नपुंसकनिर्देशः कृतः । तस्मादत्यन्तनिरात्मकमिदमिद
मत्यन्तसात्मकमित्यभिधानमनुचितमतोऽत्यन्त निरात्मकत्वानभ्युपगमादिति हेतुरयुक्त इत्यभिप्रायं प्रकाशयति-तत इति । सत्त्वा
१ सर्वासु प्रति सत्वरज्व० । २ सर्वत्र समस्तमस्तदिति. एवमदपी० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org