________________
विकल्पानुपपत्तिः] द्वादशारनयचक्रम्
६२१ अप्रमाणत्वमसत्यत्वात् , अ[थ] सत्यं न तर्हि सर्वमनृतम् , तस्य सर्वान्तःपातित्वात् , तत्सत्यत्ववच्छेषस्यापि सत्यत्वात् सर्वथानुपपन्नं वाक्यम् , एवं सत्तासमवायात् सदित्यादिसर्वव्यविशेषलक्षणविरोधारम्भादिविशेषधर्मापादनवाक्यानि नोपपन्नानि, सर्वपदार्थानां वैशेषिकीयाणां सत्तासमवायमूलविशेषात्मकत्वात् द्रव्यादिकार्योत्पत्तिविचारप्रकृतेश्च तदेव विचार्यते, तत्प्राणत्वात् वैशेषिकर्मतस्येति ।
स्यान्मतं कथं पुनरनुपपन्न विकल्पत्वं सत्तासमवायस्येत्यत्रोच्यते -
इह प्राक् सत्तासम्बन्धात् सतां वा सत्तासम्बन्धः, असतां वा, सदसतां वा ? न तावदसताम् , खपुष्पाविशेषप्रसङ्गात् , नापि सतां भूतत्वात् , सत्तावत् , प्रकाशितप्रकाशनवैयर्थ्यवत् , सताञ्च पुनः सत्तासम्बन्धात् सत्त्वादनवस्थाप्रसङ्गात् , प्राक् सत्तासम्बन्धात् तच्च किमात्मकमिति स्वरूपावधारणं कार्यम् , अन्यथाऽसत्त्वात् , नापि सदसताम् , ऐकात्म्यानुपपत्तेः सदसतोवैधात् घटखपुष्पवत् , उभयदोषप्रसङ्गाच्च-यदसत्तत् खरविषाणाविशिष्टम् , यत्सद्भवति 10 तत्र सत्तासम्बन्धवैयर्थ्यम् , सदसतोवैधात् कार्ये सदसत्ता नेति च त्वन्मतसिद्धानुपपत्तिरेवायं विकल्प इति ।
इह प्राक् सत्तासम्बन्धात् सतां वेत्यादि विकल्पत्रयोपन्यासो गतार्थः, एवं भवन्मतं स्यात् , तदुत्तरं-न तावत् [अ]सतामित्यादि, लघुत्वादुत्क्रमेणासतां सत्तासम्बन्धात्सदभिधानप्रत्ययप्रतिषेधः प्रागिति, नापि सतामिति वैयर्थ्यांपादनं भूतत्वात् सत्तावदिति गतार्थम् , प्रकाशितप्रकाशनवैयर्थ्यवदिति 15 द्वितीयमुदाहरणं लोकसिद्धं शास्रसिद्धात् सत्तोदाहरणाद्भेदेनोपन्यस्तमिति विशेषः, न वैयर्थ्यदोष एवास्मिन् विकल्पे, किं तर्हि ? सताञ्च पुनः सत्तासम्बन्धात् सत्त्वादनवस्थाप्रसङ्गादिति-विद्यमानानामेव पुनरपि सत्तासम्बन्धात् सत्त्वेष्टौ सत्ताया अपि तत्सत्वाभिधानप्रत्यय[:]कार्याः सत्तान्तरसम्बन्धात् , तस्या अपि तथेत्यनवस्था स्यात् , किश्चान्यत्-प्राक् सत्तासम्बन्धादित्यादि यावदन्यथाऽसत्त्वादिति-तच्च द्रव्यादि पूर्व
दार्शन्तिक समीकरोति-एवमिति । के तेऽत्र विकल्पा येऽनुपपन्ना इत्यत्राह-इह प्रा यदा कार्यद्रव्यादेः सत्तया सम्बन्धोऽ- 20 भिमतः, ततः पूर्व तत् कार्यद्रव्यादि किं सत् ? किमसत् ? किं सदसत् ? यत् पश्चात् सत्तया सम्बध्यत इति भावः। सत्तासम्बन्धवादिनां गत्यन्तराभावादेष्वन्यतम एव विकल्पो मतः स्यादित्याशयेनाह-एवमिति । क्रममुल्लङ्यादावसत्पक्षप्रतिक्षेपे बीजमाह-लघुत्वादिति, व्योमसारसादीनामसतां सत्तासम्बन्धस्य केनाप्यस्वीकृतत्वाद्वादाभावाल्लघुत्वादिति भावः । सतां सत्तासमवायविकल्पं दूषयति-नापीति सत्तासमवायात् पूर्वमपि तद्वस्तु यदि सदिति ज्ञायतेऽभिधीयते वा तर्हि सत्तासमवायकृत्यस्य प्रागेव भूतत्वात् सत्तावत् पुनः सत्तासम्बन्धकल्पनाऽनर्थिकेति भावः । सत्तासमवायात् प्राक् वस्तु किं स्वतः सत् ? सत्तासम्बन्धाद्वा? तत्राये यथा खतः सत्याः 25 सत्तायाः सत्तासम्बन्धो व्यर्थः तथा स्वतः सतो वस्तुनोऽपीति सत्तोदाहरणम् , यदि तदा सत्तासम्बन्धात् सत् तहि यथा प्रकाशेन प्रकाशितस्य वस्तुनः पुनः प्रकाशेन प्रकाशनमनर्थक तथा पुनः सत्तासम्बन्धो व्यर्थ इति द्वितीयोदाहरणम् ,प्रकारान्तरेण उदाहरणद्वयप्रदर्शनाभिप्रायमादर्शयति-प्रकाशितेति । सतामपि सत्तासम्बन्धे दोषान्तरमपि, अप्रामाणिकापरापरसत्तासमवायकल्पनाऽवश्रान्त्या अनवस्थापत्तिरित्याह-न वैयर्थ्यदोष एवेति । सत्तासम्बन्धात् प्राग वस्तु न सत् नाप्यसत् , सत्तासम्बन्धात् सदित्यभ्युपगमादित्यत्राह-प्राक् सत्तासम्बन्धादिति यदि तदानीं न सत् नाप्यसत् तर्हि किमात्मकं तदित्यवधार्यम् । अनवधारणे चानवधृत- 30
१ क. सर्वदान्यविशेष । २ सि. क. °मतं च तस्य। ३ सि. क. न्धात् सत्वं तस्या ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org