________________
स्वरूपसद्रूपत्वनिरासः] द्वादशारनयचक्रम्
इत्थं प्रागसतः सकारणस्य कार्यस्य खपुष्पाविशेषो मा भूदिति -
अथोच्येत नित्योत्पन्नत्वात् कार्यद्रव्यगुणकर्मणामेव सत्तासमवायात्मत्वमिति, एवं तर्हि कार्यद्रव्यगुणकर्माण्यपि सत्तास्वरूपत्वादनुपनिपातिस्वरूपत्वाच्चात्माभेदात् केनचित्सम्बन्धेऽसति स्वात्मस्वरूपं स्वात्मन्यादधति, तत्पदार्थत्ववदिति हेतुफलसंबन्धित्वाभावः स्यादिति सत्तादिसम्बन्धात् सन्ति द्रव्यादीनीत्ययुक्तम् ।
अथोच्येत नित्योत्पन्नत्वादित्यादि, स्वसद्भावेनैव सन्ति पृथिव्यादिचतुर्विधपरमाण्वाकाशकालदिगात्ममनांसि द्रव्याणि सत्तासमवायौ गुणाश्च विभुपरिमण्डलादयः, किन्तु कार्यद्रव्यगुणकर्मणामेव सत्तासमवायात्मत्वमिति, अत्रोच्यते-एवं तहीत्यादि यावत् तत्पदार्थत्ववदिति, यथाऽऽकाशपरमाण्वादिषु नोपनिपतितुं शीलमस्याः सत्तायास्तथा कार्यद्रव्यगुणकर्मस्वपि सत्तास्वरूपत्वादनुपनिपातिस्वरूपत्वाचात्माभेदः तस्याः सर्वपरमाण्वाकाशादिपदार्थेषु आत्माभे[दा]च न केनचित्सम्बन्धोऽस्याः स्यात् , असति च सम्बन्धे 10 यथा सत्ता सत्ता द्रव्यत्वगुणत्वादिसम्बन्धाभावे सत्येव, पदार्थत्वा [त् ] स्वरूपसद्भावाच्च स्वात्मस्वरूपं स्वात्मन्यादधातीत्येवंस्वरूपा तथा सत्तादिसमवायमन्तरेण तान्यपि कार्यद्रव्यगुणकर्माणि भवन्तु, आकाशपरमाण्यादिवत् सत्तावच्चेति किं तद्वयतिरिक्तसत्ताद्रव्यत्वादिसमवायकल्पनया ? तस्माद्धेतुफलसम्बन्धित्वाभावः स्यात् सत्तासमवाययोः खपुष्पवदिति, इति सत्ता[दिसम्बन्धात्स न्ति द्रव्यादीनीत्ययुक्तम् - तस्मात् सत्तासम्बन्धाद्र्व्यं सत् , गुणः सन् , कर्म सञ्चेत्ययुक्तम् आदिग्रहणात्-द्रव्यत्वाभिसम्बन्धाद्रव्याणि पृथिव्यादीनि- 15 गुणत्वाभिसम्बन्धाद्गुण[7]. रूपादयः, कर्मत्वाभिसम्बन्धात् कर्माणि गमनादीनीत्ययुक्तम् , इतिशब्दस्य निगमनार्थत्वात् , एवं तावत् यत् प्र[त्यजिज्ञास्महि[अ]सन्निहितभवितृकत्वात् खपुष्पवत् कार्यमसदिति पूर्वनयदर्शनेनैव तदुपापीपदाम । तदेवं कार्यकारणयोः परमाण्वादियणुकाद्योः खपुष्पेणाविशेषत्वे प्रसजितेऽपि यदि वादी नित्यद्रव्यादीनि स्वरूपसन्ति, न तु सत्तासम्बन्धात , कार्यद्रव्यादीनि च सत्तायोगात् सन्ति न तु स्वरूपसन्ति, खपुष्पादि तु न स्वरूपसत् , नापि सत्तासम्बन्धात् सत्, 20 किन्त्वसदेवेति विशेषः स्यादिति शङ्केत तामपि प्रतिविधातुं पूर्वपक्षयति-अथोच्येतेति, नित्योत्पन्नत्वात् ,-सततोत्पत्तिमत्त्वात् , एवशब्दव्यावर्त्यमादौ व्याख्याति-स्वसद्भावेनैव, स्वतः सद्रूपेणैव न सत्तासमवायेनेत्यर्थः। षटसु पदार्थेषु अनित्यद्रव्यव्यावर्त्य द्रव्यं प्रकाशयति-प्रथिव्यादीति पृथिव्यादीनां चतुर्विधानां परमाणवः आकाशादिपञ्चकञ्च नित्यद्रव्याणि, सत्तासमवायौ-सामान्यसमवायौ, द्रव्यपदेनोपलक्षितावेतौ, जातिमत्त्वात् द्रव्यस्य, अनित्यगुणव्यावाश्च गुणाः-विभुत्वं परममहत्परिमाणं पारिमाण्डल्यमणुपरिमाणादयो विशेषाश्चेति । कार्यद्रव्येति कार्यपदं द्रव्यगुणयोरेव सम्बध्यते, अकार्यकर्मानभ्युपगतत्वात् । अथ यथा सत्ताया नित्यद्र-25 व्यादिसम्बन्धित्वस्वभाववैधुर्य तथा कार्यद्रव्यादिसम्बन्धित्वस्वभाववैधुर्यमपि स्यात् , यथावा परमाण्वादेः स्वरूपसद्रूपताभ्युपगमात् सत्तापरमाण्वादेन कश्चिद्भदः, न वा केनचित् सम्बन्धोऽपेक्ष्यते सत्तया स्वसद्भावे, पदार्थत्वात् स्वरूपसत्त्वाच्च तथैव कार्यद्रव्याण्यपि सत्तारूपाणि भवन्तु नापेक्षन्तां केनचिदपि सम्बन्धमिति द्रव्यादिव्यतिरिक्तसामान्यकल्पनाऽनर्थिकेत्याशयेन समाधत्ते-यथेति । सत्तास्वरूपत्वात् खरूपसद्रूपत्वात् , अयमनुपनिपातिखरूपत्वे हेतुः, अनभिसम्बध्यमानखरूपत्वादिति तदर्थः, तत्साध्यश्चात्माभेदः, तत्साध्यञ्च स्वात्मस्वरूपं स्वात्मन्यादधतीति, दृष्टान्तश्च तत्पदार्थवदिति आकाशपरमाण्वादिवत् सत्तावच्चेति तदर्थः, स्पष्टमन्यत् । इतिशब्दस्य निगमनप्रयोजकत्वादेवं न सत्तादिसमवायात् सन्ति द्रव्यादीनीति दर्शयति-इतिशब्दस्येति । एवं तावदिति,
सि. क. प्यावतत् पदा०। २ सि.क्ष. क. परमाण्वादिष्वगमनादि०,डे. परमाण्वाकाशादिष्वगमनादि। ३ सि. क. डे. वन्ध्यत्वाभावः। ४ प्रज्ञासिष्महि सर्वासु प्रतिषु ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org