________________
६२४
___न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे स्योपपादनार्थ यानि साधनानि व्युत्पादितानि पूर्वपक्षीकृत्य व्यावर्तितानि च, तेषु योऽन्यो व्युत्पत्तिविकल्पः सुष्टु व्युत्पाद्य व्यावर्तितः पूर्वपक्ष इत्यभिमतः सोऽप्येवमनुपपन्न इति विचारपर्यन्तस्यास्योत्तरस्यानुपपत्तौ तुषकण्डवत् सर्वविचारनैरर्थक्यात् पूर्वपक्ष एवोत्तरपक्षो भवतीत्यभिप्रायः ।
यत्तावदुक्तं नासतां सत्करी सत्ता, शशविषाणादीनां सत्करित्वप्रसङ्गात् , नासावन्येना5 नभिसम्बन्धात्.........असाधनत्वम् , प्रतिज्ञाविशेषो वा.........प्रतिविशिष्टत्वम् , अथ द्रव्यादीनां तदानीमसत्त्वमिति चेत् , तेषामसत्त्वमसिद्धं द्रव्याद्यभ्युपगमे सत्त्वात् , प्रागुत्पत्ते रिति चेत् सिद्धसाधनमेतत् , तदा तेषां सत्तासम्बन्धानभ्युपगमात् , नासता सम्बध्यते सत्ता, विशेषणत्वात् , दण्डवत् , यथा विशेषणस्य दण्डादेः सता देवदत्तेन एवं सत्ताया अपि, अथ
सम्बध्यते शशविषाणादौ सत्तासम्बन्धस्तदवस्था, अथ तव मतमसदपि द्रव्यादि सम्बध्यते 10 सत्ताया एवंस्वरूपत्वात् , तत्प्रतिपाद्यसत्ताया एव हि हेतुभूतायाः सामर्थ्यात् तस्या आधारो
भवति सद्रव्यादीति तद्वच्छशविषाणादिरपि तत्सामर्थ्यात्तस्या आधारः स्यात् , मैवम् शशविषाणादिवदत्यन्तनिरात्मकत्वानभ्युपगमात् कार्यद्रव्यगुणकर्मणाम् , नन्वसदित्युत्तरपदाभिधेयनिवारकत्वात् कथमस्य सात्मकत्वम् ? न, अनेकान्तात् , नास्य सदित्यसत्, न
स्वयमसत् , यथाऽपुत्रब्राह्मणवत् नास्य पुत्रोऽस्तीत्यपुत्रो न तु पुत्रो न भवतीति प्रतिषिध्यते, 15 अगुणगुणवद्वा नास्य गुणोऽस्तीति गुण एव सन्नगुण उच्यते तथेहापि, न च तदपि निरात्मकं
सत्तासम्बन्धात् वैधर्येण शशविषाणवत्.........त्वन्मते दृष्टान्ताभाव इति चेत् सामान्यवद्वा......सामान्यवदेव सात्मकं न घटादिवत् सात्मकम् , सामान्यादीनां सात्मकत्वमसिद्धमिति चेन्न स्वरूपभिन्नत्वे सत्यभिन्नवाग्बुद्धिव्यवहारविषयत्वात् , विशेषणं सामान्यं सात्मक
ञ्चेति, अत्राप्युत्तरे बढेव सम्प्रधार्यम् । 20. (यदिति) यत्तावदुक्तम् नासतामित्यादि पूर्वपक्षो यावत् सत्करित्वप्रसङ्गादित्यत्र प्रक्रान्तं प्रशस्तमतिना नाविन्येनानभिसम्बन्धादित्युत्तरं यावदसाधनत्वमित्येवं प्रथमो व्युत्पत्तिविकल्पः, प्रतिज्ञाविशेषो वेत्यादि द्वितीयो गतार्थः सोत्तरो यावत् प्रतिविशिष्टत्वम् , अथ द्रव्यादीनामित्यादिस्तृतीयः सोत्तरो यावत् तेषामसत्त्वमसिद्ध[म् ] द्रव्याद्यभ्युपगमे सत्त्वादि[ति], अत्र चोद्य-प्रागुत्पत्तेरिति चेत्-प्रागुत्पत्तेर्न सन्ति द्रव्यादीनि
तस्मादसत्त्वं सिद्धमिति, अत्रोत्तरं सिद्धसाधनमेतत् तदा तेषां सत्तासम्बन्धानभ्युपगमादिति, एतेषु त्रिषु 25 व्याख्याविकल्पेष्वसारबुद्ध्या-नासता सम्बध्यते सत्ता विशेषणत्वात् , दण्डवत् , यथा विशेषणस्येत्यादि टीकाकृतः प्रशस्तमतेरप्युत्तरसाधनानि निराकरोति-यत्तावदुक्तमिति । नासतां सत्करी सत्ता, शशविषाणादीनामपि सत्करित्व. प्रसङ्गादिति मूलं व्याख्यातुकामः प्रशस्तमतिराह-नासाविति । अथेति, सम्बध्यमानावस्थायामाश्रयस्यासिद्धत्वात् कमाश्रयत्याश्रयिण इति भावः । तदा खरूपतो द्रव्यादयः सन्तीयाशयेनाह-तेषामसत्त्वमिति द्रव्यादीनामसत्त्वमित्यर्थः, उत्पत्तिप्राक्काले तु द्रव्यादीनामसत्त्वं सिद्धमेवेत्याशंक्य सत्तासम्बन्धस्य तदानीमनभ्युपगमादिष्टमेवासत्त्वमिति समाधत्ते-प्रागत्पत्तरिति । 30 अथ यद्विशेषणं तत्सता सम्बध्यमानं दृष्टम् , यथा दण्डः देवदत्तेन सता, सत्ताऽपि विशेषणमत: सतैव सम्बध्यते नासता, यद्यसताऽपि सम्बध्येत तदा शशविषाणादिनाऽपि सम्बध्येत, न चैवमिष्टमिति पूर्वपक्षयति-नासतेति । ननु सत्ताया एवंविध
१ सि. क. सत्ताव०। २ सि. क. नाश्यान्यना। ३ सि. न्धाभ्युः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org