________________
www
mmmmmmanorammamrem
असत्सकरत्वनिरासः] द्वादशारनयचक्रम्
६२३ सत्करी सत्ता, किं तर्हि ? सतामेव, तस्मादसतां सम्बन्धानभ्युपगमाददोष इत्यत्रोच्यते-एष विकल्पोऽनुपपन्न इति, त्वयैव तर्हि कृतमेवं ब्रुवता-त्वयैव तर्हि असतां सत्करी सत्ता न भवतीत्येतदस्मदनुष्ठेयमनुष्ठितमतोऽस्य सिद्धत्वादत्र वयं निश्चिन्ताः संवृत्ताः, अपि चैवमपि नैवैतदित्यादि, यद्यपि मया त्वदनमि. ज्ञताख्यापनार्थमुक्तमसतां सत्तासम्बन्धो नास्तीति, नैतदप्येवम् , किन्त्वसतामेव सत्तासम्बन्धः स्याद्वा नवेति विचार्यम् , किं कारणमिति चेदुच्यते-शशविषाणादेः सत्करत्वप्रसङ्गः,-सत्तासम्बन्धात् प्राक्तु । विषयो द्रव्यादिकार्य तत्स्वभावेनैव किं सत्, उत सत्तासम्बन्धात् सदित्येतस्मिन् सन्देहे स्वभावसद्भूतस्य कार्यस्यासत्त्वप्रतिपादनद्वारेणायं विचारः प्रस्तुत एवेति कथं प्रस्तुतपरित्यागेन परिहारो युज्यत इत्यभिप्रायः।
अपि च ननु सः प्राग विषयसद्विकल्पोपपादनायागुणगुणत्वदृष्टान्तो योऽपि चावयवार्थविकल्पेष्वन्त्यो व्युत्पत्तिविकल्पः सुष्ठ व्युत्पाद्य व्यावर्तितः सोऽप्येवमनुपपन्नः।
अपि च ननु स प्राग्विषयेत्यादि योऽयमस्माभिः प्रागुदाहितो यत्सद्भवतीत्यादिनोपपत्ति- 10 ग्रन्थेनागुणगुणस्थानीयसत्ताया एवाभाव इति, यद्यविद्यमानद्रव्यादिविषयं सत्ता स्वयमसती सन्तं कुर्याच्छशविषाणादीन् वन्ध्यापुत्रादिः सन्तं कुर्यादित्येकः प्रसङ्गः आपिपादयिषितस्तथाधस्थः, एतदनिच्छतो द्रव्यादीनां स्वत एवास्तित्वे सत्तासम्बन्धो व्यर्थः स्यादित्येष वा दोषः, निर्विषयत्वात् सत्तासम्बन्धस्य, अनिष्टश्चैतत् , अतोऽसत्सत्करत्वमेव सत्ताया इत्येष एव विकल्पो भवितुमर्हति । तच्चाप्येवमनुपपन्नमसत्सत्करत्वं विचारितविधिनेत्युपसंहरति योऽपि चावयवार्थेत्यादि, अनुपपन्नविकल्पत्व[1]दित्यस्य साधनस्या- 15 वयवार्थाः-सतामसतां सदसतां वा द्रव्यादीनां सत्करी सत्तेति विकल्पाः, तेषु नासतामित्यस्य विकल्प
कटन्यां पूर्वपक्षतया वैशेषिकमतोपन्यासे वैशेषिकः पूर्वोक्तं गुणागुणत्वदृष्टान्तं स्मारयतीति भाति। असतां सत्तायोगान्न सत्त्वं सम्भवतीति यन्मयाऽनुष्ठेयं तत्त्वयैवानुष्ठितमिति न किञ्चिदत्रास्माभिः कर्त्तव्यमस्तीति न पुनर्वयं सिद्ध साधयितुं प्रयतामहे इत्याशयेन समाधत्तेत्वयैव तहीति । ननु सत्तासम्बन्धादुत्पत्तेर्वा प्रागसत् कार्यमुत्पत्त्यनन्तरं सत्तया सम्बध्यते इत्याशयेन त्वया यो वाद आरब्धः सोऽस्मद्विकल्पाविषयोऽपि त्वदनभिज्ञताख्यापनायैव प्रतिवादः कृतः, वस्तुतस्तु सत्तासम्बन्धाव्यवहितप्राकालावच्छिन्नत्वविशिष्टकार्य- 20 त्वावच्छिन्नर्मिकसदादिविषय एव विकल्पः, तस्यैव परिहारः त्वया कार्यः, त्वदीयपरिहारस्तु नैतद्विषय इत्याशयेनाह-अपि चैवमपीति । त्वदनभिज्ञतेति त्वयाऽस्मदुक्तविकल्पस्यार्थो न ज्ञात इति ख्यापनार्थमित्यर्थः । पूर्वमसतां पश्चात् सत्तासम्बन्धो न सम्भवतीत्यक्तं परन्त्वस्मद्विकल्पविषयो नैवैष इत्याशयेनाह-नैतदप्येवमिति । उत्पत्तिप्राकालावच्छिन्ने धर्मिणि तत्कालावच्छेदेनैव सदादिविषयो विचारोऽस्मदभिमत इत्याशयेनाह-किन्त्यसतामेवेति । परिहार इति उत्पत्तिप्राक्काले कार्य सद्वाऽसद्वेति प्रस्तुतं विचारं विहायोत्पत्त्यनन्तरकालिकसत्तासमवायविषयकपरिहारोऽत्र कथं युज्यत इति भावः । अथ कटन्यां टीकायाञ्च 25 वैशेषिकेणात्र विषये विकल्पानार चय्यानारचय्य वा सम्यक् पूर्वपक्षं विधाय स प्रतिविहितः, तत्र सत्तासमवायोन्मूलनेन च तत्प्रतिविधानस्यानुपपत्तौ तेनोद्भावितः पूर्वपक्ष एवोत्तरपक्षो भवतीति प्रदर्शनायाह-अपि चेति । प्रागुवाहित इति यदसद्भवति तत्र सत्तासम्बन्धवैयर्थ्यमित्येकः प्रसङ्गः, यदसत्तत् खरविषाणाविशिष्टमित्यपरः प्रसङ्गः पूर्वमुपदर्शित इत्यर्थः, उभयथाऽपि सत्तासम्बन्धस्य निर्विषयत्वमतो गुणस्यैव सतोऽगुणत्ववत् सन्नेव भावोऽसन्नित्युच्यत इत्यशक्यं वक्तुम् , एवं च त्वदीयस्यास्य प्रतिविधानस्येत्थमनुपपन्नत्वे उद्भाविते त्वदुद्भावितः पूर्वपक्ष एवासतां सत्करी सत्तेत्येवंरूप उत्तरपक्षो भवतीति भावः । भवतु असतां सत्करी सत्तेति 30 विकल्पः, तथापि मदिष्टसिद्धेरित्याशङ्कायामाह-तच्चाप्येवमिति । एवं कटन्दीकृदुक्तं प्रतिविधानं निरस्य पूर्वपक्षमेव व्यवस्थाप्य
१ सि.क. स्यानिष्वाथैतवतो।
न० च० २.(७९)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org