________________
सप्तमो विधिनियमोभयम्
अथ विधिनियमविधिनियमनयः
इदानीं पर्यायनयप्रथम शिराप्रदिदर्शयिषयाऽनन्तरनिर्दिष्टवैशेषिकोभयविधिनिराचिकीर्षया चोत्तरः, समनन्तरानुलोमत्वात् पूर्वविरुद्ध[त्व][न्निवृत्तिनिरनुशयत्वाच्च नयानामसत्कार्यवादमेव दूषयितुमाह
www.w
यद्यत् कार्यं तर्हि न तदुत्पद्येत, असन्निहित भवितृकत्वात् खपुष्पवत्, खपुष्पमपि 5 वोत्पद्येत, असन्निहितभवितृकत्वात् कार्यवत् ।
यद्यसदित्यादि, आस्तां तावदस्मन्मतं पूर्वनयमतेनैवैतत्त्वदर्शनमनुपपन्नमिति ब्रूमः, द्रव्यार्थिकनयानां सन्निहितभवितृकभवनाभ्युपगमात्, नासत्कार्यमुत्पत्तुमर्हति असन्निहित भवितृकत्वात्, खपुष्पवत्, खपुष्पमपि वोत्पद्येत, असन्निहित भवितृकत्वात् कार्यवत्, षट्पदार्थसंसर्गवादस्य सत्तासमवायबलेन प्रवृत्तत्वात् सत्तासमवायोन्मूलनोत् तस्यैवोन्मूलनमित्यभिप्रायेणायं सत्तासमवायविचारप्रस्ताव इति ।
खपुष्पं सत्त्वस्याश्रयो नास्तीति चेत्, इतरत्रापि तुल्यत्वात् कार्यस्य मृदोऽसत्त्वात् त्वन्मते पिण्डादेः कार्यसमत्वात्, असतः सत्तासमवायित्वात् ।
20
एवं द्रव्यास्तिकनयान्निरूप्याथ पर्यायास्तिकनयान्निरूपयितुं प्रतिजानीते - इदानीमिति, द्रव्यार्थिकनयनिरूपणोत्तरकालमित्यर्थः, ‘नाडी तु धमनिः शिरा' इति कोशः, पर्यायनयषङ्केषु शिरारूपेषु प्रथम शिरायाः प्रदर्शन समीहयैष नयो निरूप्यत इति द्रव्यार्थिकनयनिरूपणेन सहास्यावसरसङ्गतिः प्रदर्शिता, तथा द्रव्यार्थिकान्तिमनयेन पर्यायार्थिकप्रथमारस्य सङ्गतिः सूच्यते - अनन्तरेति, नय 15 आरभ्यत इति शेषः, उत्तरमिति वा पाठे नयमिति शेषः तस्याऽऽहेत्यनेन सम्बन्धः, पूर्वोपदर्शितो नयो वैशेषिकस्य, सोऽहि षट्पदार्थसंसर्गवादी सत्तासम्बन्धात् द्रव्यादि सद्भवति परतः, सत्ता तु स्वयमेव सती, एवश्चासदपि पश्चात् सद्भवतीति स्वीकृतत्वात्तदेतन्मतं पूर्व विस्तरत उपपादितं तदधुना निराक्रियते, असदुत्पन्नं सत् पश्चात् सत्तासम्बन्धात् सद्भवतीत्यभ्युपगमो न युक्तोऽसन्निहित भवितृकत्वात् खपुष्पादिवत् सतोऽसतः सदसतो वा पश्चात्तदानीं वा सताऽसता सदसता वा सम्बन्धाभावात् सत्तादीनां सत्करत्वाभावाच्चासदुत्पत्तिस्वीकारस्यायुक्तेः प्रवृत्तिरूपमितरेतराभावलक्षणं वस्त्विति विधिनियमविधिनियमनयस्यास्य मतमत एवायं पूर्वनयविरोधीति भावः । नयानां स्वरूपं दर्शयति- समनन्तरेति, द्वादशानां नयानां यथोदितानां पूर्वपूर्वनयापेक्षयोत्तरोत्तराणां सूक्ष्मविषयत्वात् समनन्तरानुपूर्वीकत्वम्, पूर्वपूर्वनिराकरणात् पूर्वविरुद्धत्वं तत्राप्येकान्तताग्रहस्यैव निवर्त्तनेन सर्वथा निवर्त्तनेऽभिप्रायाभावाच्च निवृत्तिनिरनुशयत्वमिति भावः । द्रव्यार्थिकमतेषु कार्यकारणयोस्तादात्म्यात् भवितृ कार्य कारणे द्रव्ये सदा द्रव्यात्मना सन्निहितमेव, वैशेषिकस्तु कार्यकारणयोस्तादात्म्यं नेच्छति, अत एव कारणे कार्यमसदेव केनापि रूपेणेति भवितृ न सन्निहितमतो नोत्पद्येतेत्याशयेनाह - यद्यसदिति । तत् कार्यं तदेव साध्यधर्मि । सामान्यतः पर्यायार्थिकन येष्वसत्कार्यवादस्यैवेष्टत्वादाह - 25 आस्तां तावदिति । अनुपपत्तौ हेतुमाह - द्रव्यार्थिकेति, यदि द्रव्ये प्रागपि भवितृ सन्निहितं तदैव तस्य भवनं व्यक्तिराविर्भावो युज्यत इति वैशेषिकातिरिक्त द्रव्यार्थिकनयानामभ्युपगम इति भावः । विपक्षेऽतिप्रसक्तिमा दर्शयति- खपुष्पमपि वेति । असत्कार्यवादस्यैवादौ निराकरणे बीजमाह - षट्पदार्थेति द्रव्यगुणकर्मसामान्यविशेषसमवायपदार्थेत्यर्थः, तेषां संसर्गःसाधर्म्यवैधर्म्यसम्बन्धः, तत्प्रधानो वादः षट्पदार्थसंसर्गवादः, तेषां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसाभ्युपगमात्, तत्र साधर्म्य सत्तादि, तत्संसर्गोन्मूलने तदुन्मूलनं भविष्यतीति सत्तासंसर्गोन्मूलन मेवादी विधेयमित्यभिप्रायः । विपक्षेऽतिप्रसक्ति 30 निवारयितुं शङ्कते - खपुष्पमिति सत्तासमवायात् सदाश्रयत्वाच्च कार्य सद्भवति, खपुष्पस्य नास्त्याश्रयः सद्भूतः कश्चिद्,
१ सि. गमनात् । २ सि. क. 'नस्यैवो' ।
द्वा० न० १ (७८)
Jain Education International 2010_04
10
For Private & Personal Use Only
www.jainelibrary.org