________________
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे सत्तायाः, ततश्च समवायाभावात् खपुष्पवत् कारणानामभावात् कार्य व समवैतु ? ततः कार्यसमवायिनां खपुष्पान्न कश्चिद्विशेष इति सर्वशून्यतेति सर्वविरोधाः।
एवं तर्हि सर्वासत्त्वप्रसङ्ग इत्यादि यावत् सर्वशून्यतेति सर्वविरोधा इति–परमाणवोऽकारणत्वाद्वियदादीनि च नोत्पद्यन्ते, अनुत्पन्नत्वान्नाश्रयः सत्तायाः, तदनाश्रयत्व[त् ]सत्तासमवायाभावः, 5 तेषां ह्याश्रयत्वे सत्त्वसमवाय इष्ट इति तद्वैधयं दर्शयति-ततश्च समवायाभावात् खपुष्पवत् कारणानांपरमाण्वादीनामभावः, तदभावात् कार्यमकारणत्वात् अनाधारं क समवैतु ? तस्मात् कारणासमवायित्वात् खपुष्पात्तस्य न कश्चिद्विशेषः, अतः प्रागुक्ताविशेषदोषस्तदवस्थः कार्यसमवायिभिः परमाणुभिः सहितस्य कार्यस्येदानी प्रापितस्त्वयैव, कार्ये समवेतानां रूपादिघटायुत्क्षेपणादीनाम् , कार्ये समवायिनाश्चेति विग्रहान्तरात् , ततः किमिति चेत्, उच्यते, इति सर्वशून्यतेति, सर्वभावा न सन्तीति ब्रुवतः परमशून्यवा10 दिता भवतः, इतिशब्दस्य निगमनार्थत्वात् , इति सर्वविरोधाः-इत्थं स्ववचनाभ्युपगमप्रत्यक्षानुमानरूढिविरोधाः सर्वासद्वादिनः, प्रमाणाभावात् कारणाकारणकार्याकार्यविरोधाविरोधलक्षणभेदसूत्राणां सदाद्यविशेषसूत्रस्य च सत्तासमवायप्राणोत्थानत्वात् किमवशिष्टं स्याच्छास्त्रस्य तत्त्वानाञ्च प्रयोजनस्य वैशेषिकाख्यस्य, कार्यकारणयोश्च खपुष्पाविशेषादिति ।
तन्नोत्पद्यत इति उत्पन्नमाश्रयमाश्रयन्त्याश्रयिण इति च भक्ताऽभ्युपगतम् , तथा च त्वन्मतेन नित्यद्रव्याणां परमाण्वा15 काशादीनामविद्यमानकारणत्वादनुत्पादेन सत्ताश्रयत्वाभावात् खपुष्पवदभावप्रसक्त्या व्यणुकादिघटादिकार्य व समवायेन समवेयात् ?
ततश्च सर्ववस्त्वभाव एवेति शून्यवादः प्रसज्यत इत्याशयं प्रकाशयति-परमाणवोऽकारणत्वादिति । अनुत्पन्नत्वान्नाश्रयः सत्ताया इति व्यतिरेकतो भावयति-तेषां हीति । कारणवदकारणविशेषादिति विशेषोऽपि कार्यखपुष्पयो स्ति, अविद्यमानकारणत्वस्य कार्येऽपि तुल्यत्वादित्याह-तस्मादिति । परमाणुभिः सहितस्य कार्यस्य खपुष्पाविशेषता त्वयैवैवं वदता प्रापितेत्याह
कार्यसमवायिभिरिति । ननु कार्यसमवायिनामिति पदेन कार्यस्य ये समवायिनः आधारास्तेषामविशेषः खपुष्पेण साकं प्रापितो 20 भवति, न तदितरेषामिति सर्वशून्यतानुपपत्तिरित्यत्राह-कार्ये समवेतानामिति, कार्ये समवायिनः समवायसम्बन्धेन सम्ब
न्धिनः कार्यसमवायिन इति विग्रहान्तरस्याप्याश्रयणेन कार्यगतद्रव्यगुणकर्मणामप्यविशेषः प्रापित एवेति भावः । सर्वासत्त्वप्रसङ्ग इति पूर्वप्रतिज्ञातमेव इतिशब्देन हेत्वपदेशपूर्वकं पुनर्वदन् निगमयतीत्याशयं सूचयति-इतिशब्दस्येति, निगमनघटकहेतुप्रतिपादकत्वेन निगमनप्रयोजकत्वादित्यर्थः । सर्वशून्यत्वमपि न त्वयाऽभ्युपगन्तुं शक्यमित्याशयेनाह-इत्थमिति । कारणाकारणेति, 'द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम्' (वै. अ. १ आ. १ सू. १८) 'संयोगविभागाश्च कर्मणाम्' (वै० अ० १ आ. १ 25 सू० ३०) 'द्रव्याणां द्रव्यं कार्य सामान्यम्' (वै० अ० १ आ० २ सू. २३) 'गुणवैधान्न कर्मणां कर्म' (वै० अ० १
आ० २ सू० २४) 'न द्रव्यं कार्य कारणच्च वधति' 'उभयथा गुणाः' 'कार्यविरोधि कर्म' 'क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम्' 'द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्' 'एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम्' (वै० अ० १ आ० १ सृ. १२-१७) 'सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति
द्रव्यगुणकर्मणामविशेषः' (वे. अ० १ आ. १ सू० ८) इत्यादिसूत्रप्रतिपाद्यार्थविशेषाणां सत्तासमवायमूलकत्वेन प्रोक्तक्रमण 30 सर्वशून्यताप्रसक्तेनिराकार्यविषयविशेषाभावात् शास्त्रमिदं निर्विषयमेव, शास्त्रस्य तत्प्रतिपाद्यद्रव्यादितत्त्वस्य साधर्म्यवैधाभ्यां
तत्तत्त्वज्ञानस्वरूपस्य विशेषलक्षणस्य वा प्रयोजनस्य वैशेषिकसंज्ञितस्य कार्यकारणयोश्च खपुष्पवदसत्त्वाविशेषादिति भावः ।
१ सि. क. कारणात् स० । २ क. खपुष्पवत् । ३ सि.क्ष. क. डे. घटत्वाद्यु० । ४ सि. क. कार्य । ५ सि. क. तत्रानांच । ६ सि. क. कारणाखपु०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org