________________
अकारणशब्दार्थः]
द्वादशारनयचक्रम् कार्यखपुष्पयोराश्रयकृतविशेषाभावो वा तत्र तुल्ये तयोरसत्त्वे कार्यमेवोत्पद्यते खपुष्पमेव नोत्पद्यत इति को विशेषहेतुः ।
तद्वयक्तिःयद्यसत् कस्मात् खपुष्पमेव नोत्पद्यते घटादि कस्मादुत्पद्यत इति । अथोच्येत
कारणवदकारणविशेषादिति, यद्यकारणं नोत्पद्यते तत्पुरुषे वाच्ये, अथ बहुव्रीहि-5 समाश्रयणं तन्नोत्पद्यते तस्याविद्यमानकारणत्वात् खपुष्पवद्धटवद्वा ।
यद्यसदित्यादि गतार्थं यावद्भूटादि कस्मादुत्पद्यत इति, इत्यतः कार्यखपुष्पयोरविशेषदोपस्तदवस्थः । अथान्यथैतद्दोषपरिहारार्थमुच्येत-कारणवदकारणविशेषात्-यथासंख्यं सकारणं घटादि खपुष्पमकारणमित्यस्ति विशेषः, कारणैः समवाय्यसमवायिभिर्घटोदि सम्बध्यते, न तु खपुष्पादीति, स एव स्वाभिप्रायं विवृणोति-यद्यकारणं नोत्पद्यते तत्पुरुषे वाच्य इति-न भवति कारणमित्यकारणमित्थं 10 तत्पुरुषसमासश्चेदिष्टः ततः कार्य नोत्पद्यत एव, कारणमेवोत्पद्यते तस्यैव विधिविध्यादिप्राच्यनयदर्शनात् कार्यतयोत्पादात् , स एव कारणवादः परिगृहीतः स्यात् , स च मया नेष्टः, तस्मात्तत्पुरुषेण नैव विचारः कार्यः, अथ यस्य न कारणं तदकारणमिति बहुव्रीहिसमाश्रयणं तन्नोत्पद्यते कार्यम् , तस्य बहुव्रीहिकल्पन[]यामविद्यमानकारणत्वात् खपुष्पवत् घटवदिति वैधयं यथा घट उत्पद्यते न तथेति, ततः किं ? ततोऽनुत्पन्नत्वात् तदनाश्रयः सत्तायाः, सत्तानाश्रयत्वात् सम्बन्धाभावाच्च न तत् कार्यमिति ।
अत्रोच्यते
एवं तर्हि सर्वासत्त्वप्रसङ्गः परमाण्वादयोऽकारणत्वान्नोत्पद्यन्ते, अनुत्पन्नत्वान्नाश्रयः अविशेषमेव व्यक्तीकरोति यद्यसदिति । नन्वस्ति विशेषः कार्यखपुष्पयोरसत्त्वतुल्यत्वेऽपि, कारणवत् कार्य खपुष्पन्त्वकारणमितीति शङ्कते-अथोच्येतेति । भाष्ययति-यदीति। अन्यथा-अन्येन प्रकारेणोच्यत इति भावः, यस्य कारण विद्यते पटादेस्तन्त्वादि तत्कार्य पटादि कारणवत् तदेवोत्पद्यते, यत्त्वकारणमुपादानादिकारणरहितं खपुष्पादि तन्नोत्पद्यत इत्याशयमाचष्टे-यथासंख्य- 20 मिति। यदकारणं तन्नोत्पद्यत इति वाक्यं खामिप्रायप्रकाशनाय समासभेदाश्रयेग व्याकरोति-यद्यकारणमिति,न कारणमकारणम् 'न' (पा०२-२-६) इति सूत्रेण तत्पुरुषसमासः पर्युदासार्थकः, न तु प्रसज्यप्रतिषेधार्थकः, तदर्थेऽव्ययीभावसमासापत्तः, एतदर्थसूचनायैव न भवति कारणमिति भवतिपदघटितवाक्यमुक्तम् , कारणभिन्नमित्यर्थः, तथा च यत् कारणादन्यत् तन्नोत्पद्यत इति वाक्यार्थः कारणं तु उत्पद्यत इति भावार्थः स्यात् , तथा च विधिविध्याधुक्त: कारणवाद एवास्मदनभिमतः प्रसज्यत इति न तत्पुरुषसमास आश्रयणीय इति भावः,मया नेष्ट इति भूते क्तः,न वर्तमाने, 'क्तस्य च वर्तमाने (पा०२-३-६७) इति षष्ठीप्रसङ्गात्, न विद्यते कारणं 25 यस्य तदकारण खपष्पादि नोत्पद्यते घटादिकार्यन्तु नाकारणमपि तु कारणवत्, तदुत्पद्यत एवेति कार्यखपुष्पयोर्विशेषः सम्भवतीत्याशयेनाह-अथ यस्येति । तन्नोत्पद्यते कार्यमिति अकारणं नोत्पद्यते-न उत्पत्त्याश्रयं-न कार्यमिति भावः, अकारणं न कार्यम् , अविद्यमानकारणत्वात् यदविद्यमानकारणं तन्नोत्पद्यते न कार्यम् , यथा खपुष्पम् , यत्तूत्पद्यते तद्विद्यमानकारणं कारणवत् , घट इव तस्मात्तयोर्विशेष इति भावार्थः, ततश्च किं स्यादित्यत्राह-ततोऽनुत्पन्नत्वादिति, एवञ्चाकारणस्यानुत्पन्नत्वात् तत् सत्ताया नाश्रयः, उत्पन्नस्यैव सत्ताश्रयत्वात् , ततश्च सत्तासम्बन्धो नास्ति सत्तायोग्यस्यैव सत्तासम्बन्धात्, अतो न तत् कार्यमिति 30 भावः। यद्येवं बहुव्रीहिसमाश्रयणेन कार्यखपुष्पयोविशेषः उच्यते सोऽपि न सम्भवतीत्याशयेन समाधत्ते-एवं तहीति. सर्व वस्तु-असत् प्रसज्येत, सर्ववस्तुशून्यताप्रसक्तिरिति भावः । तत्कथमित्यत्राह-परमाण्वादय इति । यदविद्यमानकारणं
१ सि. यान्मयैत०। २ सि. क. घटादिभिः। ३ सि. क. तत् पुरुषो। ४ सि. नासत् ।
15
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org