________________
६२२
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे सत्तासम्बन्धात् किमात्मकमिति स्वरूपावधारणं कार्यम् , तस्यामवस्थायां सत्तासम्बन्धशून्यत्वान्नैवास्ति तत् , अनवधृतात्मकत्वात् खपुष्पवत् , अन्यथाऽसत्त्वात्-अनवधृतात्मकत्वे तस्यासत्त्वादिति, नापि सदसतामिति तृतीयविकल्पस्योत्तरं-ऐकात्म्यानुपपत्तेरिति-अनेकान्तवादाभ्युपगमस्य पूर्वाभ्युपगमेन विरोधात् ,
अथवैकात्म्यानुपपत्तेरित्यनार्हतनयेन, प्रकाशतमसोरिवात्यन्तवैधात्-सत् सोपाख्यमसन्निरुपाख्यम् , तयोः 5 सदसतोर्वैधादेकत्र न युज्यते सदसत्त्वं, घटखपुष्पवदिति-घटः सोपाख्यः सत्त्वात् , असत्त्वात् खपुष्पं निरुपाख्यमिति वैधादेकत्राभावस्तयोरेवं सदसदात्मकं कार्यमित्ययुक्तम् , किश्चान्यत् , उभयदोषप्रसङ्गाच, तद्वथाचष्टे- यदसत्तत् खरविषाणेत्यादि यावत् त्वन्मतसिद्धानुपपत्तिरेवायं विकल्प इति, असत्पक्षे खपुष्पाविशेषः, सत्पक्षे सत्तासम्बन्धवैयर्थ्यम्, सदसतोवैधात् कार्ये सदसत्ता नेति च त्वन्मतविरुद्धमेवानुपपन्नत्वं तस्माद्विकल्पानुपपत्तेर्न सत्तासम्बन्धोऽभिधानप्रत्ययहेतुरिति निगमन[मा]ह ।
आह
नन्वगुणगुणवत् स्वभावसद्भावेन सन्नेव भावोऽसन्नित्युच्यतेऽतो नैवासतां सत्करी सत्ता, त्वयैव तर्हि कृतमेवं ब्रुवता एतदस्मदनुष्ठेयम् , अत्र वयं निश्चिन्ताः संवृत्ताः, अपि चैवमपि नैवैतत् , किन्त्वसतामेव सत्तासम्बन्धः स्याद्वा न वेति विचार्यम् ।
नन्वगुण[गुणव]दित्यादि यावन्नैवासतां सत्करीति, अस्तु तावत् सतमेव सत्करी सत्ता 15 नासताम् , यथा मया प्रागुक्तो दृष्टान्तः स्वभावसद्भावप्रतिपादनार्थं भावस्य, यथा नास्य गुणोऽस्तीत्यगुणो
गुण एव सन्नगुण इत्युच्यते तथा स्वभावसद्भावसन्नेव भावो नास्त्यस्य सन्नित्यसन्नुच्यते न तु स्वयमसन्निति तथा द्रव्यादयोऽपि सन्तः, तेषान्तु सत्तया सह सम्बन्धः प्रतिषिध्यते, न तु स्वरूपसद्भाव इत्यतो नैवासतां खरूपत्वात् खपुष्पवत्तन्नैव भवेदिति भावः । यदि तदा सदसदात्मकमभ्युपगम्येत तदाप्याह-नापीति । सत्त्वस्यासत्त्वस्य चैक आत्मा
खरूपं न सम्भवति त्वन्मतेन, यदि तथा स्वीक्रियते तर्हि अनेकान्तवादाभ्युपगमः प्रसक्तः, स च त्वदीयपूर्वाभ्युपगतैकान्तविरोधी20 त्याशयेनाह-अनेकान्तेति । मतान्तरेण समाधानकरणमनुचितमिति मत्वा तन्मतेनैव हेतुं व्यावर्णयति-अथवेति, एकश्चा
सावात्मा च एकात्मा तस्य भाव ऐकात्म्यं तस्मात् , सत्त्वासत्त्वयोर्यत एक आत्माऽनुपन्न इत्यर्थः । कुत एक आत्माऽनुपपन्न इत्यत्राह-प्रकाशेति । अत्यन्तवैधर्म्यमेव दर्शयति-सत सोपाख्यमिति, उपाख्या-अभिधानं तत्सहितं सोपाख्यम् , तद्रहितं तु निरुपाख्यम् , घटः सदित्युपाख्येयत्वात् सोपाख्यः खपुष्पं तु सदित्युपाख्यातुमयोग्यत्वान्निरुपाख्यमिति सदसतोः प्रकाशतमसोरिव
वैधम्यान्नकस्योभयात्मता युक्तेति भावः । ननु सत्त्वात् सोपाख्यमसत्त्वात् निरुपाख्यमित्युक्त्या कथं सदसत्त्वयोवधर्म्य सिद्ध्यति 25 हेत्वभावात् , तथा च स्यात् कार्य सदात्मकमित्याशङ्कायां दोषान्तरमाह-उभयदोषेति, खपुष्पाविशिष्टत्वं सत्तासम्बन्धवैय
र्थ्यञ्चोभयपक्षे दोषावुक्ती, विलक्षणदोषप्रसञ्जकत्वादेव वैधर्म्ययोः सदसत्त्वयोरेकत्रासम्भव इति भावः । अनुपपन्न विकल्पत्वादिति प्रतिज्ञातमेव त्वन्मतसिद्धानुपत्तिरेवायं विकल्प इति निगमयतीत्याह-तस्मादिति । ननु असतां सत्तासमवाय इत्यत्रासत्पदे नञा प्रसज्यप्रतिषेधः सन् नास्तीत्येवंरूपो न विवक्षितः, किन्तु पर्युदास एव सदृग्ग्राही विवक्ष्यते तेन खरूपसदेव वस्तु
असदित्युच्यते, यथा स्वरूपसन् गुण एव गुणसमवायाभावादगुण इत्युच्यत इति शङ्कते-नन्वगुणगुणवदिति । सत्ता स्वस30 मवायात् खरूपसत्तामेव वस्तुतः सत्करी भवति, नात्यन्तासताम् , भावः स्वरूपतः सन्नेवेति प्रदर्शनाय दृष्टान्तो गुणोऽगुण इति प्रदर्शितस्तथैव प्राक् स्वरूपसन्त एव द्रव्यादयः सत्तायोगाभावादसन्त उच्यन्ते, तथा च तदानीं सत्तासम्बन्धप्रतिषेध एव क्रियतेऽसच्छब्देन, न तु स्वरूपसत्त्वमपि निराक्रियत इत्याशयं वर्णयति-अस्तु तावदिति । मया प्रागुक्त इति,
क. तथा।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org