________________
सत्तासम्बन्धव्यभिचारिता] द्वादशारनयचक्रम्
६२५ साधनव्याख्या यावत् सत्ताया अपीति, अथ सम्बध्यत इत्यादिना यावत् तदवस्थ इति, पूर्वपक्षिक एव परमतमाशङ्कयोत्तरमाह-अथ तव मतमसदपि द्रव्यादि सम्बध्यते, सत्ताया एवंस्वरूपत्वात् , तत्प्रतिपा[दयति-]सत्ताया एव हि हेतुभूतायाः सामर्थ्यात् तस्या आधारो भवति सद्व्यादीति, एतदपि नोपपद्यते, यस्मात् तद्वच्छशविषाणादिरिति गतार्थम् , एवं व्युत्पाद्य पूर्वपक्षं प्रशस्तमतिराहात्राप्युत्तरं-शशविषाणादिवदत्यन्तनिरात्मकत्वानभ्युपगमात्, केषां ? कार्यद्रव्यगुणकर्मणाम् , द्विविधो हि भाव उक्तः-स्वभावस- 5 द्भावः सम्बन्धसद्भावश्च, इतरेतरासतां सात्मकानामेव सविशेषणासत्त्वादन्योन्यचन्द्रादित्यवदित्यादिपूर्व तस्माच्छशविषाणादीनामेवात्यन्तासतामसत्त्वम् , न प्राक् पश्चादितरेतराद्यसतामनात्मकत्वम् , अतो द्रव्यादिसत् तन्तुषु कारणेषु समवेतं वस्त्वेव सत्तासम्बन्धरहितमपि सात्मकमेव, न खरविषाणवन्निरात्मकम् , तस्माद्युक्तः सत्तासम्बन्धो द्रव्यादीनां न खपुष्पादीनामिति, अत्राह-नन्वसदित्यादि यावत् कथमस्य सात्मक[त्व]मिति ,व्यादेर्निरात्मकत्वापादनार्थो ग्रन्थो गतार्थः, उत्तरपदाभिधेयनिवारकत्वात् सत्प्रतिषेधार्थ- 10 त्वादनात्मकमिति, अत्रोत्तरं-नानेकान्तादित्यादि यावत् तथेहापि, नास्य सदित्यसदिति लौकिकशास्त्रीयदृष्टान्तद्वयेन व्यभिचारप्रदर्शनार्थो बहुव्रीहिसमाश्रयेणापुत्रब्राह्मणवदगुणगुणवदिति च गतार्थो ग्रन्थः, एवमनात्मकत्वे स्थिते तस्य व्यभिचार उच्यते-न च तदपि निरात्मकमित्यादि, वैधhण शशविषाणवदिति, सत्तासम्बन्धरहितत्वान्निरात्मकं खरविषाणवदित्येतत् सांख्यबौद्धकल्पितप्रधानपुरुषपञ्चस्कन्धवत् स्यात्, अथ वा सत्तासम्बन्धात् सात्मकमित्येवमुच्यमाने च प्रधानादिवत् सत्तासम्बन्धादृतेऽपि सात्मकत्वदर्शनादित्यव्या- 15 पिता तथेहापि स्यादिति, त्वत्पक्षे दृष्टान्ताभाव इति चेदित्यादि पूर्वपक्षीकृत्य तदुत्तरं सामान्यवद्वेत्यारभ्य
mamminimoon सामर्थ्यमस्ति यदसदपि द्रव्यादि आधारत्वेनाभ्युपैति, नातः कश्चिद्दोष इत्याशङ्कते-अथ तव मतमिति । असदपि यद्याश्रयेत सत्ता शशविषाणादीनप्याश्रयेत, अविशेषादिति पूर्वपक्षी प्राह-यस्मादिति । शशविषाणादि यथा अत्यन्तनिरात्मकं अत्यन्तासत् तथा सद्व्यादि नात्यन्ता सदिति समाधत्ते शशविषाणादिवदिति । अत्यन्तनिरात्मकत्वाभावमेव दर्शयति-द्विविध इति । परस्परभिन्नानां सात्मकानामेव वस्तूनां स्वरूपसद्भावः सम्बन्धसद्भावश्च, न त्वत्यन्तासतां शशविषाणादीनाम् , तस्य कालत्रयेऽप्य- 20 ननुभवेन निरात्मकत्वात् , द्रव्यादि वस्तु च प्राक् पश्चादितरेतररूपतयाऽसत् प्राक् तन्तुरूपेणेदानी पटरूपेण पश्चाच खण्डपटादिरूपेण सात्मकमेव, अतस्तत्र सत्तासम्बन्धः स्यान्न शशविषागादाविति भावः । तन्तुषु द्रव्यादिरूपेण सात्मकः पटादिः सत्तासम्बन्धाभावेऽपि, सत्तासम्बन्धाच सद्भवति, सत्तासमवायरहितानामपि सामान्यविशेषसमवायानां सात्मकत्वादित्याशयेनाह-अतो द्रव्यादीति द्रव्यादि सत्-द्रव्यादिरूपेण पटादि सात्मकमित्यर्थः, ननूत्पत्तेः पूर्व द्रव्यादेरसत्त्वे कथमस्य सात्मकत्वम् , न सत् असदिति नमः उत्तरपदाभिधेयनिवारकत्वात् , सत्प्रतिषेधात् सात्मकत्वानुपपत्तेरिति शङ्कते-नन्वसदिति । नास्य सत् असदिति बहुव्रीह्याश्रयेग 25 समाधत्ते-नानेकान्तादिति स्वरूपसत एव द्रव्यादेः सत्तासम्बन्धस्य प्रतिषेधः क्रियते, तस्मादसदपि सात्मकं सत्तावत् प्रकाशितप्रकाशनवैयर्थ्यवत् , अतो यदसत् तन्निरात्मकमिति नियमोऽनैकान्तिकः, अथवाऽपुत्रब्राह्मणवदिति लौकिकः अगुणगुणवदिति शास्त्रीयो . दृष्टान्त इति । ननु सत्तादिरपि असत्त्वान्निरात्मक एव भवतु, अतोऽनैकान्तिकत्वं तदवस्थमेवेत्याशङ्कते-न च तदपीति । सत्तासम्बन्धरहितोऽपि सात्मक इत्यत्र विपरीतदृष्टान्त एवास्ति, यः सत्तासम्बन्धरहितः स निरात्मकः यथा शशविषाणादिरिति, अथवा सांख्याभिमतप्रधानवत् पुरुषवद्वा, बौद्धकल्पितपञ्चस्कन्धवद्वेति निरात्मकतायां दृष्टान्ता इति भावः । एते न वैधHदृष्टान्तरूपाः 30 किन्तु व्यभिचारनिरूपका इत्याशयेनाह-अथवेति । यत् सत्तासम्बन्धरहितं तत्सात्मकमित्यत्र नास्ति वैशेषिकस्य दृष्टान्त इत्याशते-त्वत्पक्ष इति वैशेषिकपक्ष इत्यर्थः सन्ति सामान्यविशेषादयः सत्तासम्बन्धरहितस्य सात्मकत्वे दृष्टान्ता इति प्रतिविधत्ते
१सि. क. 'वाचेयं । २ सि.क. तस्याचारी भ०।३ सि. क. अनन्यः । ४ सि. क. "देर्निरात्मकत्वादेर्नि। ५ सि.क. तस्यान्य।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org