________________
६१६
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे (खपुष्पमिति ) खपुष्पं सत्त्वस्याश्रयो नास्तीति चेत्-स्यान्मतं कारणद्रव्येष्वाश्रयभूतेषु सत्स्वेव सत्तासमवायात् कार्य प्रागसत् पश्चादुत्पद्यते, खपुष्पं तु निराश्रयत्वान्नोत्पत्स्यते, कार्यवैधादित्येतञ्च न, इतरत्रापि तुल्यत्वात्-कार्यमपि हि निराश्रयमसत्त्वादेव, खपुष्पवत् , अतो न कश्चित् कार्यखपुष्पयोर्विशेषः किं कारणम् ? घटस्य कार्यस्य मृदोऽसत्त्वात्--मृद्रव्यस्य पिण्डादिरूपैर्भवितृणो न सत्त्वम् , त्वन्मते पिण्डादेः 5 कार्यसमत्वात् , तस्माद्धटादि सत्त्वस्याश्रयो नास्त्येव, खपुष्पादिसत्त्वस्येव त्वन्मतेनैवोत्पत्स्यमानस्य पिण्डघटादेः कार्यस्य निःसत्तासमवायस्यासतः सत्तासमवायित्वात्-सत्तासमवायित्वाभ्युपगमात् , 'उत्पन्न ह्याश्रयमाश्रयन्यायिणः सत्तादय' इति सिद्धान्तात् , तस्यां ह्यवस्थायां स्वयमसतः कार्यस्याश्रयत्वाभावात् खपुष्प[तुल्यत्व]म् , उत्पन्नमाश्रयन्त्याश्रयिण इत्यहो! परमतकिकरत्वं भवतामिति सत्तायाः समवायाभावे
च कुतः कार्योत्पत्तिरिति । 10 अथाश्रयिसमवायादृतेऽपि सत् कार्य स्वेनैवास्तित्वेनाश्रयो भवति, एवं तर्हि किं तद. तिरिक्तसत्तासम्बन्धकल्पनया ? तदनभ्युपगमे कार्यखपुष्पयोरानयकृतविशेषाभावो वा ।
अथाश्रयीत्यादि, अथैवं तस्मात् खपुष्पतुल्यत्वापत्तिदोषभयात् सत्ताया आश्रयिण्या[:] समवायाहतेऽपि सत्कार्यं तदाश्रयभूतं स्वेनैवास्तित्वेन-स्वभावसत्तयैवोत्पन्नमाश्रयो भवति, कदाचिदप्यनुत्पत्स्यमानस्य खपुष्पस्य वैधणेतीष्यते ततः, एवं तीत्यादि, इष्यत एवैतदेस्माभिः स्वेनैव महिम्ना तत् सदिति 15 नै तु त्वया, त्वया चैवमस्माभिरिवेष्यमाणे खरविषाणाद्यसद्विलक्षणस्य तस्य कार्यस्य स्वत एव सतः किं तदतिरिक्तसत्तासम्बन्धकल्पनया प्रयोजनम् ? न किञ्चित्तेन कल्पितेनेत्यर्थः, सत्तासम्बन्धानर्थक्यमतः सर्वद्रव्यगुणकर्मादिकारणसमवायिकार्यसंसर्गवादो निवर्त्तते, तस्मादेव तदनिष्टानभ्युपगमे यो मया प्रागुक्तः
wwwmom
तस्मान्न तदुत्पद्यते कार्यस्य तु घटादेराश्रयो मृत्पिण्डादिः सद्रूपोऽस्तीति तदुत्पद्यते इति भावः । तमेवाभिप्राय वर्णयतिस्यान्मतमिति । खपुष्पं सत्त्वस्याश्रयो न भवति, सदाश्रयत्वाभावादित्यत्र सदाश्रयत्वाभाव हेतुं स्फुटयति-कारणेति ।
भावः कार्येऽपि तिष्ठल्याश्रयस्य मृत्पिण्डादेरपि कार्यत्वेन सद्भपताविरहात् सत्ताया आश्रयो न स्यादिस्याशयेनाहघटस्येति । पिण्डादेः कार्यसमत्वात्-कार्यसदृशत्वात् , तदेव घटयति-त्वन्मतेनैवेति, असतः सत्तासमवायित्वे तस्यैव वचनं प्रमाणयति-उत्पन्नमिति । सत्तासम्बन्धात् पूर्वमाश्रयत्वेनाभिमतस्य कार्यस्यासत्त्वेन कमाश्रयन्ति सत्तादय इत्याशयेनाह
ति, असतोऽप्याश्रयत्वे खपुष्पमप्याश्रयं स्यादिति खपुष्पतुल्यत्वापत्तिदोष इति भावः। एवं सर्वथाऽसतः खपुष्पतुल्यस्योत्पत्त्या सत्त्वाभ्युपगमे एकान्तासत उत्पत्तिमभिलषतां बौद्धानामनुकरणमेव त्वया कृतमिति ते परमतकिङ्करत्वमेवेति परिहसति25 अहो इति। यदि तु कार्य सत्तासम्बन्धपूर्वमपि खयमेव सदिष्यते ततः सत्तासम्बन्धाभ्युपगमो व्यर्थ इत्याशयेनाह-अथाश्र
योति । खपुष्पं तु न कदाचिदप्युत्पद्यत इति तन्न खरूपसदिति कार्यखपुष्पयोधर्म्यमित्याशयेनाह-कदाचिदपीति । कार्यस्य खरूपतः सत्त्वाभ्युपगमे सत्तासम्बन्धवैयर्थ्यात् षट्पदार्थसंसर्गवादः कार्यकारणयोः समवायेनाऽऽश्रयाश्रयिभाववादश्च निवर्त्तत इत्याशयेन समाधत्ते. त्वयेति। स्वतस्सत्त्वानभ्युपगमे च प्रागुक्तकार्यखपुष्पयोरविशेष एवेति दर्शयति-तदनिष्टानभ्युपगम इति ।
तस्यां
सि. क. "दिकार्य । २ क. सि. क्ष. दिसत्त्वस्येव, त्वन्म । डे० दिसत्वन्म० । ३ सि. न तु त्वया चैवं । क्ष.क.xx
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org