________________
न्यायागमानुसारिणी व्याख्यासमेतम्
[विधिनियमोभयारे
इत उत्तरमस्मादेव न्यायात् कर्टन्द्यां टीकायाञ्च यः पूर्वपक्षस्तं तथैव समर्थयितुमाह - ततोऽनुपपन्नविकल्पत्वात् सत्तासमवायात् सत्, द्रव्यत्वसमवायाद्रव्याणि, गुणत्वसमवायागुणाः कर्मत्वसमवायात् कर्माणि रूपत्वाद्रूपमित्यादिना द्रव्यादीनां लक्षणविरोधाविरोधाssरम्भानारम्भकार्यकारणादिभिश्च सत्तादिभ्यश्च षडविशेषमुखेन विशेषाभिधानं सर्वमयुक्तं कर्त्तुम्, सर्ववाक्यानृतत्ववत् ।
5
६२०
ततोऽनुपपन्न[विकल्प]त्वादित्यादि, उद्देशवाक्यं - सत्तासम्बन्धात् सन्ति द्रव्यत्वाद्रव्याणि गुणत्वगुणाः कर्मत्वात् कर्माणि रूपत्वाद्रूपम् आदिग्रहणात् पृथिवीत्वादिभ्यः पृथिव्यादयः रसत्वादिभ्यो रसादयो गमनत्वादिभ्यो गमनादय इत्यादि, 'क्रियावद्गुणवत्समवायिकारणं द्रव्यलक्षणम्' (वै० सू० अ० १ ० १ सू० १५) 'द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति 10 गुणलक्षणम्' (वै० अ० १ ० १ सू० १६ ) ' एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम्' (वै० अ० १ ० १ सू० १७ ) इत्यादिना द्रव्यादीनां नानात्वं विरोध्यविरोध्यारम्भानारम्भकार्यकारणादिभिश्च सत्तादिभ्यश्च 'सदनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्म - णामविशेष:' (वै० अ० १ ० १ सू० ८) इति षडविशेषमुखेन विशेषा भिधानं सत्तासमवायबीजं सर्वत्र तत्सर्वमयुक्तं कर्त्तुम्, कस्मात् ? अनुपपन्नविकल्पत्वात् सर्ववाक्यानृतत्ववत्, यथा सर्वं 15 मदीयं त्वदीयमन्यदीयञ्च वाक्यमनृतमिति ब्रुवाणस्य तस्य वाक्यं सत्यमनृतं सत्यानृतं वा स्यात् सर्वथा नोपपद्यते, यदि तद्वाक्यमप्यनृतं सत्यानृतं वा ततः सर्ववाक्यानृतत्वप्रतिपादनासमर्थम्, स्वयमप्रमाणत्वात्
www
आस्तां तावदस्मन्मतं पूर्वनयमतेनैवैतत् त्वद्दर्शनमनुपपन्नमित्याशयेन यत् प्रतिज्ञातं तदेभिर्हेतुभिरुपपादितमिति भावः । अथ कटन्दीति ख्यातायां रावणकृतायां वैशेषिकदर्शनव्याख्यायां तट्टीकायाञ्च्चामुमेव न्यायमुक्तमवलम्ब्य योऽसौ वैशेषिकसिद्धान्तो परि पूर्वपक्षः प्रदर्शितः तमेव तत्रोक्ततन्निराकरणयुक्तीर्निरस्य समर्थनं विधातुं प्रतिजानीते - तत इति, सत्तासमवायोन्मूलनात् 20 असन्निहितभवितृकत्वाच्चेत्युक्तन्यायादित्यर्थः, अस्य पदस्यायुक्तं कर्तुमित्यनेनाभिसम्बन्धः, अत एवावतरणिकायामस्मादेव न्यायादित्युक्तम्, अनुपपन्नविकल्पत्वादिति तु कटन्यां पूर्वपक्षिणोतो हेतुः । उक्तहेतोः प्रतिज्ञाबोधकं वाक्यमादर्शयति- उद्देशवाक्यमिति । आदिग्रहणादिति, रूपत्वाद्रूपमित्यादीत्यत्रादिग्रहणादित्यर्थः, एतेन द्रव्यत्वकर्मत्वावान्तरधर्मयोगैर्द्रव्यकर्मावान्तरवस्तूनाम प्रदर्शनलक्षणन्यूनता शङ्का निरस्ता । इत्यादिनेति, आदिना विरोध्यविरोध्यारम्भानारम्भकार्यकारणबोधकसूत्राणि प्रागुपदर्शितानि ग्राह्याणि, एभिर्वचनैर्द्रव्यादीनां नानात्वमुच्यते, सत्तादिभ्यश्च षड्भ्योऽविशेषत्वमुच्यत इति सत्तादिषड्धर्मप्रकाशकं 25 सूत्रं दर्शयति-सत्तादिभ्यश्चेति । सर्वेषां सत्तासमवायात् सद्रूपतायामेव विशेषाभिधानसम्भवदाह-सत्तासमवायबीज - मिति । अनुपपन्नविकल्पत्वादिति, विविधाः कल्पा विकल्पाः, अनुपपन्ना विकल्पा यस्य तद्वाक्यमनुपपन्नविकल्प तद्भावस्तस्मात् एतद्वाक्य प्रतिपाद्यविषयसम्भवद्विकल्पसमर्थक प्रमाणराहित्यादिति भावः । दृष्टान्तं घटयति-यथा सर्वमिति दृष्टान्ते विकल्पाः किमिदं वाक्यं सत्यं वा ? असत्यं वा ? सत्यानृतं वा स्यादिति । तत्र विकल्पानुपपत्ति दर्शयति-यदीति ।
१ ग्रन्थोऽयमधुना न क्वापि समुपलभ्यते, अतोऽत्र मया यथाशक्ति पाठः संशोधितः व्याख्यातश्च, मुरारिक विविरचिते अनर्घराघवनाटके पञ्चमेऽङ्के 'भो भो लक्ष्मण, वैशेषिककटन्दीपण्डितो जगद्विजयमानः पर्यटामि, क्वासौ राम:, तेन सह विवदिष्ये' इति दृश्यते, रावणवचनमिदम् तेन कटन्दीकर्त्ता रावणनामा कश्चित् कोविद इत्यनुमीयते । १ सर्वत्र यं इति श्यते । ३ तदेव इति सर्वत्र ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org